________________
(२०)
विषयः
| श्लोकाः ।
पृष्ठम्
नेमिनाथं समवसृतं ज्ञात्वा गजसुकुमालस्य धर्मश्रवणं, वैराग्यं, पितरौ समनुज्ञाप्य च सभार्यस्य तस्य व्रतग्रहणं, सायं स्मशाने प्रतिमाविधानं, सोमशर्मणा तद् दृष्ट्वा कुपितेन तच्छिरसि ज्वलच्चिताङ्गारपूर्णघटीकण्ठस्य स्थापनं, समाधिनाऽधिषहमानस्य तस्य कर्मेन्धनानि दग्ध्वा केवलोत्पत्ति: मोक्षश्च । १२७-१३३ १३४ कृष्णेन तमदृष्ट्वा प्रभोः पृच्छा, तन्मोक्षं ज्ञात्वा कृष्णमूर्छा, संज्ञां लब्ध्वा तेन भ्रातृवधकपृच्छनं, भगवता 'सोमशर्मणे मा कुपः स त्वद्भातुर्मोक्षसाधने सहायः' इति कथनं, कृष्णेन भ्रातुः संस्कारादिकरणं, पुरी प्रविशता च सोमं भयेन मृतं दृष्ट्वा तद्देहं बन्धयित्वा नगरे च भ्रमयित्वा गृध्रादीनां बलितया क्षेपणम् १३४-१४५ १३५ गजसुकुमालशोकेन वसुदेवं विना दशार्हाणां, शिवादेव्याः, प्रभोः सप्तसोदर्याणां, राजीमत्याः, एकनाशायाः, बहूनां कृष्णपुत्राणां यदूनां च परिव्रज्या, वसुदेवस्य कनकवती-रोहिणी-देवकीभिविना सर्वासां पत्नीनां प्रव्रज्या, कृष्णस्य च कन्योद्वाहप्रत्याख्यानाभिग्रहः, ततः कनकवत्याः गृहे स्थिताया अपि कैवल्योत्पत्तिः, स्वयं प्रव्रज्याग्रहणं, स्वामिनं दृष्ट्वा च मासिकानशनेन निर्वाणम्
१४६-१५३ १३५ सागरचन्द्रस्याऽणुव्रतधरस्य प्रतिमाधरस्य श्मशाने कायोत्सर्ग कुर्वाणस्य शिरसि नभःसेनेन चिताङ्गाराणां न्यसनं, तस्य मृत्वा स्वर्गमनम्
१५४-१५८ १३५ शक्रेण स्व:सदसि कृष्णवर्णनं, देवस्य कस्यचिद् द्वारवतीमागत्य कृष्णपरीक्षा, वरदानं च
१५९-१६८ १३५-१३६ कृष्णेन द्वारकायां रोगोपसर्गशान्तिः स्यादिति वरयाचनं, देवेन तस्मै भेरीदानं, भेरीवादनेन रोगाद्युपशान्तिः, अथाऽर्थलुब्धेन भेरीरक्षकेण भेर्याः कन्थीकरणम्, भेरीरक्षककुकृत्यज्ञानेन हत्वा तं कृष्णेनाऽष्टमं कृत्वाऽमरात् पुनरपि भेरीप्राप्तिः
१६९-१७९ १३६ कृष्णेन भेरीवादनेनाऽशिवोपशान्तिकरणं, वैद्यद्वयस्य च चिकित्सायै योजनं, तत्र वैतरणेर्यथोचितं चिकित्सा धन्वन्तरेस्तु पापसंयुता चिकित्सा, भगवता धन्वन्तरेः सप्तमपृथ्वीगमनकथनं, वैतरणेश्च विन्ध्यवने कपित्वप्राप्तिकथनं, ततः साधुचिकित्सां कृत्वाऽनशनेन च तस्य सहस्रारे सुरत्वप्राप्तिकथनं, श्रुत्वैतत् कृष्णस्य धर्मश्रद्धावृद्धिः
१८०-१९९ / १३६ अन्यदा भगवत: पार्वे वर्षास्वविहारकारणं श्रुत्वा कृष्णेनाऽपि स्वगेहादनिःसरणाभिग्रहग्रहणं, स्वगृहे च सर्वेषां प्रवेशनिषेधनं, वीरकुविन्दस्य प्रतिज्ञां ज्ञात्वा कृष्णेन सकृपेन तस्य स्वगृहागमनानुज्ञा २००-२१० १३७ कृष्णेन देशनायां यतिधर्मं श्रुत्वाऽन्यदीक्षाग्राहणानुमोदनादिनियमग्रहणं, स्वकन्यानां युक्त्या प्रव्राजनम्, अथैकदा मातृशिक्षितायाः केतुमञ्जर्याः वचः श्रुत्वा कृष्णेन युक्त्या तस्या वीरकेण सह विवाहकरणं, प्रव्राजनं च
२११-२३० अन्यदा कृष्णस्य वीरकस्याऽपि सर्वेषां साधूनां द्वादशावर्तवन्दनं, कृष्णस्य भगवता क्षायिकसम्यक्त्वाद्यर्जनकथनं, पुनरपि वन्दनोद्यतस्य च भगवता निवारणम्,
२४०-२४८ १३८ कृष्णस्य ढण्ढणनामपुत्रस्य वैराग्याद्दीक्षा, तस्याऽन्यदाऽन्तरायकर्मोदयेन भिक्षाया अलाभे साधुभिश्च भगवतस्तत्कारणे पृष्टे भगवता ढण्ढणपूर्वभवदुष्कृतकथनं, तच्छ्रुत्वा ढण्ढणस्य परलब्ध्या भोजनाग्रहणाभिग्रहः, अलाभपरीषहसहनं च
२४९-२६० १३८ कृष्णेन भगवतो 'दुष्करकारकमहर्षिः क' इति पृष्टे भगवता 'ढण्ढण' इति कथनं, निवर्तमानेन कृष्णेन ढण्ढणं दृष्ट्वा तद्वन्दनं, श्रेष्ठिनैकेन ढण्ढणं समाकार्य मोदकेन तत्प्रतिलाभनं, ढण्ढणेन भगवत्पार्वे गत्वा पृष्टे भगवता 'हरेर्लब्धिरिय' मिति कथिते ढण्ढणस्य तां भिक्षां परिष्ठापयतः शुद्धभावेन केवलोत्पादः | २६१-२७० | १३८-१३९ अन्यदा स्वामिपावें गच्छति रथनेमावकस्माद् वृष्टिं जातां दृष्ट्वा गुहायां प्रवेशः, इतो राजीमत्या अपि वृष्टिवशात्तस्यामेव गुहायां प्रवेशः, वस्त्रमोचनं, रथनेमे: कामातुरतया भोगप्रार्थनं, तया तस्य सम्यक् प्रतिबोधनं, तस्य च पश्चात्तापपरस्य तीव्रव्रतपालनं, प्रभोरग्रे स्वदुश्चरितालोचनं, वत्सरान्ते च केवलोत्पादः | २७१-२८६ १३९ अन्यदा रैवतकाचले समवसृते स्वामिनि कृष्णेन पालक-शाम्बादिपुत्राणां परीक्षणं प्रभोः सकाशात् द्रव्य-भावयोव्याभव्ययोश्च भेदं ज्ञात्वा कृष्णेन पालकनिर्वासनं शाम्बसत्कृतिश्च
२८७-२९४ एकादशः सर्गः
१४० अन्यदा प्रभोर्देशनान्ते कृष्णेन द्वारकाया यदूनां स्वस्य च क्षयस्य हेतोः पृच्छा, भगवताऽपि च 'द्वारका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org