________________
Book v. THE FRUITS OF RASHNESS3B
266
Tale ii: Four treasure.seelters.
भवान् किम् एवं शिरसि भ्रमता चक्रेण तिष्ठति । तत् कथय मे। यदि कुत्रचित् पानीयम् अस्ति । यतस् तृष्णातॊ ऽस्मि । इति ।
एवं तस्य वदतस तच चक्रं तत्क्षणाद् एव तन्मस्तकाटु ब्रा- 3 ह्मणशिरसि समारोह । सो ऽब्रवीत् । भद्र । किम एतत् । स आह । ममापीत्यम् एवैतच् छिरस्य् आरूढम् । स आह । तत् कथय । कदैन द् अवतरिष्यति । महती मे वेदना । स आह । यदा । त्वम् इव कश्चिद् धृतसिद्धवर्तिहस्तः समागत्यैवम आलापयिष्यति। तदा तस्य मस्त के समारोक्ष्यति । सो ऽब्रवीत् । कियान कालस तवैवं स्थितस्य । सो ऽब्रवीत् । सांप्रतं को राजा धरणीतले। चक्रधर आह । वीणावत्सराजः । पुरुष आह । रामो राजा यदासीत् । तदाहं दारिद्र्योपहतः सिद्धवर्तिम् आदाय त्वम् इव समागमम् । ततो मयान्यः पुमान् धृतचक्रमस्तको दृष्टः पृष्टश च । 12 ततस तवेव पृच्छत एव ममापि शिरसि तन्मस्तकाच् चक्रम आरुरोह। परं कालसंख्यां न वेनि। चक्रधरः प्राह । भद्र । कथम । तर्हि । तवैवं स्थितस्य भोजनप्राप्तिर् आसीत् । पुरुष आह । भद्र । 15 धनदेन निधानहरणभयात् सिद्धानाम् एतद् भयं दर्शितम् । येन कश्चिद् अपि नागच्छति । अथ कथम् अपि कश्चिद् आयाति । स क्षुत्पिपासारहितो जरामरणवर्जितः केवलम् इत्यं वेदनाम 18 अनुभवति । तद् इदानीम् आज्ञापय माम् । मोचितो ऽस्मि त्वया *पुष्टाद् अनर्थात् । तत् सांप्रतं स्वस्थानं यास्यामि । इत्य् उक्त्वा गतः।
अथ तस्मिन गते । कथं मे सहचरश चिरयति । इति तदन्वेषणपरम तत्पदपङ्कचनुसारेण स स्वर्णसिद्धः प्रस्थितो यावत् किंचिन्मार्गान्तरं गच्छति । तावत् स रुधिरप्लावितशरीरं तीक्ष्ण- 24
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org