________________
११० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व चित्राण्युत्पेतुरस्त्राणि संम्फेटे व्यूहयोर्द्वयोः । युगान्तोद्भ्रान्तयोः पूर्वापराब्ध्योरिव वीचयः ।।२६६।। द्वयोरपि हि सेनान्योरुभौ व्यूही परस्परम् । प्रहेलिकावन्नितरां दुर्भेदत्वं प्रेजग्मतुः ॥२६७॥ । चिरं युद्धवा जरासन्धसैनिकैः स्वामिभसितैः । द्रढीयांसोऽप्यभज्यन्त ता_व्यूहाग्रसैनिकाः ॥२६८।। आत्मेव तायव्यूहस्य स्वयं ताप॑ध्वजस्ततः । सैनिकांस्तान् स्थिरीचक्रे पताकं[कां] करमुत्क्षिपन् ।।२६९।। पक्षाविव महानेमि-पार्थो दक्षिण-वामगौ । चञ्चूरिवाऽग्रव्यूहस्याऽनाधृष्टिश्चुकुपुस्त्रयः ॥२७०।। दध्मौ शङ्ख सिंहनादं महानेमिर्महाभुजः । बलाहकमनाधृष्टिदेवदत्तं च फाल्गुनः ॥२७१।। यदवोऽताडयंस्तूर्यकोटीस्तन्निनदैरथ । अनुजग्मे शङ्खनादः शङ्खकैः शङ्खराजवत् ॥२७२।। शङ्कत्रयनिनादेन तूर्यनादेन तेन च । भटाः परबलेऽक्षुभ्यन्नका इव महोदधौ ॥२७३।। नेम्यनाधृष्टि-पार्थास्ते सेनान्यः शरवर्षिणः । चक्रमुर्विक्रमपरा: कल्पान्त इव सागराः ॥२७४।। नेमिसन्धिषु राजानः शकटव्यूहसंस्थिताः । परे विदुद्रुवुस्तेषां दोर्वीर्यमसहिष्णवः ॥२७५॥ चक्रव्यूहः स चाऽभञ्जि त्रिषु स्थानेषु तैस्त्रिभिः । वन्यद्विपैरिव परिणतैर्गिरिनदीतटम् ।।२७६।। स्वयं विहितमार्गास्ते प्रवाहाः सरितामिव । चक्रव्यूह प्रविविशुस्तँदन्वन्येऽपि सैनिकाः ॥२७७।। दुर्योधनो रौधिरिश्च रुक्मी चेति नृपास्त्रयः । सैन्यान् संस्थापयन्तस्तानुत्थितास्ते युयुत्सवः ॥२७८॥ दुर्योधनोऽरुधत् पार्थमनाधृष्टिं तु रौधिरिः । रुक्मी पुनर्महानेमिं महारथनृपैर्वृतः ॥२७९॥ द्वन्द्वयुद्धमभूत् तेषां षण्णामपि परस्परम् । महारथानां चाऽन्येषां तद्गृह्याणां सहस्रशः ।।२८०।। वीरंमन्यं विब्रुवाणं रुक्मिणं तत्र दुर्मदम् । निरस्त्रं विरथं चके महानेमिरमर्षणः ।।२८१।। रक्षार्थं रुक्मिणस्तत्र वध्यकोटिमुपेयुषः । निपेतुरन्तरा शत्रुन्तपाद्याः सप्त पार्थिवाः ।।२८२॥ युगपद्वर्षतां तेषां सप्तानामपि सायकान् । 'चिच्छेद बाणैः शैवेयो धनूंषि च मृणालवत् ॥२८३।। शत्रुन्तपश्चिरं युवा शक्तिं चिक्षेप विद्विषे । जाज्वल्यमानां तां प्रेक्ष्य चुक्षुभुर्यदवोऽखिलाः ॥२८४।। तस्याः शक्तेर्मुखोद्भूता विविधायुधधारिणः । किङ्कराः क्रूरकर्माणोऽन्तरे पेतुः सहस्रशः ॥२८५॥ अथोवाचाऽरिष्टनेमिं मातलिस्तपसा ह्यमूम् । बलीन्द्रात् प्राप राजाऽयं धरणादिव रावणः ॥२८६।। वज्रेण भेद्या तर्दियमित्युक्त्वा नेमिशासनात् । महानेमिशरे वज्रं स साक्रमयद् द्रुतम् ॥२८७॥ तं वज्रेषु विमुच्याऽऽशु तां शक्ति भुव्यपातयत् । तं नृपं विरथं व्यस्त्रं महानेमिश्चकार चें ॥२८८।। षण्णां नृपाणामन्येषां चापान् सामुंद्रिजोऽच्छिदत । तदा रथान्तरारूढो रुक्मी भूयोऽप्यढौकत ॥२८९।। शत्रुन्तपाद्या रुक्मी च सम्भूयाऽष्टाऽपि ते नृपाः । शैवेयेने युयुधिरे धुरि मानवतां स्थिताः ॥२९०॥ यद्यद्धन्वाऽऽददे रुक्मी कुमारस्तत्तदच्छिदत् । धनूंषि विंशतिच्छिन्नान्येवं तस्य निरन्तरम् ॥२९१॥ गदां चिक्षेप कौबेरी स महानेमये ततः । आग्नेयेनेषुणा तां च भस्मीचक्रे शिवात्मजः ॥२९२।। शरलक्षाणि वर्षन्तं रुक्मी वैरोचनं शरम् । शैवेयाय प्रचिक्षेप पराक्षेपासहो युधि ।।२९३।। तं माहेन्द्रेण बाणेन महानेमिर्त्यवारयत् । रुक्मिणं ताडयामास भाले चाऽन्येन पत्रिणा ॥२९४।। घातेन विधुरं तेन वेणुदारी जहार तम् । दुद्रुवुः सप्त भूपालास्ते महानेमिनो द्रुतम् ।।२९५।। द्रुमं समुद्रविजयः स्तिमितो भद्रकं नृपम् । वसुसेनमथाऽक्षोभ्योऽजैषीदक्षोभ्यविक्रमः ॥२९६।।
अमित्रं पुरिमित्राख्यं सागरश्चाऽवधीधुधि । धृष्टद्युम्नमभाङ्क्षीच्च हिमवान् हिमवत्स्थिरः ॥२९७।। १. सम्मिलने । २. निजग्मतुः मु० । ३. स्वामिभक्तित: खं०२ विना ॥ ४. अर्जुनः । ५. चक्रधारासु । ६. परिविदुद्रुवस्तेषाम् मु० र० । ७. तिर्यग्दन्तप्रहारास्तु गजाः परिणताः तैः "तिर्यग्घाती परिणतो गजः" (अभि चिं. कां. ४ श्लो १२२१)। ८. तेषां पश्चात्तदनु । ९. ०यन्तः स्वानुत्थितास्ते ता० पु० ला० की० । १०. नृपैर्वृताः मु० । ११. चिक्षेप मु० । १२. मुखे भूता खं० २ । १३. अथोचे मातलिर्नेमिं महता तपसा खं०१, सू० । १४. शक्तिः । १५. वज्रशरानक्राम० खं०१, सू० । १६. समक्रम० खं० २। १७. स: खं० १, ला०सू०ला०पु०को०छा० । १८. समुद्रजो० खं० १, सू० विना, महानेमिः । १९. महानेमिना । २०, २१. महानेमिः । २२. महानेमये । २३. बाणेन । २४. द्रुमनामानं नृपम् । २५. शत्रुम् । २६. हिमाचलवत् स्थिरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org