________________
(२४)
श्लोकाः
पृष्ठम्
१७०
१-५८ | १७०-१७१
५९-९८ | १७२-१७३
९९-११७ |
१७३
विषयः द्वितीयः सर्गः- श्रीपार्श्वनाथचरितम् (श्रीपार्श्वनाथस्य पूर्वभवाः) जम्बूद्वीपे भरते पोतनपुरे अरविन्दराजा, तत्पुरोहितो विश्वभूति: परमश्रावकः अनुद्धरा तद्भार्या कमठमरुभूती तत्पुत्रौ, वरुणा कमठभार्या, वसुन्धरा मरुभूतिभार्या, विश्वभूतेरनशनेन मृत्वा सौधर्मे सुरत्वं, तद्वियोगेनाऽनुद्धराया अपि नमस्कारपराया मृत्युः, कमठस्य गृहकार्यकर्मठत्वं, मरुभूतेस्तु संसारासारत्वज्ञस्य धर्मरतत्वं विषयपराङ्मुखत्वं च, कमठस्य परस्त्री-द्यूतादिष्वासक्तिः, वसुन्धरायाः पत्याऽस्पृष्टाया विषयेच्छा, कमठेन मुग्धायास्तस्याश्छलेन विप्लवकरणं, तया सह रमणं च, वरुणया तत् मरुभूतये कथनं, मरुभूतिना तद् दृष्ट्वा राज्ञे कथनं, राज्ञा कमठस्य सविडम्बनं निर्वासनं, तेनाऽपि वने गत्वा तापसदीक्षाग्रहणम्, इतः पश्चात्तापपरस्य मरुभूतेस्तत्क्षमायाचनाय गतस्य मूर्धनि शिलाक्षेपणेन कमठेन तद्धननं, तस्य मृत्वा (द्वितीयभवे) विन्ध्ये इभत्वं, वरुणाया अपि मृत्वा तस्यैवेभस्य करिणीत्वम् अरविन्दस्य दीक्षा, अन्यदा सार्थेन सहाऽष्टापदयात्रायै तगमनं, क्रमेण सार्थस्य मरुभूतीभसेविताटवीप्राप्तिः, तान् दृष्ट्वा कोपान्धेनेभेन तान् प्रति धावनं गर्जनं च, तेन सर्वेषां पलायनं, केवलमवधिज्ञानिनोऽरविन्दर्षे: कायोत्सर्गरतत्वं, तं दृष्ट्वा हस्तिनः प्रशमः, मुनिना तत्प्रतिबोधनं, हस्तिनो जातिस्मरणं, वरुणाकरिण्या सह तस्य श्रावकव्रतग्रहणम् कुञ्जरस्य तपोरतत्वं, शुभध्यानं च, कमठस्य मृत्वा कुक्कुटसर्पत्वं, भ्रमता तेन प्रासुकं पयः पिबन्तं पङ्के मग्नं च मरुभूतीभं दृष्ट्वा दशनं, समाहितस्य तस्य मृत्वा (तृतीयभवे) सहस्रारे सुरत्वं, करिण्या अपि तीव्रतपश्चरणेन विपद्य द्वितीयकल्पे देवीत्वं; गजजीवदेवेन तस्याः स्वकल्पे नयनं, द्वयोश्च सुखभोगः, कुक्कुटाहेस्तु मृत्वा पञ्चमनरके गमनम् (चतुर्थभवे) प्राग्विदेहे सुकच्छे विजये वैताढ्यपर्वते तिलकापुरे गजजीवस्य विद्युद्गतिखेचरेशकनकतिलकयोः पुत्रतया जन्म, किरणवेग इति तन्नाम, यौवने पित्रा तं राज्ये न्यस्य दीक्षाग्रहणं, तस्याऽपि किरणतेजाः पुत्रः, अन्यदा सुरगुरुमुनेर्देशनया विरक्तस्य किरणवेगस्य प्रव्रज्या, अन्यदा पुष्करद्वीपं गत्वा शाश्वतार्हतो नत्वा हैमशैलस्य प्रदेशे तस्य प्रतिमाकरणं, तदा कुक्कुटाहिजीवस्य नरकादुद्वृत्तस्य तत्रैव महाहितयोत्पन्नस्य मुनिं दृष्ट्वा कोपः, मुनिशरीरं वेष्टयित्वा च दशनं, मुनेश्च नमस्कारं स्मृत्वा समाधिनाऽनशनेन च मृत्वा (पञ्चमे भवे) द्वादशे कल्पे देवत्वं, तस्य चाऽहेर्दवाग्निना मृत्वा षष्ठे नरके उत्पत्तिः (षष्ठे भवे) प्रत्यग्विदेहे सुगन्धिविजये शुभङ्करापुयाँ किरणवेगजीवस्य स्वर्गाच्च्युत्वा वज्रवीर्यनृपलक्ष्मीवत्योः वज्रनाभाभिधपुत्रत्वेन जन्म, यौवने पित्रोस्तं राज्येऽभिषिच्य व्रतग्रहणं, तस्य चक्रायुधः पुत्रः, वज्रनाभस्य यौवनादेव संसारभीतस्य चक्रायुधं राज्ये न्यस्य क्षेमङ्करतीर्थकृत्पावें दीक्षाग्रहणम्, अन्यदा वज्रनाभ-मुनेरेकाकिविहारप्रतिमाधरस्य सुकच्छे विजये ज्वलनाद्रौ महाटव्यां गमनं, कायोत्सर्गेणाऽवस्थानं, तस्य सर्पजीवस्याऽपि नरकादुद्वृत्तस्य तस्यामेवाऽटव्यां कुरङ्गकाभिधभिल्लत्वेन जन्म, पापद्धय निर्यातस्य तस्य मुनि दृष्ट्वा कोपः, शरेण च मुनेहननं, मुनेश्च समाधिना मृत्वा (सप्तमे भवे) मध्यप्रैवेवके देवत्वं, कुरङ्गकस्याऽपि महापापानि कृत्वा सप्तमे नरके उत्पत्तिः (अष्टमे भवे) जम्बूद्वीपे प्रत्यग्विदेहे पुराणपुरे वज्रनाभजीवस्य कुलिशबाहुनृपसुदर्शनयोश्चतुर्दशमहास्वप्नदर्शनपूर्वकं पुत्रत्वेन जन्म, सुवर्णबाहुरिति तन्नाम, यौवने पित्रा तं राज्ये न्यस्य व्रतग्रहणं, तस्याऽपि रत्नपुरेशस्य पद्मानामकन्यया सह विवाहः, षट्खण्डसाधनं च, अन्यदा तीर्थकरं समवसृतं ज्ञात्वा तस्य देशनाश्रवणं, देवान् वीक्ष्य च जातिस्मरणं, सुतं च राज्ये न्यस्य विरक्तस्य तस्य दीक्षा, अर्हद्भक्त्यादिभि: स्थानैराराधितैस्तस्य तीर्थकृत्रामार्जनम्, अन्यदा तस्य क्षीरमहागिरिपार्वे क्षीरवणाटवीगमनं, तत्र चाऽऽतापनां कुर्वतस्तस्य प्रतिमयाऽवस्थानं, तदा कुरङ्गकजीवस्याऽपि नरकादुद्वृत्तस्य सिंहत्वेन तत्रैव जन्म, तस्य च स्वर्णबाहुमुनि दृष्ट्वा कोपः, प्रहारकरणं, विदारणं च, मुनेश्चाऽनशनं, समाधिना क्षमापूर्वकं च मृत्वा (नवमे भवे) दशमे कल्पे महाप्रभविमाने देवत्वं, सिंहस्य च विपद्य चतुर्थनरके नरकत्वं ततो निर्गत्य च तिर्यग्योनिषु बहुविधं भ्रमणम्
११८-१५० १७३-१७४
१९८-३१०/ १७५-१७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org