SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ____Book III. THE WAR OF THE CROWS AND THE OWLs. 206 Tale ix : old man, young wike, and thief. Frame-story. Tale x : ogre, thief, and Brahman. तावत् नगृहे चौरः प्रविष्टः । सापि तं चौरं दृष्ट्वा भयव्याकुलिता वृद्धम अपि तं पतिं समालिलिङ्ग । सो ऽपि विस्मयात पुलकाकितसर्वगावश चिन्तयाम आस । अहो । किम एषा माम: अद्यावगूहते । यावन निपुणतया पश्यति । तावद् गृहकोणैकदेशे चौरं दृष्ट्वा व्यचिन्तयत् । नूनम् एषास्य भयान *माम् आलिगति । इति ज्ञात्वा तं चौरम आह । या ममोहिजते नित्यं । सा *माम अद्यावगूहते । इति । तच छत्वा चौरो ऽप्य् आह । हर्तव्यं ते न पश्यामि । इति ॥ ___तस्माच् चौरस्याप्य उपकारिणः श्रेयश चिन्यते । किं पुनर् न शरणागतस्य । अपि । च । अयं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय वा । इति । अनेन कारणेनायम् अवध्यः । इति । एतद् आकरिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र । सांप्रतम् एवं स्थिते किं 12 कर्तव्यम् । सो ऽब्रवीत् । देव । अवध्यो ऽयम् । यतः। शत्रवो ऽपि हिताव । विवदन्तः परस्परम। चौरेण जीवितं दत्तं । राक्षसेन तु गोयुगम् ॥१७०॥ अरिमर्दनः प्राह । कथम् एतत् । वक्रनासः कथयति । ॥ कथा १०॥ अस्ति कस्मिंश्चिद् अधिष्ठाने दरिद्री ब्राह्मणः प्रतियहधनः सततं 18 विशिष्टवस्त्रानुलेपनगन्धमाल्यालंकारताबूलादिभोगपरिवर्जितः प्ररूढ केशश्मश्रुनखरोमोपचितः शीतोष्णवर्षादिभिः परिशोषितशरीरः। तस्य च केनाप्य अनुकम्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन । च बालत्वाद् आरभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच च दृष्ट्वा सहसैव कश्चिच् चौरश चिन्तितवान् । अहम अस्य ब्राह्मणस्य गोयुगम इदम अपहरिष्यामि । इति निश्चित्य 24 Jáin Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy