________________
प्रास्ताविकं विज्ञापनम।
रणानां भव्यानां धार्मिकशिक्षादीक्षाविषयत्वेन महतीमुपकारकतामाकलयति, तथैवाऽन्येषामपि काव्यरसास्वादतत्पराणां रसिकानां, पुरातनतत्त्वानुसन्धानकलक्ष्याणां दक्षाणां, भारतवर्षीयगीर्वाणगिरापरिशीलनपरायणानां पण्डितानां चोपयुक्तता सम्पादयेदिति मे सुदृढतरो विश्वासः। ____ अवगाहितविविधवाङ्मयाश्चेमे प्रौढप्रतिभाशालिनो ग्रन्थकारा एतदतिरिक्तान्यन्यान्यपि स्वोपक्षसुगमवृत्तिसमन्धितलिङ्गानुशासन-धातुपारायणायङ्गगरिष्ठ-संस्कृत-प्राकृतसिद्धहेमशब्दानुशासन-संस्कृतप्राकृतघ्याश्रयमहाकाव्य-अभिधानचिन्तामणिनाममाला-अनेकार्थसङ्ग्रह-निघण्टु-देशिनाममाला-खोपशालङ्कारचूडामणिविवरणसमलकृतकाव्यानुशासन-छन्दोनुशासन-प्रमाणमीमांसाअर्हन्नीति-खोपक्षवृत्तिविभूषितयोगशास्त्र-वीतरागस्तोत्र-महादेवस्तोत्र-अयोगव्यवच्छेदद्वात्रिंशिका-अन्ययोगव्यवच्छेदद्वात्रिंशिकादीनि विविधविषयव्यावर्णनपराणि नैकग्रन्थरत्नानि जग्रन्थुः । ग्रन्थकर्ताऽस्मिन् प्रथमे पर्वणि वर्णितो विषयः प्रान्ते पद्येनकेनैव सङ्गिततया इत्थं समासूचि
खामिप्राग्भववर्णनं कुलकरोत्पत्तिः प्रभोर्जन्म चो
द्वाहादिव्यवहारदर्शनमथो राज्यं व्रतं केवलम् । चक्रित्वं भरतस्य मोक्षगमनं भर्तुः क्रमाचक्रिणो
ऽप्यस्मिन् पर्वणि वर्णितं वितनुतात् पर्वाणि सर्वाणि वः॥ जिज्ञासूनां कृतेऽस्य विस्तृता विषयानुक्रमणिका त्यत्राऽग्रे प्रदर्शिता विशेषजिज्ञासां परिपूरयिष्यतीति मन्ये ।
प्रस्तुतमहाकाव्यस्य सम्पादनप्रसङ्गे आदर्शपुस्तकपञ्चकं समासादितमस्माभिः। तत्र१ प्रथमं स्तम्भतीर्थीयप्राचीनताडपत्रीयजैनभाण्डागारसत्कं, विक्रमसंवत्१२४०संवत्सरे श्रीसर्वाणन्दसूरीणामुपासकेन घूसडीग्रामवासिना श्राद्धधर्मेण घूसडीग्रामे लिखितं, व्याख्यापितं च, ताडपत्रीयमतिजीर्णमतिशुद्धतमंत्रयोदशाधिकपञ्चशत(५१३)पत्रात्मकमादर्शपुस्तकं प्रान्त्यपत्रत्रुटितं "श्रेष्ठिदीपचन्द्र पानाचन्द्र"द्वारा समुपलब्धम् । इदमत्र "खंता०" सङ्केतेन समभिज्ञापितम् । अत्र१५" x २" प्रमाणपरिमितस्याऽस्य प्रार. म्भप्रान्तपत्रयोः प्रतिकृती अत्र प्रदर्शिते। "
२द्वितीयम्-अणहिल्लपुरपत्तन (पाटण) फोफलीयापाटकान्तर्गत "वखतजी"संज्ञकवीथीस्थधीसभाण्डागारसम्बन्धि वि. सं. १४८३ वत्सरे लिखितं प्रायशोऽशुद्धं, सुवाच्यमेकपश्चाशदधिकशत(१५१)पत्रात्मकं कागदोपरिलिखितं विद्वद्रत्न-मुनिपुङ्गव-श्रीपुण्यविजयकृपया समासादितम् । एतदत्र “सं१" संज्ञया सूचितम्।।१२४५" प्रमाणप्रमितस्याऽस्याऽऽद्य-प्रान्तपत्रयोः प्रतिकृती अत्र निदर्शिते ।
* एतस्य समाप्त्यनन्तरोपन्यस्तैरिमैः पुस्तकलेखयितृप्रशस्तिपद्यैर्षिभूषितोऽयं समुल्लेखो विजृम्भते......,.... विचारणा । सुधर्मस्य ततो ज्ञानं, ज्ञानात् तस्य परिग्रहः॥१॥ तस्माद् भवन्ति श्रेयांसि, स्थैर्यस्य ..............., [तस्माद् धर्मपरिणतिः॥२॥ तस्माद् धर्मोपदेशश्चोपदेशाद् धर्मविस्तृतिः । ततोऽनेके भवं तीर्ला, लभन्ते च परं पदम् ॥३॥ इत्यनेकगुणं ज्ञानं, ........ । सर्वेषामेव धर्माणां, ज्ञानदानफलं महत् ॥ ४॥[चतुर्भिः कलापकम् ] “ज्ञानदानेन जानाति, जन्तुः खस्य हिताहितम् । वेत्ति [जीवादितत्त्वानि, विरतिं ] च समश्नुते ॥५॥ ज्ञानदानादवाप्नोति, केवलज्ञानमुज्वलम् । अनुगृह्याऽखिलं लोकं, लोकाग्रमधिगच्छति ॥ ६॥" [ त्रि. श. पु. च. प. १. स. १ श्लो. १५५-१५६ ] ऋते ज्ञानात् कथं जन्तु[त्ति खस्य हिताहितम् ] । अज्ञानी जनुषान्धवत् , कथं वर्तेत सत्पथि ? ॥ ७ ॥ [ विज्ञाय ] माहात्म्यं ज्ञानदानस्य सद्गुरोरिति । श्रीसर्वाणन्दसूरीणामुपासकेन स(4)[दा ॥८] ....... न, घूसडीग्रामवासिना । लिखितं श्राद्धधर्मेण, चरित्रमृषभप्रभोः॥९॥ यावद् भूर्भूधरो मेरुावचन्द्रदिवाकरौ । यावजिनेन्द्र [ धर्मोऽयं, तावजयेत् ] सुपुस्तकः ॥ १० ॥ ७ ॥ मङ्गलं महाश्रीः ॥ ५ ॥ वत्सरे श्रीविक्रमार्के, द्वादशवेदाम्बराधिके (१२४०)। व्याख्यातं घुसडीग्रामे, ........॥ ११ ॥
+ अस्य प्रान्तभागेऽयं समुल्लेखो दृश्यते
संवत् १४८३ वर्षे द्वितीयवैशाखवदि ४ बुधे - -[सूरिपट्टालङ्कार भ७ श्रीविजयसिंहसूरिशिष्य मुं० जिनचन्द्रेण श्रीआदिनाथचरित्रं लेखयांचके । परोपकाराय ॥ यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ [खंभायत (?) नयरे ] सम्पूर्ण कृतम् । शुभं भवतु लेखकपाठकयोश्च । [धे इत्यत आरभ्य त्रं यावत् , तथा ते इत्यत आरभ्य सं यावत् पतिद्वयं केनचिन्मषीकूर्चिकया विनाशितम् , तथापि सम्प्रयत्नेन पठितः पाठः प्रदर्शितः।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org