________________
(२२)
विषयः
जराकुमारस्य पाण्डवसमीपे गमनं द्वारका दाहादिवृत्तकथनं, कौस्तुभार्पणं च शोकमग्नैः पाण्डवैः कृष्णस्य प्रेतकार्यकरणं, ततस्तेषां प्रव्रज्येच्छां ज्ञात्वा नेमिनाथेन धर्मघोषमुनेस्तत्र प्रेषणं, तैरपि जराकुमारं राज्ये न्यस्य द्रौपद्यादिसहितैः प्रव्रज्याग्रहणं, साभिग्रहतपःकरणं च नेमिनाथवन्दनार्थं ततो विहारश्च नेमिनाथभगवतो विविधदेशेषु विहारः, नैकजीवप्रतिबोधनं च
भगवतः परिवारवर्णनं, निर्वाणसमयं ज्ञात्वा प्रभो रैवतके गमनम्
समवसरणे रचिते भगवतः पर्यन्तदेशना, पादपोपगमनानशनं, षटत्रिंशैः पञ्चभिः शतैश्च साधूनां सहितैः आषाढ शुक्लाष्टम्यां निर्वाणं च
प्रद्युम्न - शाम्बादीनां कुमाराणां कृष्णस्याष्टानां महिषीणां, भगवतो बन्धूनां राजीमती - रथनेमिप्रभृतिव्रतिव्रतिनीनां च मोक्षगमनं, शिवा-समुद्रविजयोर्माहेन्द्रकल्पे गमनं, दशार्हाणां च विविधदेवलोकगमनम्, इन्द्रादिभिः प्रभोर्देहस्याऽग्निसंस्कारकरणं तत्स्थाने च नेमिनाथप्रतिमायुतस्य चैत्यस्य रचनं, इतो हस्तिकल्पपुरं प्राप्तैः पाण्डवैः जनेभ्यो नेमिनाथनिर्वाणं श्रुत्वा शोकेन विमलाद्रौ गमनं तत्र चाऽनशनेन केवलं प्राप्य निर्वाणगमनं च द्रौपद्यास्तु ब्रह्मलोकगमनम्
॥ अष्टमं पर्व समाप्तम् ॥
नवमं पर्व
प्रथमः सर्गः, ब्रह्मदत्तचक्रिचरितम्
ब्रह्मदत्तचक्रिणः पूर्वभवानां वर्णनं, यथा, जम्बूद्वीपे भारते साकेतनगरे चन्द्रावतंसपुत्रस्य मुनिचन्द्रनाम्नो वैराग्यात् सागरचन्द्रमुनि पार्श्वे व्रतग्रहणम्, अन्यदा गुरुणा सह विहरतस्तस्य सार्थाद् भ्रष्टत्वात् अटव्यामटनं, तत्र चतुर्भिर्गोपैस्तत्प्रतिचरणं, मुनिनाऽपि तान् प्रतिबोध्य दीक्षार्पणं, तत्र द्वाभ्यां सम्यक्प्रतपालनं द्वयोश्च जुगुप्सा, सर्वेषां स्वर्गमनं, जुगुप्साकारिणोस्ततश्च्युत्वा दासपुत्रत्वं, सर्पदंशेन तत्र विपद्याऽनन्तरजन्मनि मृगत्वं, ततो मृतगङ्गायां हंसत्वं ततश्च वाराणस्यां भूतदत्ताभिधस्य महर्द्धिमातङ्गस्य चित्रसम्भूतिनामपुत्रत्वम्
अत्राऽपि निमित् प्राप्य व्रतं गृहीत्वा सम्यक् पालयतोस्तयोः वन्दनार्थमागतस्य चक्रिणः स्त्रीरत्नस्य केशसंस्पर्शेन सम्भूतमुनेश्चकित्वप्रापणाय निदानकरणं, द्वयोर्मृत्वा सौधर्मे सुरत्वम्
ततश्च्युत्वा चित्रजीवस्य पुरिमताले महेभ्यतनयत्वं, सम्भूतस्य च काम्पिल्ये ब्रह्म-चुलन्योर्ब्रह्मदत्तनामपुत्रत्वेन जन्म, ब्रह्मदत्तस्य द्वादशे वयसि तत्पितुर्मरणं, ब्रह्ममित्रैश्च दीर्घराजस्य ब्रह्मराजराज्यत्राणाय नियोजनं, दीर्घस्य राज्यसम्पद्धरणं चुलन्या सह रमणं च
सर्वमिदं ब्रह्मराजमन्त्रिणा धनुषा ज्ञात्वा ब्रह्मदत्तरक्षणाय स्वसुतवरधनोर्नियोजनं, तस्माच्च स्वमातुर्वृत्तं ज्ञात्वा ब्रह्मदत्तस्य कोप:
तेन शुद्धान्तमध्ये गत्वा स्वकोपप्रकाशनं, तदाकूतं ज्ञात्वा दीर्घेण चुलन्यास्तन्मारणाय सज्जीकरणं, तस्यो - द्वाहं कृत्वा जतुगृहे ज्वालनीयोऽसावित्युपायकरणं च
तज्ज्ञात्वा धनुषोपायेन गङ्गातीरे सत्रमण्डपकरणं, पान्थेभ्योऽन्नपानादिदानं च ततः प्रत्ययितनरैस्तेन जतुगृहावधि सुरङ्गाकरणम् ततो युक्त्या राजकन्यास्थाने दासीमानाय्य ब्रह्मदत्तस्य विवाहकरणम् जतुगृहे वरधनुना सह प्रविष्टे ब्रह्मदत्ते निशार्थे चुलन्यादिष्टपुरुषैस्तज्ज्वालनं, वरधनुना च सुरङ्गाद्वारमुद्घाट्य ततो ब्रह्मदत्तेन सह निष्क्रमणम्
ब्राह्मणगृहे भोजनार्थं प्रविष्टस्य ब्रह्मदत्तस्य ब्राह्मणेन स्वपुत्र्या विवाहकरणम्
ततोऽग्रेगतयोस्तयोर्दीर्घपुरुषैर्मार्गरोधेन वरधनुषि गृहीते ब्रह्मदत्तस्य पलायनम् गच्छतस्तस्याऽऽश्रमं दृष्ट्वा कुलपतिपार्श्वे गमनं, स्ववृत्तकथनं च तच्छ्रुत्वा हृष्टेन तेन स्वस्य तत्पितुलघुभ्रातृत्वकथनं, ब्रह्मदत्तस्य चाऽऽ श्रम एव स्थापयित्वा कलाशिक्षणम्
अन्यदा वनं गतेन ब्रह्मदत्तेन मत्तहस्तिनं दृष्ट्वा तेन सह खेलनं, हस्तिनि च नष्टे तस्य वने भ्रष्टत्वम्
Jain Education International
For Private Personal Use Only
श्लोकाः
९०-९५
१४८
९६-९९
१४८
१००-१०५ १४८-१४९
१०६-१०९
११० -१२८
१- २१
२२-१०२
१०३ - १२२
१२३-१२८
१२९-१४४
पृष्ठम्
१५८ - १७७ १७८-१८४ १८५ - १९२
१९३-२०२ २०३ - २१३
१४९
१४९-१५०
१५१
१५१
१५१ - १५४
१५४-१५५
१५५
१४५ - १५७ १५५-१५६
१५५
१५६ १५६ १५६-१५७
१५७
१५७
www.jainelibrary.org