________________
148
Book II. THE WINNING OF FRIENDS ;
Tale v: Mr. What-fate-ordains. इति । अथान्येनापि पृष्टम तथैवाब्रवीत् । एवं यः कश्चित् पृछति । तस्येदम एवोतरं वितरति । एवं च तस्य प्राप्तव्यमर्थम् इति प्रसिद्ध नाम जातम्। ___अथ राजकन्या चन्द्रमती नामाभिनवयौवनरूपसंपन्ना सखीद्वितीयकस्मिन दिवसे नगरं निरीक्षमाणा तिष्ठति। तत्रैव कश्चिद् राजपुत्रो ऽतीव रूपसंपन्नो मनोरमश च तस्याः कथम् अपि 6 दिववशाद् दृष्टिगोचरे गतः । तद्दर्शनसमकालम् एव कुसुमबाणबाणाहतया तया निजसख्य अभिहिता । हले। यथा किलानेन सह समागमो भवति । तथाद्य त्वया यतितव्यम् । एवं श्रुत्वा ? सखी शीघ्रं तत्सकाशं गत्वाब्रवीत् । यद् अहं चन्द्रमत्या वदन्तिकं प्रेषिता । भणितं च त्वां प्रति तया । यन मम त्वदर्शनान मनोभवेन पश्चिमावस्था कृता । तद् यदि शीघ्रं मदन्तिकं न 12 *समेष्यसि । तदा मे मरणम् एव । इति श्रुत्वा तेनाभिहितम। यद्य् अवश्यं मया तत्रागन्तव्यम् । तत् कथय । केनोपायेन प्रवेष्टव्यम् । अथ सख्याभिहितम् । रात्रौ सौधोत्सङ्गावलम्बितया 15 दृढवरत्रया वया तत्रारोढव्यम् । सो ऽब्रवीत् । य एवं निश्चयो भवत्याः । तद् अहम एवं करिष्यामि । इति निश्चित्य सखी चन्द्रमतीसकाशं गता। अथागतायां रजन्यां स राजपुत्रः स्वचेतसा 18 व्यचिन्तयत्।
गुरोः सुतां मिचभार्या । स्वामिसेवकगहिनीम्।
यो गछति पुमाल लोके । तम आहुर् ब्रह्मघातकम् ॥९४॥ 1 अपरं च ।
अयशः प्रायते येन । येन चाधोगतिर् भवेत्।। स्वार्थाच् च पश्यते येन । तत् कर्म न समाचरेत् ॥९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org