________________
201
THE WAR OF THE CROWS AND THE OWLS. Book III.
Tale viii: Self-sacrificing dove.
नैव कश्चित् सुहृत् तस्य । न संबन्धी न बान्धवः ।
स तैः सर्वैः परित्यक्तम । तेन रौद्रेण कर्मणा ॥१२२॥ अथवा।
ये नृशंसा दुरात्मानः । प्राणिनां प्राणनाशकाः । उद्देजनीया भूतानां । व्याला इव भवन्ति ते ॥१२३॥ स पञ्जरकम आदाय । पाशं च लगुडं तथा। नित्यम् एव वनं गछेत् । सर्वप्राणिविहिंसकः ॥१२४॥ अथ कृष्णा दिशः सर्वा । वनस्थस्याभवन धनैः । वातवृष्टिश च महती । क्षयकाल इवाभवत् ॥१२५॥ ततः संबस्तहृदयः । कम्पमानो मुहुर् मुहुः । अन्वेषयन परिचाणम् । आससाद वनस्पतिम् ॥१२६॥ यावद् आस्ते मुहूतेकं । वियद् विमलतारकम् ।
12 स तु प्राप्यावदद् बुद्ध्या । देवता शरणं मम ॥१२७॥ अथ तस्य तरोः स्कन्धे । कपोतः सुषिरोषितः। भार्याम् अपश्यन मुचिराद् । विललाप सुदुःखितः ॥१२॥ 15 वातवर्षो महान आसीन । न चागच्छति मे प्रिया। तया विरहितं ह्य् एतच् । छून्यम् अद्य गृहं मम ॥१२९॥ न गृहं गृहम इत्य् आहुर् । गृहिणी गृहम उच्यते । गृहं च गृहिणीहीनम् । अरण्यसदृशं मम ॥१३०॥ पतिव्रता पतिप्राणा । पत्युः प्रियहिते रता। यस्य स्याद् ईदृशी भार्या । धन्यः स पुरुषो भुवि ॥१३१॥ पञ्जरस्था ततः श्रुत्वा । भर्तुर् दुःखान्वितं वचः । कपोतिका सुसंतुष्टा । वाक्यं चेदम अथाह च ॥१३२॥
DI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org