________________
१०८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तथाप्यवसरं ज्ञात्वा त्वद्भक्त्या वयमागताः । समादिश स्वसामन्तवर्गे गणय नः प्रभो! ॥२०१।। एवमस्त्विति राज्ञोक्ते ते भूयोऽप्येवमूचिरे । जरासन्धस्तृणमसौ केवलस्याऽपि शाणिः ॥२०२।। वैताढ्याद्रौ जरासन्धगृह्या ये सन्ति खेचराः । इहाऽऽयान्ति न यावत् ते तान् प्रति तावदादिश ॥२०३। सेनानीश्चाऽयमस्मासु वसुदेवोऽस्तु तेऽनुजः । प्रद्युम्न-शाम्बसहित: सत्येवं ते जिताः खलु ॥२०४।। समुद्रविजयः कृष्णानुज्ञयाऽऽनकदुन्दुभिम् । प्रेषीत् प्रद्युम्न-शाम्बौ च पौत्रौ तैः खेचरैः समम् ॥२०५।। तदा च वसुदेवाय प्रददेऽरिष्टनेमिना । जन्मस्नात्रे सुरैर्दोष्णि बद्धौषध्यस्त्रवारणी ॥२०६॥ पाइतश्च मगधाधीशं सहैत्याऽपरमन्त्रिभिः । उवाच हंसको मन्त्री मन्त्रपूर्वमिदं वचः ॥२०७॥
अमन्त्रितं पुराऽकार्षीत् कंसः सोऽप्याप तत्फलम् । मन्त्रशक्तिं विनोत्साह-प्रभशक्ती दरायती ॥२०८।। परः स्तोकः समो वाऽपि द्रष्टव्यः स्वाधिकः खलु । किं पुनर्योऽधिक: स्वस्माद् विष्णुरेष महाबलः ॥२०९॥ स्वयंवरे हि रोहिण्या दशा) दशमश्च सः । मुखान्धकारो भूपानां तदैक्षि स्वामिना स्वयम् ॥२१०।। तदाऽभूत् त्वद्वले नाऽलं वसुदेवाय कोऽपि हि । तज्ज्यायसा समुद्रेण त्वत्सैन्याः परिरक्षिताः ॥२१॥ यते कोटिजयाद् ज्ञातः स्वसुतायाश्च जीवनात् । घातितोऽपि वसदेवो न मृतः स्वप्रभावतः ॥२१२॥ जातौ चाऽस्माद् राम-कृष्णौ वृद्धि चैतावतीं गतौ । ययोः कृते वैश्रवणो द्वारकां निर्ममे पुरीम् ॥२१३।। एतावतिरथौ वीरौ शरणं यौ महारथाः। युधिष्ठिराद्या व्यसने शिश्रियुः पाण्डवा अपि ॥२१४।। प्रद्युम्न-शाम्बौ तनयौ राम-कृष्णाविवाऽपरौ । तौ च भीमा-ऽर्जुनौ भीमौ कृतान्तस्याऽपि दोर्बलात् ॥२१५।। किं चाऽन्यैाहीरैर्नेमिरेकोऽपि तत्र यत् । लीलया निजदोर्दण्डे छत्रीकर्तुमलं महीम् ॥२१६॥ सैन्ये त्वदीये धौरेयौ दमघोषज-रुक्मिणौ । रुक्मिणीहरणे दृष्टं बलं बलेरणे तयोः ॥२१७।। दुर्योधनश्च कौरव्यो गान्धारः शकुनिस्तथा । श्ववच्छलबलौ ह्येतौ न वीरगणना तयोः ॥२१८॥ अङ्गाधिराजः कर्णोऽपि सक्तुमुष्टिरिवाऽर्णवे । शङ्के कृष्णबले स्वामिन् ! कोटिर्सङ्ख्यमहारथे ॥२१९।। नेमिः कृष्णो बलश्चाऽतिरथाः परबले त्रयः । त्वमेक एव स्वबले बलयोर्महदन्तरम् ॥२२०॥ अच्युताद्याः सुरेन्द्रा यं नमस्कुर्वन्ति भक्तितः । तेन श्रीनेमिना सार्धं युद्धाय प्रोत्सहेत कः? ॥२२१॥ छलयित्वा सुरैरेव कृष्णगृह्येनिपातितः । कालस्तव सुतस्तेन विद्धि दैवं पराङ्मुखम् ।।२२२।। नेयं प्रमाणयन्तोऽमी यदवो बलिनोऽपि हि । प्रणश्य मथुरापुर्या द्वारका नगरीं ययुः ।।२२३।। बिलादिव त्वया सर्पः कष्ट आहत्य यष्टिना । आययौ सम्मुखीनस्ते कृष्णोऽसौ न पुनः स्वयम् ॥२२४।। इयत्यपि गते स्वामिन् ! न योद्धं युज्यतेऽमुना । अयुध्यमाने त्वय्येष स्वयं व्यावृत्त्य यास्यति ॥२२५॥ इति तद्वचसा क्रुद्धो जरासन्धोऽभ्यधादिति । यदुभिर्मायिभिर्नूनं भेदितोऽसि दुराशय ! ॥२२६॥ यत्तु भेषैयसि त्वं मां शत्रु शंसन् वृथैव तत् । किं बिभेति हरिः १ फेरुफेत्कारैः क्वाऽपि दुर्मते ! ॥२२७।। करोमि भस्मसादेषों गोपालानां बलं बलात् । धिक् ते मनोरथमिमं निवर्तनकरं रणात् ॥२२८॥ पाअथोचे डिम्भको मन्त्री तद्भावसदृशं वचः । प्राप्तकालो रणो ह्येष न त्याज्य: स्वामिनाऽधुना ॥२२९॥ सङ्ग्रामे सम्मुखीनानां वरं मृत्युर्यशस्करः । रणात् पराङ्मुखानां तु न जीवितमपि प्रभो ! ॥२३०।।
चक्ररत्नमिवाऽभेद्यं चक्रव्यूहं निजे बले । विरचय्य हनिष्यामः परानी कमनीकगम् ॥२३१।। प[अथ हृष्टो जरासन्धस्तमूचे साधु साध्विति । चक्रव्यूहाय चाऽऽदिक्षत् सेनानाथान् महौजसः ॥२३२॥
हंसको डिम्भकोऽमात्यौ चमूनाथास्तथाऽपरे । चक्रव्यूहं चक्रिरेऽथ शासनादर्धचक्रिणः ॥२३३।। १. मन्त्रशक्तिं विना उत्साहशक्ति - प्रभुशक्ती अशुभफले । २. शत्रुः । ३. सदृशः । ४. मुखकालिमा । ५. "एकादशसहस्राणि हस्तिनां यस्तु योधयेत् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते" इति ता० प्रतौ टि० । ६. दोर्दण्डछत्री मु० र० । ७. मुख्यौ । ८. शिशुपाल । ९. बलदेवेन सह रणे । १०. कोटिसङ्ख्यामहा० खं०२, सू० । ११. राजनीतिम् । १२. कृष्ण खं०२ । १३. भीषयसि खं०२। भीषयसे खं०१, सू० । १४. मामप्यरि शंसन् खं०१, सू० । १५. सिंहः । १६. शृगाल: तस्य फैत्कारैः शब्दैः । १७. देष खं०१, सू० विना० । १८. परसैन्यं स्वसेनायां प्रविष्टम् । ०नीकमनेकगम् ला० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org