________________
Book v. THE FRUITS OF RASHNESS;
286 Tale xi: Ogre-ridden Brabman.
Tale x: Blind man, hunchback, three breasted princess.
पायं चिन्तयन सरः प्राप्तः । ततो राक्षसेनाभिहितः । भोः । यावद् अहं स्नानं कृत्वा देवार्चनं विधाय सरसो निःसरामि । तावत् त्वया नातः स्थानात क्वापि गन्तव्यम् । तथानुष्ठिते ब्रा- 3 मणश चिन्तयाम आस । नूनं देवतार्चनविधेर् ऊर्ध्व माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि । यतो नायम अनुदानपादो मे पृष्ठतः समेष्यति । इति । तथानुष्ठिते राक्षसो व्रतभङ्गभयात् । ११ तत्पृष्ठतो न गतः ॥ ४ अतो ऽहं ब्रवीमि । पृच्छ केन सदा भाव्यम् । इति । अथ तस्य वचनं श्रुत्वा राजा ब्राह्मणान आहृय प्रोवाच । भी ब्राह्मणाः । विस्तनी मे कन्या जाता। तत् किम् एतस्याः प्रतिविधानम् अस्ति । न वा । ते प्रोचुः । देव । श्रूयताम्।
हीनाङ्गी वाधिकाङ्गी वा । भवेद् या कन्यकात्र सा। 12 भर्तुश च स्याद् विनाशाय । स्वशीलनिधनाय च ॥७१॥ या पुनस् विस्तनी कन्या । याति लोचनगोचरम् । पितरं नाशयत्य् एव । सा द्रुतं नात्र संशयः ॥७२॥ तस्माद् एतद्दर्शनं परिहरतु देवः । यदि कश्चिद् एनाम उदाहयति । तत् तस्मै दत्वा देशत्यागेन नियोजयितव्यः । इति । एवं कृते लोकद्वयाविरुद्धता कृता भवति । इति । तेषां तद वचनम 15 आकर्ण्य राजा सर्वत्र पटहघोषणाम आज्ञापयाम आस । यथा । अहो । विस्तनी राजकन्यां यः परिणयति । तस्य राजा सुवर्णलक्षं दत्वा देशत्यागं कारयति । एवम् आघोषणायां क्रियमाणायां 21 प्रभूतकालो व्यतीतः । न च कश्चित् तां परिणयति । सापि गुप्तस्थानसंस्थिता यौवनाभिमुखी संजज्ञे।
अथ तवैव नगरे कश्चिद् अन्धो ऽस्ति । तस्य च मन्थरक- 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org