________________
Book I. THE ESTRANGING OF FRIENDS;
20
Tale iii: Merchant and king's sweep.
अय् अर्धचन्द्रभागिनो भविष्यथ । इति । तच् छ्रुत्वा दन्तिलकश् चिन्तयाम आस । नूनम् अस्य गोरभकस्य चेष्टितम् । अथवा साध्व् इदम उच्यते।
अकुलीनो ऽपि मूतॊ ऽपि । भूपालं यो ऽत्र सेवते । अपि संमानहीनो ऽपि । स सर्वत्र प्रपूज्यते ॥११॥ अपि कापुरुषो भीतः । स्याच् चेन नृपतिसेवकः । तथापि न पराभूतिं । जनाद् आप्नोति मानवः ॥११२॥
एवं विलय स विलक्षमनाः सोवेगः स्वगृहं गत्वा गोरभम् आहूय निशामुखे वस्त्रयुगलेन संमान्येदम उवाच । भद्र । मया त्वं ' रागवशान न निःसारितः । यतस् त्वं पुरोहितस्य पुरो ऽनुचितस्थाने समुपविष्टो दृष्टो ऽसि । इत्य् अपमानितः । सो ऽपि स्वर्गराज्यम् इव तद् वस्त्रयुगलम आसाद्य परं परितोषं गत्वा तम् 12 उवाच । भोः श्रेष्ठिन् । क्षान्तं मया तत् । अस्य संमानस्याचिराद् एव द्रक्ष्यसि राजप्रसादादि फलम् । एवम उक्त्वा सपरितोषं विनिर्गतः । साधु चेदम उच्यते ।
15 स्तोकेनोन्नतिम आयाति । स्तोकेनायात्य अधोगतिम् । अहो मुसदृशी चेष्टा । तुलायष्टेः खलस्य च ॥११३॥
ततश् चान्येयुः स गोरभो राजकुले गत्वा योगनिद्रां गतस्य 18 भूपतेः संमार्जनक्रियां कुर्वन्न इदम आह । अहो विवेको ऽस्मद्भूपतेः । यः पुरीषोत्सर्गम आचरंश् चिर्भिटीभक्षणं कुरुते । तच छुत्वा सविस्मयम् उत्थाय तम् उवाच । रे रे गोरभ । किम् अप्रस्तुतं 4 वदसि । गृहकर्मकरं मत्वा न त्वां व्यापादयामि । किं त्वया कदाचिद् अहम एवंविधं कर्म समाचरन दृष्टः । सो ऽब्रवीत् । देव । धूतासक्ततया रात्रिजागरणेन मम संमार्जनं कुर्वतो ऽपि बलान 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org