________________
283
OR, THE BARBER WHO KILLED THE MONKS. Book v.
Tale ix: Ogre, thief, and ape.
॥ कथा ९॥ अस्ति कस्मिंश्चित् पुरे भद्रसेनो नाम राजा । तस्य सर्वलक्षणसंपूर्णा रत्नवती नाम कन्यास्ति । तां च कश्चिद् राक्षसो हर्तुम् । इच्छति । राबाव् आगत्य नित्यम् एवोपभुङ्क्ते । परं कृताङ्गरक्षपरिवेषां तां हर्तुं न शक्नोति । सा च तत्सुरतसमये राक्षससांनिध्यजाम् अवस्थां कम्पज्वरादिभिर् अनुभवति । एवम् अतिक्रामति 6 काले राक्षसो गृहकोणे स्थितो राजदुहितुर् आत्मानम अदर्शयत् । ततः सा सखीम उवाच । सखि । पश्य । विकालसमये राक्षसो ऽयं नित्यम एवागत्य मां कदर्थयति । तद् अस्ति किंचिद् अस्य . दुरात्मनः प्रतिषेधविधानम् । तच् छ्रुत्वा राक्षसो व्यचिन्तयत् । नूनं यथाहम । तथान्यः कश्चिद् विकालनामास्या हरणाय नित्यम् एवागच्छति । परं सो ऽपि हर्तुं न शक्नोति । तत् तावद् 13 अहम अश्वरूपं कृत्वाश्वमध्यस्थो निरीक्षे । किंरूपः किंप्रभावश च सः । इति।
तथानुष्ठिते निशीथसमये राज्ञो गृहे कश्चिद् अश्वापहारकः 15 प्रविष्टः । स च सर्वान अश्वान अवलोक्य तं राक्षसाश्वं शुभतरं दृष्ट्वा खलीनं तन्मुखे निधाय समारूढः । एतस्मिन अन्तरे राक्षसश चिन्तयाम आस । नूनं स एष विकालनामा मां दुष्टं 18 मत्वा कोपान निहन्नुम अभ्यागतः । तत् किं करोमि । एवं चिन्तयन सो ऽश्वापहारकेण कशाघातेन ताडितः । अथ भयत्रस्तमनाः प्रधावितुम आरब्धः। चौरो ऽपि दूरं गत्वा खलीना- 21 कर्षणेन तं स्थिरीकर्तुम आरेभे । तद् यदि वाजी भवति । तदा १खलीनं गणयति । स तु केवलं *वेगाद् वेगं गच्छति । अथ तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org