________________
सप्तमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
.
१०३
सिंहस्वप्नं च साऽऽचख्यौ व्याचख्यौ च जनार्दनः । प्रद्युम्नतुल्यस्तनयस्तव देवि ! भविष्यति ॥३२॥ पाइत्युक्त्वा प्रययौ विष्णुः समये जाम्बवत्यपि । शाम्बं नामाऽसूत सुतं सिंहीवाऽद्वैतविक्रमम् ॥३३।। दारुको जयसेनश्च सारथेमन्त्रिणः पुनः । सुबुद्धिरेते तनयाः समं शाम्बेन जज्ञिरे ॥३४।। अभूच्च सत्यभामायाः सूनुनाम्नाऽनुभानुकः । गर्भाधानानुसारात् तु भीरुरित्यपराभिधः ॥३५।। अन्यासामपि गोविन्दपत्नीनां जज्ञिरे सुताः । महौजसो महावीर्या भद्रेभकलभा इव ॥३६।। मन्त्रि-सारथिपुत्रैश्च समं शाम्बो व्यवर्धत । क्रमात् कलाकलापं च प्राज्ञो जग्राह लीलया ॥३७॥ गाअन्येचू रुक्मिणी पुत्री वैदर्भी नाम रुक्मिणः । प्रद्युम्नेनोद्वाहयितुं प्रैषीद् भोजकटे नरम् ॥३८॥ सोऽवोचद रुक्मिणं नत्वा देवी त्वां वक्ति रुक्मिणी । वैदर्भीयं निजसुता प्रद्युम्नाय प्रदीयताम् ॥३९।। उचितो मम विष्णोश्च दैवाद्योगः पुरा ह्यभूत् । योगः प्रद्युम्न-वैदर्योर्भवतु त्वत्कृतोऽधुना ॥४०॥ प्राग्वैरं संस्मरन् रुक्मीत्यूचे दास्ये निजां सुताम् । चण्डालेभ्यो वरमहं न तु विष्णोः कुलेऽपि हि ॥४१॥ दूतोऽपि गत्वा रुक्मिण्यास्तदाऽऽचख्यौ यथातथम् । भ्रात्राऽपमानिता साऽस्थात् म्लाना नक्तमिवाऽब्जिनी ॥४२।। किमेवं खिद्यसेऽम्बेति प्रद्युम्नेन तु सोदिता । शशंस रुक्मिवृत्तान्तं मनःशल्यनिबन्धनम् ॥४३।। प्रद्युम्नोऽप्यब्रवीन्मातर्मा ताम्य स हि मातुलः । न साहिस्तदुचितं ततस्तातोऽकरोत् तदा ॥४४॥ पतस्योचितं विधायैष तत्पुत्रीमुद्वहाम्यहम् । इत्युक्त्वा सह शाम्बेनोत्पत्य भोजकटे ययौ ॥४५॥ किन्नरस्वरचाण्डालरूपौ भूत्वा च तत्र तौ । गायन्तौ जहतुः सर्वपौराणां मृगवन्मनः ॥४६।। ज्ञात्वाऽऽहूय च तौ मायामातङ्गौ मधुरस्वरौ । अगापयद् रुक्मिनृपः स्वोत्सङ्गे तां सुतां दधत् ॥४७।। तयोर्गीतेन मुदितो रुक्मिराट् सपरिच्छदः । दत्त्वा द्रव्यमपृच्छत् तावत्राऽऽयातौ कुतो युवाम् ? ॥४८॥ तावप्याचख्यतुः स्वर्गादायातौ द्वारकां पुरीम् । विदधे स्वर्गिभिः सा हि कृते देवस्य शाङ्गिण: ॥४९।। मुदिता तौ च प्रपच्छ वैदर्भी तत्र किं युवाम् । जानीथः कृष्ण-रुक्मिण्योः प्रद्युम्नं नाम नन्दनम् ? ॥५०॥ उवाच शाम्ब: को नाम प्रद्युम्नं रूपमन्मथम् । पृथ्व्यलङ्कारतिलकं न जानाति महौजसम् ? ॥५१॥ ातच्छ्रुत्वोत्कण्ठिता जज्ञे वैदर्भी रागगर्भिता । तदा च स्तम्भमुन्मूल्य मत्तेभः कोऽप्यधावत ॥५२॥ उपद्रवन् पुरं सर्वमकाण्डकृतविड्वरः । नाऽशक्यत स केनाऽपि वशीकर्तुं निषादिना ॥५३।। वशीकरोति यः कश्चिदिमं तस्मै ददाम्यहम् । अभीप्सितमिति 'क्ष्मापः पटहं पर्यदापयत् ॥५४॥ पटहो न स केनाऽपि दधे ताभ्यां च धारितः । गीत्या प्रद्युम्न-शाम्बाभ्यां स्तम्भितश्च महागजः ॥५५।। द्वावप्यारुह्य तं नागं नीत्वाऽऽलाने बबन्धतुः । चित्रीयमाणौ पौराणां राज्ञाऽप्याह्वायितौ मुदा ॥५६॥ याचेथां रुचितं यद्वामित्युक्तौ रुक्मिणा च तौ । इमां प्रदेहि वैदर्भी नास्ति नौ धान्यैरन्धनी ॥५७॥ तच्छ्रुत्वा कुपितो रुक्मी तौ पुरान्निरवासयत् । प्रद्युम्नोऽप्यब्रवीच्छाम्बं दुःखं तिष्ठति रुक्मिणी ॥५८॥ पवैदाः परिणयने विलम्बस्तन्न युज्यते । इति तत्र ब्रुवाणेऽपि रजन्यजनि निर्मला ।।५९॥ ततः सुप्तेषु लोकेषु प्रद्युम्नो निजविद्यया । प्रासादभूम्या उपरि स्थितां रुक्मिसुतां ययौ ॥६०।। रुक्मिणीस्नेहलेखं स तस्याः कृतकमार्पयत् । वाचयित्वा साऽप्यवोचद् ब्रूहि किं ते ददाम्यहम् ? ॥६१॥ सोऽप्यूचे मह्यमात्मानमेव देहि सुलोचने ! । यदर्थे याचिताऽसि त्वं प्रद्युम्नः सोऽस्मि सुन्दरि! ॥६२॥ अहो ! सुघटितं दैवाज्जातं ननु विधेरिति । ब्रुवाणा रुक्मितनया तद्वचः प्रत्यपद्यत ॥६३।। कृत्वा विद्याबलादग्निं साक्षीकृत्य च कृष्णसूः । आर्मुक्तकङ्कणां श्वेतदुकूलां तामुपायत ॥६४॥ रमयामास तां स्वैरं काणिविविधभगिभिः । निशाशेषेऽब्रवीच्चैवं याम्यहं शाम्बसन्निधौ ॥६५॥
१. नाम्ना तु भा० मु० । २. सामवचनयोग्यो न । ३. स्वरम् ला० । ४. ०दायाव: खं० २, ०दायाव खं०१, सू० । ५. द्वारिका खं०२, ला०, द्वारकावतीम् सं०। ६. तु मु० २० । ७. ङ्कारभूतं को खं० २ । ८. भयं, जनक्षोभः । ९. हस्त्यारोहकेन। १०. कश्चिदिभम् की० । ११. रुक्मिनृपः । १२.०गीतात् ता० । १३. हस्तिनम् । १४. आवयोः । १५. अन्नपाचिका । १६.०भूम्यां सप्तम्यां मु०र० । १७. कृत्रिमम् । १८. वदा० ला० । १९. आयुक्तकङ्कणां की० । आमुक्तकङ्कणः खं०१-२, ला० सू० । २०. प्रद्युम्न: कृष्णपुत्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org