________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
राजगृहे ययुः ॥ १३५ ॥
व्यक्रीताऽन्यवस्तूनि न पुना रत्नकम्बलान् । विशेषलाभमिच्छन्तः वणिग्भिस्तत्र वास्तव्यैरग्रे भूत्वाऽथ निन्यिरे । मगंधाधीशदुहितुस्ते जीवयशसो गृहे ॥ १३६ ॥ अदर्शयंश्च ते जीवयशसो रत्नकम्बलान् । उष्णे शीतान् शीते चोष्णान् बहलै श्लक्ष्णरोमकान् ॥१३७।। मूल्यार्धे कम्बलानां तु कृते पूच्चक्रिरेऽथ ते । आयामो द्वारकां मुक्त्वा वयं किमधिलिप्सवः ॥ १३८॥ पप्रच्छ तान् जीवयशा: का नाम द्वारका पुरी । को नाम नृपतिस्तत्र वणिजस्तेऽप्यदोऽवदन् ॥१३९॥ दत्ते स्थाने समुद्रेण द्वारिका पूः सुरैः कृता । तत्र कृष्णो नृपः सूनुर्देवकी - वसुदेवयोः ॥१४०॥
॥ तच्च श्रुत्वा जीवयशा जगादैवं रुदत्यथ । जीवत्यद्याऽपि मद्भर्तुः संहर्ता शास्ति चाऽवनिम् ? ॥ १४१ ॥ तां च दृष्ट्वा जरासन्धोऽ ऽपृच्छद् रोदनकारणम् । साऽप्याख्यत् कृष्णवृत्तान्तमित्यूचे च कृताञ्जलिः ॥१४२॥ तात ! मां विसृजाऽद्यैव प्रवेक्ष्यामि हुताशनम् । स्वसन्धां पूरयिष्यामि न जीविष्याम्यतः परम् || १४३।। जरासन्धोऽभ्यधात् पुत्रि ! मा रोदीरेष नन्वहम् । रोदयिष्यामि कंसारेर्मातृ-स्वसृ-वधूजनम् ॥१४४॥ ||अयादवं भवत्वद्येत्युदित्वा मगधेश्वरः । प्रयाणायाऽऽदिशत् सेनां वार्यमाणोऽपि मन्त्रिभिः || १४५|| महौजसस्तमन्वयुः सहदेवादयः सुताः । चेदिराज: शिशुपालो धुरीणः स च दोष्मताम् ॥१४६॥ राजा हिरण्यनाभश्च महाबलपराक्रमः । दुर्योधनश्च कौरव्य आयोधनधुरन्धरः ||१४||
१०६
(अष्टमं पर्व
अन्येऽपि बहवो भूपाः सामन्ताश्च सहस्रशः । जरासन्धं समापेतुः प्रवाहा इव सागरम् ॥१४८॥ युग्मम् ।। पपात मुकुटो मूर्ध्ना हारस्तुत्रोट चोरस: । स्खलितश्चाऽञ्चलेनांऽह्रिस्तस्याऽग्रे चाऽभवत् क्षुतम् ॥१४९॥ पस्पन्दे नयनं वामं विण्मूत्रे तद्गजोऽकरोत् । प्रतिकूलः समीरोऽवाद् गृध्राश्च थ्रेमुरम्बरे ॥१५०|| आप्तैरिवाऽनिमित्तैश्चाऽशकुनैश्चैवमादिभिः । कथ्यमानाशुभोदर्कोऽप्यस्थान्न स मनागपि ॥१५९॥ रजोभिरिव सैन्योत्थैस्तुमुलैः पूरयन् दिशः । दिशां गज इवोद्भ्रान्तः कम्पयन्नवनीतलम् ॥१५२॥ जरासन्धः क्रूरसन्धोऽध्यारूढो गन्धसिन्धुरम् । प्रति प्राचेतसीमाशां प्रचचाल महाबलः ॥ १५३ ॥ युग्मम् ॥ समयान्तं जरासन्धं नारदः कलिकौतुकी । चराश्च गत्वा त्वरितं शशंसुः शार्ङ्गपाणये ॥ १५४॥ कृष्णैवमेव कृष्णोऽपि तेजसामेकमास्पदम् । प्रयाणाय समुत्तस्थे भम्भाताडनपूर्वकम् ॥१५५॥ तन्नादेनाऽमिलन् सर्वे यँदवो भूभुजोऽपि च । सुघोषाघण्टाघोषेण सौधर्मत्रिदशा इव ॥१५६॥ समुद्रविजयस्तेषु समुद्र इव दुर्धरः । तत्राऽऽगात् सर्वसन्नाही तस्यैते तनया अपि ॥ १५७ ॥ महानेमिः सत्यनेमिर्दृढनेमि सुनेमिनौ । अरिष्टनेमिर्भगवान् जयसेनो महीजयः ॥ १५८ ॥ तेज:सेनो "जयो मेघश्चित्रको गौतमोऽपि च । श्वफल्क: शिवनन्दश्च विश्वक्सेनो महारथाः ॥१५९॥ अक्षोभ्यो द्विषदक्षोभ्यः समुद्रविजयानुजः । आययौ युधि धौरेयास्तस्याऽष्टौ च सुता इमे ॥१६०|| उद्धवश्च धवश्चैव क्षुभितोऽथ महोदधिः । अम्भोनिधिर्जलनिधिर्वामदेवो दृढव्रतः ॥१६१॥ स्तिमितोऽपि हि तत्रऽऽगात् पञ्चैते तत्सुतोत्तमाः । ऊर्मिमान् वसुमान् वीरः पातालः स्थिर एव च ॥ १६२॥ सागरः षड् च तत्पुत्रा निष्कम्पः कम्पनस्तथा । लक्ष्मीवान् केशरी श्रीमान् युगान्तश्च समाययुः || १६३|| आययौ हिमवांस्तत्र तत्तनूजास्त्रयोऽप्यमी । विद्युत्प्रभस्तथा गन्धमादनो माल्यवानपि ॥१६४॥ अचलोऽचलपुत्राश्च सप्ताऽऽजग्मुर्महौजसः । महेन्द्रो मलयः सह्यो गिरिः शैलो नगो बलः || १६५ || धरणः पञ्च तत्पुत्राः कर्कोटक- धनञ्जयौ । विश्वरूपः श्वेतमुखो वासुकिश्च समाययुः ॥१६६॥ पूरणः पूरणपुत्राश्चत्वारश्च समाययुः । दूष्पूरो दुर्मुखश्चैव दुर्दशो दुर्धरस्तथा || १६७ ||
१. व्यक्रीणन्ता० मु० । २. जरासन्धपुत्र्याः । ३. उष्णशीतान् खं० २ । ४. बहुल० ला० । ५. अधिकं लब्धुमिच्छ्वः, किमवलिप्सवः पा० । ६. निजप्रतिज्ञाम् । ७. युद्धनिपुणः । ८. ०सन्धसमीपेऽयुः खं० २ । ९. समीरोऽभूद् पा०लार, आ०मु० । १०. स्वजनैरिव । ११. अशुभफलः । १२. वारुणीम् । १३. सीमायातं खं० १, ला० । समायातं खं० २, सू० । १४. किल कौ० मु०र० । १५. अग्निरिव । १६. यादवा मु० । १७. सत्यनेमी रथनेमिसुनेमिनी की० । १८. नयो खं०१-२, सू० १९. गोतमो० खं०१, ला० सू० । २० महारथः ला० सू० । २१. माहेन्द्रो सू० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org