________________
११२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व रामपुत्रैर्वृतः पार्थः सुरैरिव पुरन्दरः । 'दारयामास विशिखैश्चित्रैः 'परवरूथिनीम् ॥३३०॥ प्राणान् दुर्योधनस्येव पृथग्भूतान् जयद्रथम् । पार्थोऽवधीच्छरैरन्धीकुर्वन् सर्वानपि द्विषः ॥३३१।। कर्णोऽथाऽऽकर्णमाकृष्टकौलपृष्ठोऽधरं दशन् । वीप्रष्ठोऽभ्यधाविष्ट हन्तुकामः किरीटिनम् ॥३३२॥ चिरं चिक्रीडतर्वीरावक्षैरिव शिलीमुखैः । कर्णा-ऽर्जनौ वीक्ष्यमाणो देवैरपि कतहलात ॥३३३॥ अनेकशो भग्नरथः क्षीणाऽन्यास्त्रोऽसिमात्रभृत् । कर्णः किरीटिना जघ्ने कथञ्चिद् वीरकुञ्जरः ॥३३४।। सिंहनादं व्यधाद् भीमः शङ्ख दध्मौ च फाल्गुनः । जगर्जुः पार्थसैन्याश्च सर्वेऽपि जितकासिनः ॥३३५।। दुर्योधनोऽथ क्रोधान्धो महाँसिन्धुरसेनया । भीमसेनं हन्तुमना मानी द्रुतमधावत ॥३३६।। रथं रथेनाऽश्वमश्वेनेभं चेभेन मारुतिः । आस्फाल्याऽऽस्फाल्य नि:शेषीचक्रे दौर्योधनं बलम् ॥३३७।। तैरेवं युध्यमानस्य भुञ्जानस्येव मोदकैः । दोष्मतो भीमसेनस्य न हि श्रद्धाऽप्यपूर्यत ॥३३८।। स्वयं दुर्योधनो वीरो निजानाश्वासयन् द्रुतम् । डुढौके भीमसेनाय कुञ्जरायेव कुञ्जरः ॥३३९।। पर्जन्याविव गर्जन्तौ कुद्धौ केसरिणाविव । युयुधाते उभौ वीरौ विविधैरायुधैश्चिरम् ॥३४०॥ द्यूतवैरं स्मरन् भीम उद्यम्य महती गदाम् । दुर्योधनं निष्पिपेष सरथ्य-रथ-सारथिम् ॥३४१॥ दुर्योधने विनिहते निर्नाथास्तस्य सैनिकाः । हिरण्यनाभं शरणं सेनान्यं प्रतिपेदिरे ॥३४२॥ अनाधृष्टिं च सेनान्यं वाम-दक्षिणापक्षगाः । पाण्डवा यदवश्चाऽपि सर्वेऽपि परिवविरे ॥३४३॥ पोताग्रमिव निर्याम: सेनामुखमधिश्रितः । क्रुद्धो हिरण्यनाभोऽथ दधावे विब्रुवन् यदून् ॥३४४॥ अभिचन्द्रस्तमित्यूचे विटवद् विब्रवीषि किम् ? । क्षत्रिया हि न वाक्शूराः किन्तु शूराः पराक्रमात् ॥३४५॥ हिरण्योऽथाऽभिचन्द्राय चिक्षेप विशिखान् शितान् । तांश्चिच्छेदाऽन्तरा पार्थो मेघधारा इवाऽनिलः ॥३४६।। स चिक्षेपाऽर्जुनायाऽपि दुर्वारां शरधोरणीम् । तमापत्याऽन्तरा भीमो गदयाऽपातयद् रथात् ॥३४७॥ स हीण: पुनरारुह्य रथं दष्टाधरः क्रुधौं । यदुसैन्ये समग्रेऽपि ववर्ष विशिखान् शितान् ॥३४८।। न स सादी निषादी वा रथी पत्तिश्च यः शरैः । न तेन प्रहतस्तत्र यदुसैन्ये महत्यपि ॥३४९।। जयसेनोऽथ सङ्क्रुद्धः समुद्रविजयात्मजः । योद्धं हिरण्यनाभेनाऽढौकिष्टाऽऽकृष्टकार्मुकः ॥३५०॥ जामेय ! यमवक्त्रं किमायासीरिति विब्रुवन् । हिरण्यनाभो न्यवधीज्जयसेनस्य सारथिम् ॥३५१।। जयसेनोऽपि तस्याऽऽशु कवचं कार्मुकं ध्वजम् । चकर्त सारथिमथ निनाय यमवेश्मनि ॥३५२।। क्रुद्धो हिरण्यनाभोऽपि मर्माविद्भिः शिलीमुखैः । प्रहृत्य दशभिस्तीक्ष्णैर्जयसेनममारयत् ॥३५३॥ महीजयो जयसेनभ्रातोत्तीर्य रथादथ । खड़ग-खेटकमद्वीरो हिरण्यं प्रत्यधावत ।।३५४|| दूरादपि क्षुरप्रेण हिरण्यस्तच्छिरोऽहरत् । भ्रातृद्वयवधक्रुद्धोऽनाधृष्टिस्तमयोधयत् ॥३५५॥ अन्येऽपि हि जरासन्धनपा भीमा-ऽर्जुनादिभिः । यदुभिश्च समं द्वन्द्वेनाऽयुध्यन्त पृथक् पृथक् ।।३५६।। ज्योतिष्काणामिव पतिः प्राग्ज्योतिषमहीपतिः । भगदत्तो महानेमिमभ्यधावद् गजस्थितः ॥३५७।। सोऽवोचन्नाऽस्मि ते भ्रातृोलो रुक्मी न वाऽश्मकः । किन्त्वहं नारकिर्वैरिकृतान्तस्तदपेहि भोः ! ॥३५८।। इत्युक्त्वा प्रेरयामास स जवेन मतङ्गजम् । महानेमिरथं सूतोऽभ्रमयन्मण्डलेन च ॥३५९।। तद्गजं तलपादेषु महानेमिः शरैरहन् । गजः सभगदत्तोऽपि जर्जरांहिः पपात च ॥३६०।। नाऽसि रुक्मी हसित्वेति धनुष्कोट्या च ते स्पृशन् । वीरोऽमुञ्चन्महानेमिः प्रकृत्या करुणापरः ॥३६१।।
भूरिश्रवाः सात्यकिश्च युयुधाते इतश्च तौ । जरासन्ध-वासुदेवजयश्रीकाक्षिणावुभौ ॥३६२।। १. नाशयामास । २. शत्रुसेनाम्, कुरुवरु० खं० २ । ३. कालपृष्ठं नाम धनुः । ४. वीराग्रेसरः । ५. पाशैः । ६. बाणैः । ७. जिताहवाः "जिताहवो जितकाशी" (अभिचि, कां. ३ श्लो. ८०६) । ८. महागजसेनया । ९. भीमसेनः । १०. द्यूते वैरं खं० १-२, द्यूतं वैरं ला० । ११. सुयोधनम् मु० विना । १२. निष्पिपेषमरथ्य० ख०२ । १३. ०धृष्णि खं० २ । १४. नावग्रम् । १५. निर्यामकः । १६. विद्रुवन् खं० २, विद्रवन् ला० । १७. कम् खं०१, ला० सू० । १८. तीक्ष्णान् । १९. कुधी: सं० । २०. हे भगिनीपुत्र ! । २१. सूर्यः । २२. ०शालो खं० १-२-३ । २३. सारथिः । २४. धनुरग्रेण । २५. भूरिश्रवो युयुधानौ २० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org