________________
सप्तमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
निर्लज्जः कामविवशः स्वैरमत्र विचेष्टते । इति निर्वासितः शाम्बः स्वपुर्याः शार्ङ्गपाणिना ॥१००॥ प्रज्ञप्तिविद्यां प्रद्युम्नोऽप्यन्तः स्नेहाधिवासितः । शाम्बाय गच्छतेऽदत्त प्राग्जन्मन्यपि बन्धवे ॥ १०१ ॥ | प्रद्युम्नो भीरुकं नित्यमर्दयन् भामयौच्यत । नगर्याः किं न निर्यासि रे ! शाम्ब इव दुर्मते || १०२ ।। सोऽप्यूचे कुत्र गच्छामि स्मशान इति साऽवदत् । कदा मया समागम्यमित्युवाच स तां पुनः || १०३ || यदा हस्ते गृहीत्वाऽहं शाम्बमत्राऽऽनयाम्यरे ! । तदा त्वया समागम्यमित्यूचे साऽपि तं क्रुधा ॥ १०४॥ यदादिशति मे मातेत्युदित्वा रुक्मिणीसुतः । ययौ स्मशाने शाम्बोऽपि भ्रान्त्वा तत्र समाययौ ॥ १०५ ॥ उभौ श्मशान भूम्यां तौ दाघशुल्कं महत्तरम् । गृहीत्वा ददतुर्दग्धुं मृतकानि पुरीदाम् ॥ १०६ ॥ ||इतश्च भीरवे भामैकोनकन्याशतं शुभम् । अमेलयत् प्रयत्नाच्च कन्यामेकामियेष च ॥ १०७॥ प्रज्ञप्त्या तत्तु विज्ञाय प्रद्युम्नो व्यकरोच्चमूम् । जितशत्रुर्नाम नृपः स्वयं जज्ञे च तत्क्षणात् ॥१०८॥ शाम्बश्च जज्ञे तत्कन्या देवकन्यासहोदरा । भीरुधात्र्या च ददृशे क्रीडन्ती सा सखीवृता ॥ १०९ ॥ तां ज्ञात्वा सत्यभामायै सा सद्योऽपि व्यजिज्ञपत् । भामाऽयाचिष्ट भीर्वर्थे जितशत्रुं नरेण ताम् ॥११०॥ जितशत्रुर्बभाषे तं तदा कन्यां ददाम्यहम् । भामा हस्ते गृहीत्वाऽमूं द्वारकां प्रविशेद् यदि ॥ १११ ॥ अन्यच्चोद्वाहकालेऽस्याः करं भीरुकरोपरि । चेत् कारयति भामा तद्भीरवेऽस्तु ममाऽऽत्मजा ॥ ११२ ॥ इत्युक्तः स नरो गत्वा भामायै तद्व्यजिज्ञपत् । आमेत्युक्त्वा ययौ भामाऽर्थिनी तच्छिबिरे द्रुतम् ॥११३॥ शाम्बो बभाषे प्रज्ञप्तिं भामा तस्या जनोऽपि च । कन्यारूपं पश्यतु मां शाम्बमेवाऽपरो जनः ॥ ११४॥ तथा कृते च प्रज्ञप्त्या भामया दक्षिणे करे । गृहीतः शाम्बकुमारः प्राविशद् द्वारकां पुरीम् ॥ ११५ ॥ आनिन्ये भामया शाम्बो भीरोः पाणिग्रहोत्सवे । अहो ! चित्रमहो ! चित्रमित्यूचुर्नागरस्त्रियः ॥११६॥ भामौकसि गतः शाम्बो भीरोर्वामेतरं करम् । स्वहस्तेनोपरिस्थेनाऽऽदाय वामेन वामधीः ॥११७॥ एकोनकन्याशतस्य पाणीन् दक्षिणपाणिना । धृत्वा च युगपद् वह्निं परितो विधिनाऽभ्रमत् ॥११८॥ युग्मम् ॥ पश्यन्त्यः कन्यकाः शाम्बमूचुः पुण्योदयादसि । विधिना योजितो नस्त्वं पती रर्तिपतेः समः ॥ ११९ ॥ वृत्तोद्वाहः समं ताभिः शाम्बो वासगृहे ययौ । भीरुः शाम्बेन तत्राऽऽयान् भ्रुकुट्या भीषितो ययौ ॥१२०॥ गत्वा स आख्यद् भामायै साऽप्यश्रद्दधती स्वयम् । तत्राऽऽगत्यैक्षिष्ट शाम्बं शाम्बोऽपि प्रणनाम ताम् ॥१२१॥ सकोपा साऽप्युवाचैवं केनाऽऽनीतोऽसि धृष्ट रे ! । सोऽप्यूचेऽहं त्वयाऽऽनीतः कन्योद्वाहं च कारितः ॥ १२२ ॥ प्रमाणमत्र निःशेषो मध्यस्थो द्वारिकाजनः । इत्युक्ता साऽपि पप्रच्छ तत्राऽऽयातान् पुरीजनान् ॥१२३॥ तेऽप्यूचे देवि ! मा कुप्य त्वया शाम्बः प्रवेशितः । अस्माकं पश्यतामेव कन्योद्वाहं च कारितः ॥ १२४ ॥ मायी मायसुतो मायिकनिष्ठो मायिनीभवः । कन्यारूपोऽच्छलयन्मामित्युक्त्वा सा ययौ रुषा ॥ १२५ ॥ प्रत्यक्षं सर्वलोकानां कृष्णस्ताः कन्यकाः स्वयम् । ददौ शाम्बाय चक्रे च जाम्बवत्युत्सवं परम् ॥ १२६ ॥ वसुदेवं नमस्कर्तुं गतः शाम्बोऽब्रवीदिति । भ्रान्त्वा क्ष्मां तात ! युष्माभिश्चिरेणोढाः खलु स्त्रियः ॥१२७॥ अभ्रान्त्वाऽपि मयैकत्र युगपत्कन्यकाशतम् । परिणीतमिति व्यक्तं युष्माकं मम चान्तरम् ॥१२८॥ प्रत्यूचे वसुदेवोऽपि कूपमण्डूककल्प रे! । पित्र निःसारितोऽप्यषि धिग् धिक् त्वां मानवर्जितम् ॥१२९ ॥ भ्रात्राऽवमानितोऽहं तु वीरवृत्त्या निरीय रे! । सर्वत्राऽस्खलितोऽभ्राम्यं पर्यणैषं च कन्यकाः ॥१३०॥ यथावसरमिलितैर्बन्धुभिश्चैभिरादरात् । 'अर्थितः स्वगृहाण्यागां न पुनस्त्वमिव स्वयम् ॥१३१॥ शाम्बः पूज्यतिरस्कारमथ ज्ञात्वा स्वयंकृतम् । कृताञ्जलिः प्रणम्योच्चैरित्युवाच पितामहम् ॥१३२॥ उक्तं मयैतदज्ञानाद् बालदुर्ललितं ह्यदः । क्षन्तव्यं तातपादैस्तत्तातो लोकोत्तरो गुणैः ॥१३३॥ |इतश्च जेवनद्वीपात् तत्रेयुर्जलवर्त्मना । महाभाण्डान्युपादाय वणिजः केचिदीश्वराः ॥१३४॥
१०५
१. ताडयन् । २. दाहशुल्कम् मु० र० । ३. नगरीवासिनाम् । ४. दक्षिणम् । ५. वामा सुन्दरा धीः बुद्धिः यस्य सः । ६. कामदेवस्य । ७. कूपदर्दुरसदृशः । ८. कृष्णेन । ९. ० प्येष मु० २० । १०. भ्रात्राऽपमा० खं० १, ला० सू०, समुद्रविजयेन । ११. प्रार्थित: । १२. यवन० मु० र० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org