________________
सप्तमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
११५ प्रतिविष्णुर्विष्णुनैव वध्य इत्यनुपालयन् । स्वामी त्रैलोक्यमल्लोऽपि जरासन्धं जघान न । ॥४३२॥ परसैन्यानि रुद्ध्वाऽस्थाच्छ्रीनेमिर्धमंयन् रथम् । लब्धोत्साहा युयुधिरे भूयोऽपि यदुसैन्यकाः ।४३३॥ अत्राऽन्तरे पाण्डुपुत्रैः सिंहैरिव कुरङ्गकाः । अवशिष्टा धार्तराष्ट्रा निजवैरान्निजघ्निरे ॥४३४।। स्वस्थीभूतो बलदेवोऽप्युदस्तायोग्रलाङ्गलः । अनेकशो योधयित्वा जघान परसैनिकान् ॥४३५।। पाइतश्च कृष्णमवदद् जरासन्ध इयच्चिरम् । जीवितो माययैवाऽसि भो गोपाल ! शृगालवत् ॥४३६।। माययैव हतः कंसो हत: कालोऽपि मायया । त्वया ह्यशिक्षितास्त्रेण समरः क्रियते न हि ॥४३७॥ तव प्राणैः सहैवाऽद्य मायां पर्यन्तयाम्यरे ! । एषोऽद्य जीवयशसः प्रतिज्ञां पूरयामि च ॥४३८॥ स्मित्वा कृष्णोऽब्रवीद् राजन्नित्थं निर्मिथ्यमात्थ भोः ! । ईदृक्षोऽस्मि परं स्वस्य दृश्यतां शिक्षितास्त्रता ॥४३९।। नाऽहं स्वश्लाघनस्त्वद्वदेकमाख्यामि किं त्विदम् । पूरिष्यते त्वदुहितुः प्रतिज्ञाऽग्निप्रवेशनात् ॥४४०॥ इति विष्णुगिरा कुद्धो जरासन्धोऽमुचच्छरान् । स्किर्तनस्तमांसीव कृष्णोऽपि विचकर्त तान् ।।४४१॥ उभावपि ससंरम्भौ शरभाविव धन्विनौ । अयुध्येतां धनुनिलनयन्तो दिशोऽखिलाः ॥४४२। तयोः समरसम्मर्दाच्चुक्षुभुर्जलराशयः । वि।सुः खेचरा व्योम्नि गिरयश्च चकम्पिरे ॥४४३।। गंतागतं तद्रथयोर्दढयोः शैलयोरिव । असहिष्णुर्मही सर्वंसहत्वममुचत् क्षणात् ॥४४४।। दैवतैर्दैवतान्यस्त्राण्यायसैरायसानि तु । प्रत्यहन्मगधेशस्य लीलयैव जनार्दनः ॥४४५।। जाते सर्वास्त्रवैफल्ये वैलक्ष्यामर्षपूरितः । चक्रं सस्मार दुर्वारमन्यास्त्रैर्मगधेश्वरः ॥४४६।। चक्रं तदागतं सद्यो भ्रमयित्वा करेण खे । कृष्णाय जयतृष्णावान् कोपान्धो मागधोऽमुचत् ॥४४७|| चके तत्राऽऽपतत्युच्चैस्त्रेसुः खे खेचरा अपि । चुक्षुभुः कृष्णसैन्यानि लब्धदैन्यानि सर्वतः ॥४४८॥ तच्च स्खलयितुं कृष्णो रामः पञ्चाऽपि पाण्डवाः । महारथाश्चाऽपरेऽपि स्वान्यस्त्राणि प्रचिक्षिपुः ॥४४९॥ तैरस्खलितमुत्पूरसिन्धुस्रोत इव द्रुमैः । एत्य तुम्बेन तच्चकं कृष्णं वक्षस्यताडयत् ॥४५०॥ भेदितं भेदनीत्येवं तच्चक्रं पार्श्वतः स्थितिम् । आददे पाणिना कृष्णः स्वं प्रतापमिवोद्यतम् ॥४५१॥ नवमो वासुदेवोऽयमुत्पन्न इति घोषिणः । गन्धाम्बु-कुसुमवृष्टिं कृष्णे व्योम्नोऽमुचन् सुराः ॥४५२॥ कृष्णोऽपि जातकारुण्यो बभाषे मगधाधिपम् । एषाऽपि मम किं माया? विद्ध्यद्याऽपि गृहे व्रज ॥४५३।। ममाऽऽज्ञां प्रतिपद्यस्व पुनरेधस्व सम्पदा । मुञ्च मानं दुर्विपाकं जीवाऽद्यापि जरन्नपि ॥४५४॥ ममैतदुल्मुकप्रायं मयैव चिरलालितम् । चक्रं मुञ्चसि तन्मुञ्चेत्युवाच मगधेश्वरः ॥४५५॥ जरासन्धाय तच्चकं ममोचाऽथ जनार्दनः । परेषामेव शस्त्राणि शस्त्राणि स्युर्महात्मनाम् ॥४५६।।
[वसन्ततिलका] तच्चक्रंकृत्तमपतन्मगधेश्वरस्य, .
___पृथ्व्यां शिरः स तु जगाम चतुर्थपृथ्व्याम् । कृष्णस्य चोपरि सुराः सुरवृक्षपुष्प
वृष्टिं व्यधुर्जय जयेति वदन्त उच्चैः ॥४५७।। . ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमपर्वणि शाम्ब-प्रद्युम्नविवाह
जरासन्धवधकीर्तनो नाम
सप्तमः सर्गः ॥ १. वासुदेवेनैव प्रतिवासुदेवो वध्य इति कारणात् श्रीनेमिना न हतः । २. भ्रामयन् खं० २ । ३. सैनिका: खं० १, ला० सू० । ४. सुस्थी. खं० २ । ५. मुशल-हल । ६. सत्यम् । ७. ब्रवीषि । ८. सूर्यः । ९. तनो रं तक खं० २ । १०. देवतैर्दैवता० खं० २ । ११. साम-दाम-भेद-दण्डेतिनीतिषु तृतीयनीत्या भेदितं इव चक्रमभूत् । १२. वृद्धः : १३. स्वकानि खं० २, मु० र० । १४. तेन चक्रेण कृत्तं-छिन्नम् । १५. चतुर्थे नरके । १६. अष्टमे मु० र० । १७. शाम्ब इति न खं० २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org