________________
OR, THE APE AND THE CROCODILE. Book IV. Tale i: Frog's revenge overleaps itself.
अथान्यस्मिन्न् अहनि तेन मण्डूकान् भक्षयता गङ्गदत्तसुतः सुनदत्तो नाम मण्डूको भक्षितः । तं दृष्ट्वा गङ्गदत्तः सुतारस्वरेण विललाप । ततः स्वपल्याभिहितम् ।
Jain Education International
235
किं क्रन्दसि निराक्रन्द ' स्वपक्षक्षयकारक ।
9
1
स्वपक्षस्य क्षये जाते । परित्रां कः करिष्यति ॥ २७ ॥ तद् अद्यापि चिन्त्यताम् आत्मनो निष्क्रमणम् ' अस्य वधोपायो ' वा । अथ गच्छता कालेन समस्ता अपि निःशेषितास् ते मण्डूकाः । केवलं गङ्गदत्तस् तिष्ठति । ततश च प्रियदर्शनेनोक्तम् । भद्र गङ्गदत्त ' बुभुक्षितो ऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां किंचिद् भोजनं मे यतो ऽहं त्वयानीतः । स आह । भो मित्र । न त्वयात्र विषये मयि विद्यमाने चिन्ता कार्या । तद् यदि मां प्रेषयसि तद् अन्येषाम् अपि कूपानां विश्वास्य सर्वान् मण्डूकान् अचानयामि । सो ऽब्रवीत् । मम तावत् त्वम् अभक्ष्यो भ्रातृस्थाने । तद् यद्य् एवं करोषि ' तत् सांप्रतं पितृस्थाने भवसि । तद् एवं कृतोपायचित्तस् तस्मात् कूपान् निष्क्रान्तः । प्रियदर्शनो ऽपि तदागमनकाङ्क्षया तत्रस्थः * प्रतीक्षमाणस् तिष्ठति । अथ चिरात् प्रियदर्शनस् तस्मिन्न् एव कूपे ऽन्यकोटरवासिनीं गोधाम् उवाच । भद्रे । क्रियतां मे स्तोकं साहाय्यम् । यतश् चिरपरिचितस् ते गङ्गदत्तः । तद् गत्वा तत्सकाशं कुत्रचिज् जलाशये मम संदेशं कथय ' यद् आगम्यतां द्रुततरम् एकाकिनापि भवता । यद्य् अन्ये मण्डूका नागच्छन्ति । नाहं त्वया विनात्र वस्तुं शक्नोमि । तथाहं यदि त्वां प्रति विरुद्धम् आचरामि । तन् मदीयं जन्मसुकृतं तव । इति । गोधा च तस्य वचनाद् द्रुततरम् अन्विष्य गङ्गदत्तम् आह । भद्र' तव सुहृत् प्रियदर्शनस् तव मार्ग * समीक्षमाणस् तिष्ठति | ::
For Private & Personal Use Only
3
12
15
18
21
www.jainelibrary.org