________________
प्रास्ताविकं विज्ञापनम्.
geopoegODODE
प्रकृतमिदं दशपर्वप्रविभक्तं त्रिषष्टिशलाका पुरुषचरितं महाकाव्यं पुरा वि. सं. १९६१-१९६५ प्रमिते संवत्सरे भावनगरस्थया श्रीजैनधर्मप्रसारकस भया मुद्रयित्वा प्रकाशितमासीत् । परं साम्प्रतं तस्याऽनुपलभमानत्वादनल्पाशुद्धिसद्भावाच्चैतस्य विशिष्टसंस्करणसम्पादनार्थे कतिपय विद्वज्जनमुनिवरादिसम्प्रार्थितैः पूज्यपादैराचार्यवरैः श्रीविजयवल्लभसूरिभिरेतदर्थमाज्ञापितोऽहं पुनः सुसंस्कृत्य सम्पादनेऽस्मिन्नतिगहने कर्मणि तेषामेव महत्या कृपया सम्प्रवृत्तः ।
महौजसां लोकोत्तराणामवश्यं लोकाग्रप्रयायिनां चतुर्विंशतितीर्थकर - द्वादशचक्रवर्त्ति - वासुदेवनवक-प्रतिवासुदेवनवक -बलदेवनवकानां शलाकापुंस्त्वप्रसिद्धानां त्रिषष्ठेर्महापुरुषाणामितिवृत्तात्मकं सुचारुरूपैः सुललितमनोहरपद्यैः सुगमगभीरशैल्या च सङ्घथितं दशपर्वमयं प्रस्तुतमेतन्महाकाव्यं समुत्साहयति स्म मे चेतः ।
तत्र श्रीमतः प्रथमतीर्थ नायकस्य ऋषभखामिनः, तत्पुत्रस्य प्रथमचक्रवर्त्तिनो भरतस्य च चरितेन समायुक्तं षट्सर्गमनोहरमिदं प्रथमं पर्व पूज्यपाद - जैनाचार्य - श्री विजयवल्लभसूरीश्वर सद्विचारप्रादुर्भूतायाः श्रीजैन - आत्मानन्द- शताब्दि-ग्रन्थमालायाः सप्तमपुष्परूपं सुसावधानतया सम्पाद्य समुपदीक्रियते लोकोत्तमपुरुषचरित्रानन्दामृतपिपासुभ्यो विपश्चिद्वरेण्येभ्यः सज्जनमहानुभावेभ्य इति समुल्लसति मेऽन्तःकरणे परमाह्लादः।
सुप्रसिद्ध-गुर्जरेश्वर - परमदयालु- परमार्हतकुमारपाल भूपालप्रार्थनयाऽस्येतिवृत्तरूपमहाकाव्यस्य - तारः सुविहितशिरोमणयः सुप्रसिद्धनामधेया विपश्चित्कुलावतंसकाः कलिकालसर्वज्ञपदप्रतिष्ठिताः श्रीहेमचन्द्रसूरयो वारिधिवारिवसनामिमां रत्नाकरवलयां वसुमतीं कदा कतमां निजजन्मना, उपशमरसपीयूषवर्षिण्या भारत्या, पावनचरणारविन्देन चाऽलङ्कृतां कृतवन्तः ?, कं वंशं, कां ज्ञातिं वा निर्मलस्वजनुषा विभूषितवन्तः ?, अथ च विशुद्धखजीवितव्येन कं गच्छं पावनं चक्रुः ?, इत्यादीनां सप्रमाणः परामर्शः समग्रग्रन्थ पर्यवसानेऽन्तिमे विभागे विस्तृतप्रस्तावनासमये विस्तरतः करिष्यते । इदानीं त्वत्राऽनतिविस्तरेणैव संसूच्यते ।
पूज्या इमे महाकवयः पूर्णतल्लगच्छीयाः सूरयः । सत्तासमयश्चैषां विक्रमीयद्वादशशताब्द्या उत्तरार्धे त्रयोदशशताब्द्याश्च पूर्वार्धे सम्यगवबुध्यते ऐतिह्यप्रमाणेन । जन्मभूमिस्तु सौराष्ट्र- गूर्जरजनपदयोः सन्धौ स्थितं धन्धूकाख्यं नगरम् । उत्पत्तिवंशस्तु बुद्धिवैभवप्रौढो मोढो वणिग्वंशः । पादचङ्क्रमणेनाऽनल्पविषयेषु विहृत्य प्रतापशालिनो महाराजान्, राज्याधिकारिणो, नागरिकप्रभृतींश्चाऽनेकान् भव्यान् स्वकीयामोघधर्मदेशना दानेन बोधयित्वा सद्धर्मे नियोजितवन्त इति सुप्रसिद्धमेव ।
एते च प्रौढा ग्रन्थकाराः सर्वतन्त्रस्वातन्येण प्रभूततरदार्शनिकविज्ञान रहस्य वेदित्वेन च प्रौढप्रतापगुर्जरेश्वर - सिद्धराजेत्यपरनाम - जयसिंह परमार्हतकुमारपाल भूपालाभ्यां भूरितरं सन्मानं महतीं प्रतिष्ठां चौपालभिषत, तत्कालीनभारतीयपण्डितप्रवरपरिषत्सु मूर्धन्यतां च प्रापुः । अद्भुतचातुर्याचेमे आचार्यधर्याः समयक्ष धुरन्धरतया, निजासाधारणप्रतिभाप्रागल्भ्यवशात्, कृतकृत्यत्वेन च स्वकीयं युगप्राधान्यं प्रकटयाञ्चक्रुरित्यत्र तत्कालीना बहुश्रुता विद्वज्जनास्तेषां भूरिकृतयश्च प्रामाण्यमुद्धोषयन्ति ।
कविकुलतिलकायमानानां सूरिशेखराणां श्रीमतां हेमचन्द्रसूरीश्वराणां शाब्दिकचातुरीचतुरत्वम्, साहित्यतन्त्रजागरूकत्वम्, अपारजिनागमपारावारपारगामित्वम्, निखिलदर्शन निष्णातत्वम्, विषयविशदीकरणविशारदत्वम्, लौकिकशास्त्रावगाहननैपुण्यं चैतञ्चरितावलोकनेन सुस्पष्टं समवज्ञायते ।
महाकाव्यलक्षणपरिपूर्णेऽस्मिन् महाकाव्ये कुत्रचित् कलाकौशल्यम्, क्वचन वासनावैषम्यम्, कापि प्रकृतिप्रभावम, कुत्रापि बुद्धिमाहात्म्यम्, क्वचिद् दार्शनिकविवादम्, कापि च तत्त्वरहस्यादिकं सरलेन रचनासन्दर्भेण सुकुमारशैल्या च निरूपयन्त इमे ग्रन्थकाराः स्वसमयप्रवर्त्तमानस्य लौकिकाचार-व्यवहारस्य, सामाजिक प्रथायाः, धार्मिकभावस्य, नैतिकजीवनस्य, अन्यस्याऽपि च तादृशस्याऽऽनुषङ्गिकस्य तत्समयज्ञातब्यवस्तुनः समुल्लेखं यथास्थानं श्लेषगर्भितरूपेण चकुः । तस्मादिदं महाकाव्यं यथा जैनधर्मवासितान्तःक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org