SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 18 Book I. THE ESTRANGING OF FRIENDS%3 Tale lii: Merchant and king's sweep. अथ कदाचित प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्यान्ते संमार्जनं कुर्वन्न् इदम् आह । अहो दन्तिलस्य धृष्टत्वम् । यद् राजमहिषीम आलिङ्गति । तच् छुत्वा राजा ससंभ्रमम उन्याय तम् उवाच । भो भो गोरभ । सत्यम एतत् । यत् त्वया जल्पितम् । किं देवी दन्तिलेन समालिङ्गिता। गोरभ आह । देव । राचिजागरणेन द्यूतासक्ततया *मार्जनकर्मरतस्यापि मे बलान निद्रा समायाता । तन न वेनि । यद् अभिहितं मया । राजा सेर्थम् । एष तावन मम गृहे ऽप्रतिहतगतिः । तथा दन्तिलो ऽपि । तत् कदाचिद् अनेन देवी तेन समालिङ्गम्यमाना दृष्टा भविषति । " उक्तं च । यतः। वाञ्छति यद् *दिवा मर्यो । वीक्षते वा करोति वा। तत् स्वमे ऽपि तदभ्यासात् । तथा ब्रूते करोति च ॥१०३॥ 12 तथा च। शुभं वा यदि वा पापं । यन नृणां हृदि संस्थितम् । सुगूढम् अपि तज ज्ञेयं । सुप्तवाक्यान तथा मदान् ॥१०४॥ 16 अथवा स्त्रीणां विषये को ऽच संदेहः । जल्पन्ति सार्धम अन्येन । पश्यन्य अन्यं सविभ्रमाः। हृगतं चिन्तयन्य अन्यं । प्रियः को नाम योषिताम् ॥१०५॥ 18 तथा च । नाग्निस तृणति काष्ठानां । नापगानां महोदधिः । नान्तकः सर्वभूतानां । न पुंसां वामलोचनाः ॥१०६॥ रहो नास्ति क्षण नास्ति । नास्ति प्रार्थयिता नरः । तेन नारद नारीणां । सतीत्वम् उपजायते ॥१०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy