SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (१९) विषयः | श्लोकाः | पृष्ठम् चतुःपञ्चाशद्दिनानन्तरं रैवतके सहस्राम्रवणे आश्विनामावास्यायां नेमिनाथस्य कैवल्योत्पादः, इन्द्रैरागत्य समवसरणविरचनं, भगवतोऽपि च तत्र पूर्वद्वारेण प्रविश्य, चैत्यवृक्षं प्रदक्षिणीकृत्य 'तीर्थाय नम' इत्युक्त्वा च सिंहासने उपवेशनं, व्यन्तरसुरैश्चाऽन्यासु दिक्ष्वपि भगवत्प्रतिरूपकरणम् २७५-२८१] १२७ अथ शैलपालकेभ्यो भगवत्समवसृति ज्ञात्वा सपरिवारस्य कृष्णस्य महत्या ऋद्धया तत्र गमनं, प्रदक्षिणावन्दनादि कृत्वा च यथास्थानमुपवेशनम् २८२-२८८ १२७ इन्द्र-कृष्णाभ्यां भगवतः स्तवनम् २८९-२९८ १२७ भगवतो देशना २९९-३६४ १२७-१३० देशनां श्रुत्वा वरदत्तस्य व्रतोत्सुकता, कृष्णेन राजीमत्यनुरागकारणपृच्छा, भगवता स्वस्य तया सहाऽष्टभवसम्बन्धकथनं, वरदत्तस्य भगवता दीक्षादानं, ततः द्विसहस्रक्षत्रियाणां दीक्षा, अन्येषामपि पूर्वभवसम्बन्धिनां दीक्षा, वरदत्तादीनामेकादशानां गणधरत्वेन स्थापनं, तैश्च द्वादशाङ्गीविरचनं, ततो यक्षिणीराजपुत्र्या नैककन्याभिः सह दीक्षा, दशा.ग्रसेन-कृष्णादीनां, शिवा-रोहिणी-देवकी-रुक्मिण्यादीनां च श्रावकत्वम्, द्वितीयपौरुष्यां वरदत्त-देशना, ततः सर्वेषां स्वस्वस्थानगमनम् ३६८-३८३ १३० भगवतः शासनदेवतात्वेन गोमेधयक्षाम्बिकादेव्यो स्थापना ३८४-३८७ १३० दशमः सर्गः अन्यदा हस्तिनापुरे नारदस्य द्रौपद्याऽवज्ञा, तेन कुपितस्य नारदस्य धातकीखण्डभरतेऽमरकङ्कापुरि पद्मनृपपार्वे गत्वा द्रौपदीवर्णनं, पद्मनाभेन पूर्वमित्रसुराराधनेन द्रौपद्याः स्वगृहे आनयनं, द्रौपदीपावें भोगयाचनं, तया चैकमासावधिकरणम् १-१३ | १३१ पाण्डवानां कृष्णपार्वे गमनं, नारदेनाऽऽगत्य 'साऽमरकङ्कायामस्ती'त्यादिकथनं, सपाण्डवस्य कृष्णस्य मागधतीर्थे गत्वा सुस्थितसुराराधनेन लवणाम्भोधौ मार्गप्रापणम् २०-३७ । १३१-१३२ अमरकङ्कां गत्वा कृष्णेन दारुकस्य दूततया प्रेषणं, पद्मस्य युद्धायाऽऽगमनं, तदा कृष्णेन ध्मातस्य शङ्खस्य ध्वनि श्रुत्वा तद्धनुषश्चाऽऽस्फालनेन पद्मस्य सैन्यत्रिभागद्वयस्य नाशः, तदाऽवशिष्टत्रिभागेन सह पद्मस्य नगरी प्रविश्य द्वारपिधानं, कृष्णस्य वैक्रियसमुद्धातेन नरसिंहरूपकरणं, पद्मस्य द्रौपदीशरणगमनं, तयाऽपि च तस्य स्त्रीवेषं विरचय्य कृष्णशरणप्रेषणं, तं क्षमयित्वा द्रौपदी च गृहीत्वा कृष्णस्य सपाण्डवस्य प्रतिनिवर्तनम् ३८-६३ १३२ तदैव मुनिसुव्रतनाम्नस्तीर्थकृतः सभायां स्थितेन कपिलवासुदेवेन कृष्णध्मातशङ्खध्वनि श्रुत्वा प्रभोः पृच्छन, भगवताऽपि यथाघटितकथनम् ६४-७३ | १३२-१३३ तत: कपिलस्याऽमरकङ्कां गत्वा पद्मनिर्वासनं, तत्स्थाने च तत्पुत्रस्थापनम् ७४-७६ १३३ कृष्णस्याऽम्भोधि तीर्वा पाण्डवानां गङ्गोत्तरणाय प्रेषणं, तैरपि गङ्गामुत्तीर्य कृष्णबलपरीक्षणार्थं नावस्तत्रैव धारणं, पाण्डवानां बलपरीक्षणाध्यवसितं ज्ञात्वा कुपितेन कृष्णेन तेषां रथमर्दनं, निर्विषयीकरणं, द्वारकागमनं च ७७-८८ कुन्त्या द्वारकामागत्य कृष्णविज्ञप्तिकरणं, कृष्णेन च 'दक्षिणाब्धितटे पाण्डुमथुरानगरी निवेश्य पाण्डवास्तत्र वसन्तु' इति कथनं, हस्तिनापुरे च कृष्णेनाऽभिमन्यु-सुभद्रयोः पुत्रस्य परीक्षिप्तनाम्नोऽभिषेचनम् ८९-९३ नेमिनाथस्य भद्दिलपुरे गमनं, तत्र सुलसा-नागयोः षण्णां सुतानां भगवतो बोधं प्राप्य दीक्षाग्रहणम् ९४-९७ भगवतो द्वारकायां सहस्राम्रणोपवने समवसरणं, तदा तेषां देवकीपुत्राणां त्रिधा युगलिनो भूत्वा क्रमशो देवकीगृहगमनं, तया च विस्मयेनाऽन्त्ययुगलिनोः पृच्छनं, ताभ्यां च यथातथकथनं, देवक्या भगवते पृच्छा, भगवताऽपि यथाघटितकथनं, तया षड्भ्योऽपि वन्दनं, ततस्तस्या खेदः ९८-११३ | १३३-१३४ भगवता तत्पूर्वजन्मदुष्कृतकथनं, तस्याश्च पुत्रजन्माभिकाङ्क्षां ज्ञात्वा कृष्णेन नैगमेषिण आराधनेन देवकीकृते पुत्रयाचनं, ततः कस्यचिन्महर्द्धिकदेवस्य स्वर्गाच्च्युत्वा देवक्याः कुक्षाववतरणं, काले जन्म, गजसुकुमाल इति तन्नाम, रूपेण च कृष्णसादृश्यं, यौवने प्राप्ते तस्य द्रुमनृपकन्यया प्रभावत्या सोमशर्मद्विजपुत्र्या च सोमया परिणयः ११४-१२६ १३४ १३३ १३३ १३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy