SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ) श्रीत्रिषष्टिशत्नाकापुरुषचरितम् । आययावभिचन्द्रोऽपि षट् तस्य च सुता इमे । चन्द्र शशाङ्कश्चन्द्राभः शशी सोमोऽमृतप्रभः ॥ १६८ ॥ वसुदेवोऽपि तत्राऽऽगाद् देवदेव इवौजसा । तत्सूनवश्च बहवो दोष्मन्तो नामतस्त्वमी || १६९|| जात विजयसेनाया अक्रूरः क्रूर इत्यपि । ज्वलनाऽशनिवेगौ च श्यामायास्तनयावुभौ || १७०॥ पुत्रा गन्धर्वसेनार्यस्त्रयोऽग्नय इवाङ्गिनः । वायुवेगोऽमितगतिर्महेन्द्रगतिरेव च ॥ १७१ ॥ पद्मावत्या मन्त्रिपुत्र्यास्त्रयः पुत्रा महौजसः । सिद्धार्थो दारुकञ्चापि सुदारुरपि विक्रमी ॥ १७२॥ उभौ च नीलयशसः पुत्रौ सिंह - मतङ्गजौ । नारदो मरुदेवश्चेत्युभौ सोमश्रियः सुतौ ॥ १७३ || मित्रश्रियः सुमित्रश्च कपिलः कपिलाभवः । पद्मावत्या अपि सुतौ पद्मः कुमुद एव च ॥ १७४॥ अश्र्श्वसेनोऽश्वसेनाजः पुण्ड्रः पुण्ड्राभवः पुनः । रत्नवत्या रत्नगर्भो वज्रबाहुच बाहुभृत् ॥१७५॥ सोमश्रियः सोमपुत्र्याश्चन्द्रकान्त - शशिप्रभौ । वेगवान् वायुवेगश्च वेगवत्याः सुतावुभौ ॥ १७६॥ पुत्रा मदनवेगायास्त्रैलोक्यप्रथितौजसः । अनाधृष्टिर्दृढमुष्टिर्हिममुष्टिरिति त्रयः ॥ १७७॥ बन्धुमत्या बन्धुषेणः सिंहसेनश्च नन्दनौ । पुत्रः प्रियङ्गुसुन्दर्या युधि धुर्यः शिलायुधः ॥ १७८॥ तनयौ तु प्रभावत्याः ख्यातौ गन्धार - पिङ्गलौ । जरत्कुमार-वाह्लीकौ जरादेव्याश्च नन्दनौ ॥ १७९॥ अवन्तिदेव्यास्तनयौ सुमुखो दुर्मुखोऽपि च । रोहिण्यास्तु सुतो रामः सारणोऽथ विदूरथः ॥ १८० ॥ नौ बालचन्द्राया वज्रदृष्टा ऽमितप्रभौ । पुत्रा रामस्य बहवो मुख्यास्त्वैते ऽभिधानतः ॥ १८९ ॥ उल्मुको निषधश्चैव प्रकृतिद्युतिरेव च । चारुदत्तो ध्रुवः शत्रुदमनः पीठ एव च ॥ १८२ ॥ श्रीध्वजो नन्दनश्चैव श्रीमान् दशरथस्तथा । देवानन्दस्तथाऽऽनन्दो विद्रथुः शान्तनुस्तथा || १८३ ॥ पृथुः शतधनुश्चैव नरदेवो महाधनुः । दृढधन्वा तथा विष्णोरप्याययुरमी सुताः ॥ १८४ ॥ भानुश्च भामरश्चैव महाभान्वनुभानकौ । बृहद्ध्वजश्चाऽग्निशिखो धृष्णुः सञ्जय एव च ॥ १८५ ।। अकम्पनो महासेनो धीरो गम्भीर एव च । उदर्धिर्गोतमश्चैव वसुधर्मा प्रसेनजित् ॥१८६॥ सूर्यश्च चन्द्रवर्मा १२ च 'चारुकृष्णक इत्यपि । सुचारुर्देवदत्तश्च भरतः शङ्ख एव च ॥१८७|| प्रद्युम्न - शाम्बप्रमुखा अपरेऽपि महौजसः । सहस्त्रशो विष्णुपुत्रास्तत्राऽऽपेतुर्युयुत्सवः ॥१८८॥ उग्रसेनस्तत्सुताश्च धरो गुणधरोऽपि च । शक्तिको दुर्धरश्चन्द्रः सागरश्चाऽऽययुर्युधि ॥ १८९॥ पितृव्यो ज्येष्ठ नृपतेः सान्त्वनस्तत्सुतास्त्वमी । महासेनो विषमित्रो "नमित्रो दर्निमित्रकः ॥ १९०॥ महासेनस्याऽपि सुतः सुषेणो नाम पार्थिवः । विषमित्रस्य हृदिकः सिनिः सत्यक एव च ॥१९१॥ हृदिकात् कृतवर्माख्यो दृढधर्मा" च पार्थिवः । सत्यकाद् युयुधानाख्यस्तत्सुतो गन्ध एव च ॥१९२॥ दशार्हाणां सुताश्चाऽन्ये राम-विष्णवोश्च भूरिशः । पितृष्वसृ स्वसृसुता अप्याजग्मुर्महीभुजाः || १९३ ।। [[ततः क्रौष्टकिनाऽऽख्याते दिने दारुकसारथिम् । तार्क्ष्याङ्कं रथमारूढः सर्वैर्यदुभिरावृतः ॥ १९४ ॥ शुभैर्निमित्तैः शकुनैः संसूचितजयोत्सवः । प्रति पूर्वोत्तरामाशां प्रचचाल जनार्दनः ॥ १९५ ॥ युग्मम् ॥ पञ्चचत्वारिंशतं तु योजनानि निजात् पुरात् । गत्वा तस्थौ सिनेपल्यां ग्रामे सङ्ग्रामकोविदः || १९६।। ||अर्वाग् जरासन्धसैन्यांच्चतुर्भिर्योजनैः स्थिते । तत्र कृष्णबले केचिदागुर्विद्याधरोत्तमाः || १९७॥ समुद्रविजयं नत्वा तेऽवोचन्नृपते ! वयम् । गुणगृह्यास्त्वदीयस्य भ्रातुरानकदुन्दुभेः ॥ १९८॥ युग्मम् ॥ येषां कुलेऽरिष्टनेमिर्जगद्रक्षा-क्षयक्षमः । एतौ च राम - गोविन्दावद्वितीयपराक्रमौ ॥ १९९ ॥ प्रद्युम्न - शाम्बप्रमुखा नप्तारोऽमी च कोटिशः । तेषां वो युधि साहाय्यमन्येभ्यः कीदृशं ननु ? ||२००॥ १. दक्षिणाग्नि: गार्हपत्याग्निः आहवनीयाग्निः एते त्रयोऽग्नयः । २. पद्मसेनो० ला० । ३. ०धृष्णि० खं० २ । ४. जरा० वा० । ५. विदूखरः खं० २ । ६. मुख्यास्त्वित्यभि० खं०१-२, सू० । ७. उल्मूको मु० २० । ८. पीत सू० । ९. विप्रथुः मु० र० । विद्रथः खं०१, सू० । १०. विष्णुः ला० । ११. ० गौतिम० मु० २० । १२. चन्द्रधर्मा ता० सं० ला० । १३. चारुः कृष्णक खं०२, ला० सू० । १४. ० नृपतिः ला० । १५. सुमित्रो की० । निमित्रो पु० । हदिकः मु० । हृदको खं० २ । १६. सत्यमित्रकः मु० खं० २ । १७. सात्यक मु० । १८. दृढवर्मा खं० २ । १९. र्महीभुजः सू० । २०. सारथिः खं०२, ला० । २१. ईशानदिशम् । २२. सित० सू०, संनि० खं०२, सेन० मु० । Jain Education International १०७ For Private Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy