________________
सप्तमः सर्गः
अथ प्रवर्तमानेऽत्र प्रद्युम्नागमनोत्सवे । दुर्योधन: समुत्थाय वासुदेवं व्यजिज्ञपत् ॥१॥ पत्री मे ते स्नषा स्वामिन् ! केनाऽप्यपहृताऽधुना । तन्मग्यतां क्वाऽपि यथा भानुकः परिणीयते ॥२॥ कृष्णोऽप्युवाच सर्वज्ञो नाऽहं स्यां तादृशोऽपि चेत् । तत् किं मया रौक्मिणेयो न ज्ञातः केनचिद् हृतः? ॥३॥ प्रज्ञप्त्या तामहं ज्ञात्वाऽत्राऽऽनेष्यामीत्युदीरयन् । तत्र प्रद्युम्न आनैषीत् तां स्वयंवरकन्यकाम् ॥४॥ कृष्णेन दीयमानां तां मम ह्येषा वधूरिति । प्रद्युम्नो न हि जग्राह पर्यणैषीच्च भानुकः ॥५॥ अनिच्छुनाऽपि प्रद्युम्नेनोत्सवेन महीयसा । खेचरीः क्षमापकन्याश्च गोविन्द उदवाहयत् ॥६॥ प्रद्युम्नानयनहेतोरुपकारिणमार्चतम् । नारदं व्यसृजतां च रुक्मिणी-शार्ङ्गधारिणौ ॥७॥ पाप्रद्युम्नस्य महाऋद्ध्या ताम्यन्ती श्लाघयाऽपि च । भामा कोपगृहे गत्वा शिश्ये जर्जरमञ्चके ||८|| तत्राऽऽयातश्च कंसारिर्व्याजहार ससम्भ्रमः । केनाऽपमानिताऽसि त्वं येनैवं सुभ्र ! ताम्यसि ? ॥९॥ साऽप्यूचे नाऽपमानो मे किन्तु प्रद्युम्नसन्निभः । न चेन्मे भविता सूनुर्मरिष्यामि तदा ध्रुवम् ॥१०॥ पाकृष्णस्तदाग्रहं ज्ञात्वा त्रिदशं नैगमेषिणम् । उद्दिश्याऽष्टमभक्तेन पौषधं प्रत्यपद्यत ॥११॥
आविर्भूय नैगमेषी तमूचे किं करोमि ते? । कृष्णोऽप्युवाच भामायै देहि प्रद्युम्नवत् सुतम् ॥१२॥ नैगमेष्यवदद यस्यां पत्रेच्छा ते भजस्व ताम् । त्वममुं हारमोमोच्य ततो भावीप्सितः सुतः ॥१३॥ अर्पयित्वा च तं हारं नैगमेषी तिरोदधे । वासँकं वासुदेवोऽपि सत्यायै मुदितो ददौ ॥१४॥ प्रज्ञप्त्या ज्ञापितस्तच्च प्रद्युम्नोऽम्बामजिज्ञपत् । ऊचे चाऽऽदत्स्व तं हारं मत्तुल्यसुतकाङ्क्षया ॥१५॥ रुक्मिण्यूचे त्वयैवाऽस्मि कृतार्था वत्स ! सुनूना । किञ्च प्रसूते भूयोऽपि न स्त्रीरत्नं कदाचन ॥१६॥ का सपत्नीषु तेऽभीष्टा यस्यां पुत्रं ददाम्यहम् ? । प्रद्युम्नेनेति सा भूयः पृष्टाऽभाषिष्ट रुक्मिणी ॥१७॥ त्वद्वियोगे दुःखितायाः समुदुःखा ममाऽभवत् । पुरा जाम्बवती वत्स ! तस्यां स्तात् त्वत्समः सुतः ॥१८॥ प्रद्युम्नानुज्ञया साऽथाऽऽजूहवज्जाम्बवत्सुताम् । प्रद्युम्नोऽपि हि तां भामारूपामकृत विद्यया ॥१९।। सा तदाख्याय रुक्मिण्या प्रेषिता सदने हरेः । सायं ययौ तेन हारं दत्त्वा च बुभुजे मुदा ॥२०॥ तदैव च महाशुक्राद् देवः प्रच्युत्य कैटभः । आगात् कुक्षौ जाम्बवत्याः सिंहस्वप्नोपसूचितः ॥२१॥ ततो ययौ जाम्बवती हृष्टा निजनिकेंतनम् । आययौ सत्यभामा च कृष्णौकोवासकार्थिनी ॥२२॥ तां दृष्ट्वाऽचिन्तयत् कृष्णो भोगातृप्ता अहो ! स्त्रियः । अधुनैव गता ह्येषा यद् भूयोऽप्येति सत्वरा ॥२३॥ सत्यारूपं विधायाथ कयाऽपि च्छलितोऽस्मि किम् ? । यदेषा मा विलक्षा भूदिति रेमे तया सह ॥२४।। तस्या रमणसमयं रौक्मिणेयोऽवगम्य तम्११ । भेरीमताडयद् विष्णोविश्वप्रक्षोभकारिणीम् ॥२५॥ केनेयं ताडिता भेरीत्यपृच्छत् क्षुभितो हरिः । ताडिता रौक्मिणेयेन शशंसेति परिच्छदः ॥२६॥ स्मित्वा दध्यौ हरिनं भामाऽद्य च्छलिताऽमुना । तनयोऽपि हि सापत्नः सपत्नीदशकोपमः ॥२७॥ किञ्चित् सर्भयसम्भोगाद् भामाया भीरुरात्मजः । भविता भवति खलु नाऽन्यथा भवितव्यता ॥२८॥ पाप्रातश्च रुक्मिणीगेहे गतोऽपश्यज्जनार्दनः । तेन दिव्येन हारेण भूषितां जाम्बवत्सुताम् ॥२९॥ निस्पन्दाक्षं प्रेक्षमाणमचे जाम्बवती हरिम् । "किमेवमीक्षसे स्वामिन् ! सैवाऽस्मि तव पत्न्यहम् ॥३०॥ ऊचे च विष्णुर्हारोऽयं दिव्यो देवि ! कुतो न्विति । साऽप्यूचे त्वत्प्रसादेन किं न वेत्सि स्वयं कृतम् ? ॥३१॥ १. पुत्रवधूः । २. प्रद्युम्नः । ३. खेचर-क्षमाप० आ० मु०, विद्याधरी: राजकन्यकाश्च । ४. ०णमचितम् मु० र०। ५. त्वमिमं र०।६. परिधाप्य । ७. सहशयनम् । ८. निकेतने मु०। ९. कृष्णस्य गृहं तस्मिन् भोगार्थिनी सत्यभामा आययौ । १०. च्छलितोऽस्यहम् खं० २। ११. ताम् खं० १,२, ला० सू० । १२. विश्वविक्षोभ० पा०म० । १३. सभयं मु०र० । १४. किमेवं वीक्षसे की०म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org