________________
50
Book I. THE ESTRANGING OF FRIENDS:
Tale viil: Weaver as Vishnu.
अथ कौलिकः सुहृदङ्गीकारप्रत्युज्जीविताश उत्थाय सर्वं यथाकृत्यम् अनुष्ठितवान्।अन्येधुश च रथकारः काष्ठमयम् अनेकवर्णकचिचितं कीलिकाप्रयोगोत्पन्नं नवतरघटितं गरुडयन्त्रम् आदा- ३ योपस्थितः कौलिकम् आह । वयस्य । एनम् आरुह्य कीलिकां दत्वा यत्रेष्यते । तत्र गम्यते । यत्र च कीलिकापनीयते । तत्र यन्त्रम् इदम अवतरति । तस्माद् गृहाणेतत् । अद्यैव निशि : सुप्ने जने कृतशरीरशुश्रूषो *मविज्ञानप्रयोगसंघटितनारायणरूपम् आस्थायनं गरुडम् आरुह्य कन्यान्तःपुरहऱ्यातले ऽवतीर्य तया राजपुथा सह यथासमीहितं निष्पादयस्व । मयेवं निश्चितम् । " असौ राजदुहिता हऱ्यातल एकाकिनी स्वपिति । इति ।
एवम् अभिधाय गते रथकारे मनोरथशतैर् दिवसशेषम अतिवाह्य प्रसन्नायां रजन्यां स्नानधूपंचूर्णविलेपनताम्बूलमुखवास- 12 कुसुमादिभिर् अतिसुरभिविचित्रमाल्याबरो मुकुटाद्याभरणलंकृतः कौलिकम तथैवानुष्ठितवान् । यावद् असौ *राजकन्या सुधांशुकरावदाते हऱ्यातले शयनतलावस्थित काकिनी चन्द्रमसम 15 *अवलोकयन्ती मनाम् मदनेन *स्पृश्यमानमानसा सहसैव तं वैनतेयाधिरूढं नारायणाकारं कौलिकम् अवलोकितवती । दृष्ट्वा च शय्यायाः ससंभ्रमम उत्थाय पादाभिवन्दनं कृत्वा व्यज्ञपयत् । 18 देव । किंनिमितम् इहागमनेनानुगृहीतास्मि । तस्मात् समादिश्यताम् । किं कर्तव्यम् । एवं वादिन्यां राजदुहितरि कौलिको गम्भीरवक्ष्णया गिरा शनैर् इदम उवाच । भद्रे । त्वदर्थम् एवेदन 1 इहागमनम् । साब्रवीत् । मानुषी कन्या *वाहम् । तेनाभिहितम् । शापभ्रष्टा त्वं ममैव पूर्वपत्नी । मया चेतावन्तं कालं मानुषसंपर्काद् रक्षिता । तस्मात् त्वाम् अहं गान्धर्वेण विवाहेन 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org