SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 232 Book IV. THE LOSS OF ONE'S GETTINGS ; Talel: Frog's revenge overleaps itself. प्रियदर्शन । एहि । इति । तच् छ्रुत्वा सर्पश चिन्तयाम आस । य एष माम आइयति । स स्वजातीयो न भवति । नैषा च सर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति । तद् अत्रैव स्थितस् तावद् वेद्मि । को ऽयं भविष्यति । उक्तं च । यतः। यस्य न ज्ञायते शीलं । न कुलं न पराक्रमः । न तेन संगतिं कुर्याद् । इत्य् उवाच बृहस्पतिः ॥१७॥ कदाचिन को ऽपि मन्त्रवाद्य ओषधिचतुरो वा माम् आहृय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम अनुस्मृत्य कस्यचित् । पाक्षिकस्यार्थ आहयति । आह च । को भवान । स आह । अहं गङ्गदत्तो नाम मराडूकाधिपतिस् त्वत्सकाशं मैयर्थम अभ्यागतः । तच् छ्रुत्वा सर्प आह । भोः । अश्रद्धेयम् एतत् । 12 तृणानां वहिना सह प्रेमबन्धः । उक्तं च । यो यस्य जायते वध्यः । स स्वप्ने ऽपि कथंचन । न तत्समीपम अभ्येति । तत् किम एतत् प्रजल्पसि ॥१॥ 15 गङ्गादत्त आह । भोः । सत्यम् इदम् । स्वभाववैरी भवान अस्माकम् । परं परिभवाद् अहं त्वत्सकाशं प्राप्तः । उक्तं च । यतः। सर्वस्वनाशे संजाते । प्राणानाम् अपि संशये । 15 अपि शत्रु प्रणम्योच्चै । रक्षेत प्राणान धनानि च ॥१९॥ सर्प आह । अथ कस्मात् ते परिभवः । स आह । दायादेभ्यः । सर्पो ऽब्रवीत् । तत् क्व त आश्रयः । इदे । कूपे । वायाम् । तडागे 21 वा । स आह । कूपे ममाश्रयः । सर्प आह । तन नास्ति तच मे प्रवेशः । प्रविष्टस्य स्थानं नास्ति । यष स्थितस तव दायादान व्यापादयामि । तद् गम्यताम् । इति । उक्तं च । 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy