________________
२३९
एकादशः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । विश्वैश्वर्यस्याऽधिका न्यक्का विश्वपाप्मनाम्। 'अविकोपका च सनाथं भवता जगत् ॥२९॥ धर्मबीजसमुद्धā धāऽतिशयसम्पदाम् । श्रुतस्कन्धविधात्रे च भगवन्! भवते नमः ॥३०॥ प्रत्यादेष्टुः कुमार्गाणामादेष्टुर्मुक्तिवर्त्मनः । धर्मः प्रभविता त्वत्त उपदेष्टुरतः परम् ॥३१॥ नव्यतीर्थप्रतिष्ठातुरनुष्ठातुस्तपःश्रियाम् । प्रभो! जगदधिष्ठातुर्भवत: किङ्करा वयम् ॥३२॥ आदातर्यपवर्गस्य विश्वस्याऽभयदातरि । त्वयि त्रैलोक्येशरण! प्रपन्नशरणोऽस्म्यहम् ॥३३॥ अस्मिन् भवे यथाऽभूस्त्वं प्रभुर्मम जगत्पते! । भवान्तरेष्वपि तथा भूया नाऽन्यो मनोरथः" ॥३४॥ इति स्तुत्वा जगन्नाथं पुनरादाय वासवः । मुमोच वप्रास्वामिन्या: पार्श्वे नीत्वा यथास्थिति ॥३५।। पाराजाऽपि विजय: प्रात: सूनोर्जन्ममहोत्सवम् । चकार कारामोक्षादिपूर्वकं परया मुदा ॥३६॥ प्रभौ गर्भस्थिते रुद्धा पुर्यासीन्मिथिलाऽरिभिः । अधिप्रासादमारोहद् वप्रादेवी च तत्क्षणम् ॥३७॥ वप्रां प्रेक्ष्य च तद्गर्भानुभावाद् विजयं नृपम् । यनेमुर्द्विष इत्यस्य नमिरित्यभिधा ददे ॥३८॥ पाल्यमानोऽथ धात्रीभिः शक्रादिष्टाभिरन्वहम् । नमिनाथ: प्रववृधे निशानाथ इवाऽपरः ।।३९।। विमुक्तशैशव: स्वामी धनूंषि दश पञ्च च । उच्छ्रिताङ्ग: पर्यणैषीत् कन्यां पितृनिदेशतः ॥४०।। सार्धे वर्षसहस्रे द्वे व्यतिक्रम्य स जन्मत: । दत्तं पित्राऽऽददे राज्यं कर्म भोगफलं विदन ॥४१॥ पञ्चस्वब्दसहस्रेषु राज्याद् यातेष्वथ प्रभुम् । तीर्थं प्रवर्तयेत्यूचुरेत्य लोकान्तिकामराः ॥४२॥ निवेश्य सुप्रभं नाम पुत्र राज्ये नमिप्रभुः । प्रददौ वार्षिकं दानं द्रविणैर्जुम्भकाहृतैः ॥४३॥ सुप्रभाद्यैर्नृपैः शक्रादिभिर्देवैर्वृत: प्रभुः । देवकुर्वा शिबिकया सहस्राम्रवणं ययौ ॥४४|| कदम्बचुम्बनासक्तमधुव्रतकदम्बकम् । मल्लिकाकुसुमोच्चायव्याकुलोद्यानपालकम् ॥४५।। विगलत्पाटलापुष्पपाटलीभूतभूतलम् । कामुकम्रस्तरीभूतशिरीषकुसुमोत्करम् ॥४६॥ वहमानारघट्टोत्थैः प्रोच्छलच्छीकरोत्करैः । ग्रीष्मेऽपि दर्शिताब्दतु तद् वनं प्राविशत् प्रभुः ॥४७॥त्रिभिर्विशेषकम्।। आषाढकृष्णनवम्यामश्विन्यां चरमेऽहनि । समं राज्ञां सहस्रेण षष्ठेन प्राव्रजत प्रभः ॥४८॥ तदोत्पन्नमनोज्ञानो द्वितीयेऽहनि पारणम् । स क्षैरेय्या वीरपुरे चक्रे दत्तनृपौकसि ॥४९॥ चक्रे च विबुधैस्तत्र वसुधारादि दत्तराट् । पीठं च व्यहताऽन्यत्र नवमासांस्तत: प्रभुः ॥५०॥ ततः सहस्राम्रवणं दीक्षास्थानं तदा ययौ । षष्ठेन बकुलस्याऽधस्तस्थौ च प्रतिमाधरः ॥५१॥ मार्गस्य शुक्लैकादश्यामश्विन्यां भेनमिप्रभोः। घातिकर्मक्षयादाविरभूत् केवलमुज्ज्वलम् ॥५२॥
सद्योऽपि देवा: समवसरणं विदधुस्ततः । अशीत्यग्रशतधनुस्तुङ्गाशोकद्रुभूषितम् ॥५३॥ तत्र प्रदक्षिणीकृत्याऽशोकं तीर्थाय चाऽनमत् । न्यषदत् प्रामुख: पूर्वरत्नसिंहासने प्रभुः ॥५४।। रत्नसिंहासनस्थानि प्रतिबिम्बानि च प्रभोः । विचक्रुर्व्यन्तरसुरा दिक्ष्वन्यास्वपि तत्क्षणम् ॥५५॥ अवतस्थे यथास्थानं श्रीमान् सङ्घश्चतुर्विधः । भगवन्तं नमस्कृत्य सौधर्मेन्द्रोऽस्तवीदिति ॥५६॥ "केवलज्ञानसज्ञेन चक्षुषा वीक्षसेऽखिलम् । जगदेतत् तदेवं ते त्रिनेत्राय नम: प्रभो! ॥५७|| पञ्चत्रिंशदतिशयवचसे परमेष्ठिने । चतस्त्रिंशदतिशयान्विताय भवते नमः ॥५८॥ मालवकैशिकीमुख्यग्रामरागमनोरमाम् । सर्वभाषानुगां नाथ! तव वाचमुपास्महे ॥५९॥ त्वदर्शनात् प्रणश्यन्ति कर्मपाशा: शरीरिणाम् । ताावलोकनान्नागपाशा इव दृढा अपि ॥६०॥ त्वदर्शनाद् देहभाजोऽधिरोहन्ति शनैः शनैः । निःश्रेणिमिव मोक्षस्य गुणस्थानकमालिकाम् ।।६।। १. अधिकारिणा ॥ २. तिरस्कळ सर्वपापानाम् ।। ३. अविकारिणा ।। ४. निरसनं कर्तुः ।। ५. आ-समन्ताद् दातरि ।। ६. त्रैलोक्यशरणे मु. रस्वीपा. ।। ७. कन्या: रसंपा.॥८.सार्धवर्ष मु.रस्वीपा.॥९.लौकान्तिका० रसंपा. ।। १०. कदम्बानां चुम्बने आसक्तो मधुव्रतानां-भ्रमराणां कदम्बः-समूहो यत्र तत्॥ ११. मल्लिकापुष्पाणामवचये व्याकुला उद्यानपाला यत्र तत् ।। १२. ०द्यानपालिकाम् खं.१, पाता.; ०द्यानपूर्वकम् खं.२ ।। १३. विगलद्धिः-पतद्भिः पाटलापुष्पैः पाटलीभूतं-रक्तवर्णं भूतलं यत्र तत् ।। १४. कामुकानां स्रस्तरीभूत:-आसनीभूत: शय्याभूतो वा शिरीषकुसुमानामुत्करो यत्र तत् ॥१५. दर्शितोऽब्दानां
मेघानां ऋतुर्येन तत् ॥ १६. परमानेन । १७. वसुधारादिपञ्चकम् खं.२ ॥ १८. “भाविनि भूतवदुपचारः" इति रूढिमाश्रित्य वचनमिदं स्यात् ।। १९. Jain Education o5वीदिति खं.२॥
For Private & Personal Use Only
www.jainelibrary.org