________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
पितृभ्यां परिवारेण पृच्छ्यमानाऽपि मा ब्रवीः । त्वद्देहोपद्रवरक्षा विहिताऽस्ति मयाऽनघे ! ॥६६॥ इत्युक्त्वा काष्णिरगमद् वैदर्भ्यप्यतिजागरात् । रतश्रमाच्च सुष्वाप जजागार प्रगेऽपि न ||६७ || तत्राऽऽययौ च तद्धात्री तद् दृष्ट्वा कङ्कणादिकम् । विवाहचिह्नं साशङ्का तामुत्थाप्याऽन्वयुक्त च ॥६८॥ नाऽऽख्यच्च किञ्चिद् वैदर्भी धात्री च स्वागसश्छिदे । शशंस रुक्मिणे गत्वा राज्यै च भयविह्वला ॥६९॥ ताभ्यामपि समागत्य साऽनुयुक्ता शशंस न । व्यक्तं विवाहसम्भोगचिह्नं ददृशतुश्च तौ ॥७०॥ दधौ मनसि रुक्म्येवं कन्येयं कुलपांसना । अदत्ताऽपि हि केनापि सह रेमे यदृच्छयां ॥७१॥ चाण्डालाभ्यां वरं ताभ्यां दत्ताऽऽसीत् कन्यकाधमा । ध्यात्वेत्याजूहवद् रोषात् तौ चाण्डालौ स्ववेत्रिणा ॥ ७२ ॥ कन्यका गृह्यतामेषा यातं तत्र न यत्र वाम् । पश्यामीति वदन् रोषाद् वैदर्भी प्रददौ तयोः ॥ ७३|| वैदर्भीमूचतुस्तौ च रार्जपुत्र्यावयोर्गृहे । जलौकश्चर्मरज्ज्वादिविक्रयं किं करिष्यसि ? ॥७४|| साऽप्यूचे परमार्थज्ञा यद्दैवं कारयिष्यति । तदवश्यं करिष्यामि दुर्लङ्घ्यं दैवशासनम् ॥७५॥ ततस्तौ तामुपादाय वीरौ जग्मतुरन्यतः । पश्चात्तापाद् रुक्मिराजोऽप्यरोदीदिति पर्षदि ॥७६॥ हा वत्से ! क्वाऽसि वैदर्भि ! सन्दर्भों नोचितों ह्यभूत् । मया गौरिव चण्डालद्वारे क्षिप्ताऽसि नन्दने ! ॥७७॥ सत्यं हि कोपश्चाण्डालश्चाण्डालाभ्यां स तन्मया । अदापयत् सुतां सर्वो ह्यात्मवर्गहितैषकः ॥७८॥ रुक्मिण्या याच्यमानाऽपि प्रद्युम्नायाऽऽत्मसूनवे । क्रोधान्धेन न दत्ताऽसि धिग् मया मन्दमेधसा ॥७९॥ रुदन्नेवं च शुश्राव गम्भीरं तूर्यनिस्वनम् । कुतोऽयमिति पृष्टाश्च ज्ञात्वाऽऽचख्युर्नियोगिनः ॥ ८० ॥ प्रद्युम्न- शाम्बौ वैदर्भ्या 'संहितौ नगराद् बहिः । विमानतुल्ये प्रासादे तिष्ठतो नाकिनाविव ॥८१॥ चारणैः स्तूयमानौ तौ वर्यतूर्यमनोहरम् । सङ्गीतकं कारयतो नादोऽयं तद्भवः प्रभो ! ||८२|| ततः प्रमुदितो रुक्मी तावानिन्ये निजे गृहे । स्वयं जामेय - जामातृस्नेहादानर्च चाऽधिकम् ॥८३॥ ततो रुक्मिणमापृच्छ्य वैदर्भी - शाम्बसंयुतः । प्रद्युम्नोऽगाद् द्वारवतीं रुक्मिणीनयनोत्सवम् (वः ? ) ॥८४॥ नवयौवनया रुक्मिपुत्र्या रत्येव नव्यया । रममाणः सुखं तस्थौ प्रद्युम्नो नवयौवनः ॥८५॥ शाम्बो हेमाङ्गदनृपपुत्र्या वेश्याप्रसूतया । सुहरिण्याख्यया रेमे रूपादैत्यप्सरः श्रिया ||८६|| जघान क्रीडयन्नित्यं शाम्बो भीरुं तथा धनम् । प्राज्यं द्यूते हारयित्वा "रोदयामास कौतुकी ॥८७॥ रुदन् गत्वा भीरुराख्यद् भामायै साऽपि विष्णवे । सोऽपि देव्यै जाम्बवत्ये तच्छाम्बस्य विचेष्टितम् ॥८८॥ जगाद जाम्बवत्येवमियत्कालं मया न हि । शाम्बदुर्विनयोऽश्रावि किमिदं विष्टरश्रवः ! ॥८९॥ ऊचे विष्णुः सुतं सिंही सौम्यं भद्रं च मन्यते । गजा एव हि जानन्ति तस्य क्रीडां शिशोरपि ॥९०॥ दर्शयाम्यद्य तच्चेष्टा इत्युक्त्वाऽऽभीररूपभृत् । चक्रे हरिस्तामाभीरीरूपां जाम्बवतीमपि ॥ ९१ ॥ विक्रीणानावुभौ तकं विशन्तौ द्वारकापुरीम् । दृष्टौ शाम्बकुमारेण सदा स्वैरविहारिणा ॥९२॥ शाम्बोऽवोचदथाऽऽभीरीमेहि क्रीणामि गोरसम् । इत्युक्ता साऽन्वगाच्छाम्बं स आभीरश्च तां पुनः ||१३|| एकं देवकुलं शाम्बः प्रविष्टस्तामथाऽऽह्वत । सोचे नाऽत्र प्रवेक्ष्यामि मूल्यमत्रैव देहि मे ॥ ९४|| अत्राऽवश्यं प्रवेष्टव्यमित्युदित्वा करेण ताम् । गृहीत्वा कष्टुमारेभे शाम्बो हस्ती लतामिव ॥९५॥ रे ! किं गृह्णासि मद्भार्यामित्याभीरः स तं द्रुतम् । जघानाऽऽविरभूतां च तौ तु जाम्बवती - हरी ॥ ९६ ॥ सम्प्रेक्ष्य पितरौ शाम्बः पिधायाऽऽस्यं पलायितः । अदर्शि सुतदुश्चेष्टेत्यूचे जाम्बवतीं हरिः ||९७|| प्रसह्याऽऽनीयमानः स द्वितीयेऽहनि शार्ङ्गिणा । कीलिकां घटयन्नागात् पृष्टश्चैवमवोचत ॥९८॥ वचनं ह्यस्तनं योऽद्य वदिष्यति तदानने । क्षेपणीया कीलिकेयमतोऽहं घटयाम्यमूम् ॥९९॥
१०४
(अष्टमं पर्व
१. तं दृष्ट्वा ला० । २ ० प्याऽन्वयुक्त मु०, अपृच्छत् । ३. निजापराधनाशाय । ४. कुलपांसुना मु० । कुलपांशुना मु० सं० छा० ला०] १. आ० पु० । ५. निजेच्छया मु० र० । ६. हे राजपुत्रि । ७. जलौक: जलो इति भाषायाम् । ८. दुर्ल २० । ९. तोऽप्यभूत ला० । १०. मन्दबुद्ध्या । ११. सेवकाः । १२. सह तौ खं० १ सू० । १३. द्वारवत्याम् पा० आ० मु० । १४. अप्सरसां श्रियमतिकान्तात्यप्सरः श्रीः तया । १५ दापयामास खं० २ विना । १६. हे गोविन्द ! |
For Private Personal Use Only
Jain Education International
www.jainelibrary.org