________________
150
Book II. THE WINNING OF FRIENDS%3B
Tale v: Mr. What-fate-ordains.
प्राप्तव्यम् अर्थ लभते मनुष्यः । इति श्रुत्वा तया चिन्तितम् । यत् कार्यम असमीक्षितं क्रियते । तस्येदृक्फलपाको भवति ।
एवं विमृश्य सविषादया तया निर्भर्त्य निःसारितो ऽसौ यावद् वीथीमार्गेण गच्छति । तावद् अन्यविषयवासी वरकीर्तिनामवरो महता वाद्यशब्देनागच्छति । प्राप्तव्यमर्थो ऽपि तैः । सह गन्तुम आरब्धः। अथ यावत् प्रत्यासन्ने लग्नसमये राजमा
सन्नश्रेष्ठिगृहवारि रचितमण्डपवेदिकायां कृत कौनुकमङ्गलवेषा वणिक्कन्या तिष्ठति । तावन मदमतो हस्त्य् आरोहकं हत्वा प्रणश्य , जनकोलाहलेन लोकम् आकुलयंस तम एवोद्देशं संप्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः । अथास्मिन्न अवसरे भयतरललोचनाम एकाकिनी कन्याम अवलोक्य । 12 मा भैषीः । अहं ते परित्राता । इति सुधीरं स्थिरीकृत्य दक्षिणपाणी संगृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यैर् हस्तिनं निर्भर्त्सतवान् । कथम् अपि दैववशद् अपयाति हस्तिनि 15 यावत् समुहबान्धवो वरकीर्तिर् अतिक्रान्ते लग्नसमये समागछति । तावद् वधूर अन्येन हस्ते गृहीता तिष्ठति । तं दृष्ट्वा वरकीर्तिनाभिहितम् । भोः श्वशुर । विरुद्धम् इदं त्वयानुष्ठितम । 15 यन मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता । इति । सो ऽब्रवीत् । भोः । अहम अपि *हस्तिभयपलायितो भवद्भिः सहायातो न जाने । किम इदं वृतम् । इत्य् अभिधाय दुहितरं प्रष्टुम् आरब्धः । वत्से । न 21 त्वया सुन्दरं कृतम्। तत् कथ्यताम् । को ऽयं वृत्तान्तः। साब्रवीत्। अहम एतेन प्राणसंशयाद् रक्षिता । तद् एनं मुक्त्वा मम जीवन्या नान्यः पाणिं *यहीयति । अनेन वार्ताव्यतिकरण रजनी व्युष्टा। 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org