________________
सप्तमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । धरणेन्द्र इव स्थाम्ना धरणोऽम्बष्टकं नुपम् । अवधीदभिचन्द्रोऽपि शतधन्वानमुद्धतम् ।।२९८॥ द्रुपदं पूरणोऽभाङ्क्षीत् कुन्तिभोजं सुनेम्यपि । महापक्षं सत्यनेमिः श्रीदेवं दृढनेम्यपि ॥२९९।। एवं च यदुवीरैस्तैर्भग्नाः परनृपा ययुः । हिरण्यनाभं शरणं सेनानीत्वे प्रतिष्ठितम् ।३००॥ पाइतो भीमा-ऽर्जनौ वीरौ रामपत्राश्च दोर्भतः । व्यद्रावयन धार्तराष्टान धार्तराष्टान घना इव ॥३०॥ अन्धकारो दिशां जज्ञे पतद्भिः पार्थपत्रिभिः । घोरैर्गाण्डीवनिर्घोषैविधुरं विश्वमप्यभूत् ॥३०२।। आकर्षतः सन्दधतो मञ्चतश्च शरान रयात । नाऽलक्ष्यताऽन्तरं तस्यानिमिषैरपि खस्थितैः ॥३०३।। पाअथ दुर्योधनः काशिस्त्रिगर्तः सबलोऽपि च । कपोतो रोमराजश्च चित्रसेनो जयद्रथः ॥३०४॥ सौवीरो जयसेनश्च सूरसेनोऽथ सोमकः । सम्भूयाऽयोधयन् पार्थमपास्तक्षत्रियव्रताः ॥३०५॥ सहदेवः शकुनिना भीमो दुःशासनेन च । उलूकेन च नकुलः शल्येन च युधिष्ठिरः ॥३०६।। दुर्मर्षणादिभिः षड्भिरौपदेयाः ससत्यकाः । शैषैर्नृपैः पुना रासपुत्रा युयुधिरेतराम् ॥३०७||युग्मम् ।। राज्ञां दुर्योधनादीनां युगपद्वर्षतां शरान् । शरैः किरीटी चिच्छेद नलिनीनाललीलया ॥३०८॥ अवधीत् सारथिं रथ्यानभाङ्क्षीच्च रथं शरैः । दुर्योधनस्य गाण्डीवी वर्म चाऽपातयद् भुवि ॥३०९॥ अङ्गशेषो धार्तर्राष्ट्रो विलक्षः पत्तिमात्रवत् । वेगाद् ययौ शकुनिवदुत्पत्य शकुने रथम् ॥३१०॥ दशाऽपि काशिप्रमुखानिषुवृष्ट्या धनञ्जयः। उपदुद्राव करकवृष्ट्याऽम्बुद इव द्विपान् ॥३११।। चकर्त शल्यो बाणेन युधिष्ठिररथध्वजम् । युधिष्ठिरोऽपि शल्यस्य सशरं चापमच्छिदत् ॥३१२॥ शल्योऽन्यद् धनुरारोप्य कङ्कपत्रैर्युधिष्ठिरम् । तिरयामास मेघर्तुमेधैरिव दिवाकरम् ॥३१३।। ततो मुमोच कौन्तैयः शक्तिं शल्याय दुःसहाम् । अकालविद्युतमिव विश्वप्रक्षोभकारिणीम् ॥३१४॥ परबाणैरस्खलिता वेगाद् गोधामिवाऽशनिः । निपत्य साऽवधीच्छल्यं नेशुश्च बहवो नृपाः ॥३१५।। वृकोदरोऽपि सङ्घद्धो दुर्योधनसहोदरम् । दुरोदरच्छद्मजयं स्मारयन् लीलयाऽवधीत् ॥३१६।। मायायुद्धैरस्त्रयुद्धैर्गान्धारेणाऽतियोधितः । चिक्षेप सहदेवोऽपि जीवितान्तकरं शरम् ॥३१७।। शकुनौ तमसम्प्राप्तमेव बाणं सुयोधनः । क्षत्राचारं विमुच्यैव चिच्छेद निशितेषुणा ॥३१८।। माद्रेयस्तमवाचोच्चैदर्योधन रणेऽपि ते । छलं द्यत इव व्यक्तमशक्तानां ह्यदो बलम ॥३१९।। साधु वा युगपत्प्राप्तौ मायिनौ भूरिमायवत् । सममेव हनिष्यामि युवयोविरहोऽस्तु मा ।।३२०॥ इत्युक्त्वा पत्रिभिस्तीक्ष्णैः सहदेवः सुयोधनम् । तिरोदधे शरत्काल इव कीरैर्वनस्थलीम् ॥३२१॥ दुर्योधनोऽपि मानेयमुपदुद्राव पत्रिभिः । चिच्छेद च धनुर्दण्डं मूलं रणमहातरोः ॥३२२।। दुर्योधनो मुमोचोच्चैरमोघं मन्त्रसत्कृतम् । सहदेवविनाशाय कीनाशमिव सायकम् ॥३२३।। गारुडेनेषुणेषु तमन्तराऽपि धनञ्जयः । निवारयामास समं सुयोधनजयाशया ॥३२४॥ धनुः शकुनिरप्युच्चैरास्फाल्य शरवृष्टिभिः । माद्रेयमद्रिमम्भोद इव विष्वगुदानशे ॥३२५।। शकुनेः सहदेवोऽपि रथं रथ्यान् ससारथीन् । ममाथ तच्छिरश्चाऽथ चकर्त फलवत् तरोः ॥३२६।। उलूकं नकुलोऽप्यस्त्रैरुरिव दिवाकरः । द्रुतं विद्रावयामास विरथीकृत्य हेलया ॥३२७॥ दुर्मर्षणरथं सोऽगात् ते च दुर्मर्षणादयः । विद्राविताः षडपि हि द्रौपदेयैः ससैनिकैः ॥३२८॥ दुर्योधनं शिश्रियुस्ते सोऽपि दुर्योधनो नृपैः । सम्भूय काशिप्रमुखैर्धनञ्जयमयोधयत् ॥३२९।। १. शत्रुनृपाः । २. बलवन्तः । ३. गलद्गजिघना खं०२, हंसविशेषान् "धार्तराष्ट्राः सितेतरैः" (अभि० चि० कां० ४ श्लो. १३२६) । ४. देवैः । ५. कपोतरोमराजश्च ता० सं० ला० पु० आ० ला२० छा० । ६. द्रौपदीपुत्राः । ७. ससैन्यका खं०१, ससैनिका: मु० । ८. अर्जुनः । ९. अर्जुनः । १०. कवचम् । ११. दुर्योधनः । १२. पक्षिवत् । १३. अर्जुनः । १४. बाणैः। १५. युधिष्ठिरः । १६. वज्रम् । १७. भीमः । १८. दुरोदरे-छूते एव छद्मना जयः तम् । १९. शकुनिना । २०. सहदेवः । २१. युवाम् । २२. शृगालवत्, भूरिमायुवत् खं०२, सू० भूरिमायिवत् पा० की० मु० । २३. यममिव । २४. गरुडे० मु० र० । २५. व्याप । २६. ममन्थ मु० । २७. ०रभैरिव खं०२, किरणैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org