________________
प्रस्ताविकं विज्ञापनम् ।
३ तृतीय पूर्वनिर्दिष्टस्तम्भतीर्थीयप्राचीनताडपत्रीयपुस्तकभाण्डागारसत्कं वि.सं.१५२० वर्षे लिखितं प्रायःशुद्धं कागदीयं नवनवति(९९)पत्रमयं “श्रेष्ठिदीपचन्द्र पानाचन्द्र" द्वारा प्राप्तम् । इदमत्र "खं." संज्ञया निर्दिष्टम।। १०x४," एतत्प्रमाणस्याऽस्याऽऽद्यान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते ।
४ चतुर्थ पत्तनीयपूर्वोक्तश्रीसङ्घभाण्डागारसत्कं सप्तपञ्चाशदधिकशत( १५७ )पत्रात्मक सुवाच्यं नातिशुद्धं प्रत्नं स्थूलाक्षरसमलङ्कृतं कागदपुस्तकं पूज्यप्रवर-संशोधनकार्यकुशल-मुनिश्रीपुण्यविजयप्रयत्नेनाऽऽसादितम् । इदमत्र "सं २" नाना निदशितम् । ११६x४६ प्रमाणांमतम्
५ पञ्चमं च सूर्यपुर( सुरत )गोपीपुरास्थश्रीजैनानन्दपुस्तकालयसत्कं प्राचीनमशुद्धं मनोहरं त्रिपञ्चाशदधिकशत(१५३)पत्रात्मकं कागदीयं "झवेरी अमरचन्द्र मूलचन्द्र" द्वारा संलब्धम् । एतदत्र "आ" संज्ञया विनिर्दिष्टम् । १०३" x ४३" प्रमाणम् । ___ आदर्शपुस्तकपञ्चकेऽपि यो यत्र पाठभेदः समासादितः शुद्धतया च प्रतिभातः स तत्रैव तत्तत्पुस्तकसङ्केतेन सह तस्य पत्रस्य निम्नभागे टिप्पनरूपेण विन्यस्तः।
पूर्वनिर्दिष्टादर्शपुस्तकानि वितीर्याऽत्र साहाय्यविधायकेभ्योभूरि धन्यवादान् वितरामि। निवेदये चैतेऽन्ये चाऽनेन पथाऽऽदर्शपुस्तकसाहाय्यं दत्त्वा ममाऽन्येषां च प्राचीनसाहित्यप्रकाशनप्रयासं मुहुर्मुहुः समुत्तेजयन्त्विति।
त्रिषष्टिशलाकापुरुषचरितमहाकाव्यान्तर्गतानां विशेषनाम्नां परिचयोऽकारादिक्रमेणाऽन्तिमे विभागे प्रदर्शयिष्यामः ।
प्रथमस्य पर्वणोऽस्य संशोधनकर्मण्यन्तिम प्रूफ" रूपाणि पत्राणि विलोक्य विशुद्धिं विर्निदिश्य च सुसा. हाय्यविधायिनः पुरातनग्रन्थोद्धारक-पूज्यपाद-प्रवर्तकपदालङ्कृतश्रीकान्तिविजयप्रशिष्यरत्नस्य संशोधनकार्यातिनिपुणस्य विद्वजनमान्यस्य पूज्यप्रवरमुनिश्रीपुण्यविजयस्य, प्रथमत आरभ्याऽन्तिमपर्यन्तं संशोधने सहकारकारिणश्च विबुधस्य पूज्यवरस्य मुनिश्रीउत्तमविजयस्य महोपकारं कृतज्ञतयाऽत्र संस्मरामि । ___ मदुपरोधतः प्रस्तुतमहाकाव्यस्य विस्तरतो विषयानुक्रमणिकाकर्तुः पूज्यपाद-दक्षिणविहारि-मुनिश्रीअमरविजयशिष्यरत्नस्येतिहासप्रियस्य कविकर्मकुशलस्य श्रीचतुरविजयस्याऽप्युपकृतिरत्र कथं नाम विस्मयते?।
प्राच्यविद्यामन्दिरीयगायकवाडप्राच्यग्रन्थमालायां जैनविद्वत्कर्तृकविविधग्रन्थसम्पादकत्वेन ख्यातकीले प्राचीनेतिहासतत्त्ववेदिनोऽस्मिन् प्रास्ताविके विहितसाहाय्यस्य गान्धीत्युपास्य श्रेष्ठिभगवान्दास तनुजस्य जैनपण्डितश्रीलालचन्द्रस्य नामग्राहं स्मरणं क्रियते ।
प्रस्तुतस्य महाकाव्यस्याऽऽद्यपर्वणः प्रसिद्धिकृते 'पंजाब'देशोद्धारक-न्यायाम्भोनिधि-जैनाचार्यश्रीमद्विजयानन्दसूरीश्वर (प्रसिद्धनामधेयश्रीआत्मारामजी महाराज) पट्टधर-आचार्यश्रीविजयवल्लभसूरीश्वराणां सुधासोदरेण निखिलप्रत्यूहव्यूहविनाशिनोपदेशेन समुदारतया द्रव्यसहायताकी धांगध्रावास्तव्यस्य धर्मेकपरायणस्य “श्रेष्ठिवर्य श्रीपुरुषोत्तम सुरचन्द्र” इत्यस्य धर्मपत्नी अं०सौ० श्रीमती "पूरी" इत्याख्या सुश्राविका धन्यवादारे ।
पित
* अस्याऽन्त्योऽयमुल्लेखः समवलोक्यते--
संवत् १५२० वर्षे प्रथमचैत्रसुदि ५ वार बृहस्पति लिखितं पण्ड्या मदनजीकेन पुण्याय परोपकाराय लिखापितम् ॥ सा. मोहनजी लिखापितम् ॥ ७ ॥ ॥५॥
॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org