________________
113
O, THE LION AND THE BULL. Book I. Tale **VI: Good heart and Bad heart.
Frame-story.
एतद द्रव्यम् । तच छ्रुत्वा सर्वे ते राजपुरुषा विस्मयोत्फुल्लनयना यावद् वितहरणोचितं शास्त्रदृष्ट्या धर्मबुद्धेर् निग्रहं विचारयन्ति । तावद् धर्मबुद्धिना वहिभोज्यद्रव्यैर् आवेष्ट्य तच छमीकोटरं ५ वहिना संदीपितम् । अथ ज्वलति तस्मिन्न् अर्धदग्धशरीरः स्फुटितदष्टिः करुणम् आक्रन्दन पापबुद्धिपिता शमीकोटरान निश्चक्राम। ततश च तैः सर्वैः पृष्टः । भोः । किम इदम । इत्य् छ उक्ते स ' पापवुद्धिविचेष्टितं सर्वम् इदम् । इति कथयाम आस । अथ ते राजपुरुषास तं दुष्टबुद्धिं तस्याम् एव शमीशाखायां प्रविलम्व्य धर्मबुद्धिं प्रशस्य राजप्रसादादिना संतोषयाम आसुः ॥ १
अतो ऽहं ब्रवीमि । धर्मबुद्धिर् अबुद्धिश् च । इति । आख्याते चूाख्यानके पुनः करटको ऽब्रवीत् । धिग मूर्ख । अतिशयपाण्डित्येन त्वया दग्धः स्ववंशः । साधु चेदम उच्यते। लवणजलान्ता नद्यः । स्त्रीभेदान्तानि बन्धहृदयानि ।
12 पिशुनजनान्तं गुह्यं । दुःपुत्रान्तानि च कुलानि ॥३९६॥
ūr अपि च । यस्य तावन मनुष्यस्याप्य एकस्मिन् मुखे जिहाद्वयं भवति । कस तस्य विश्वासम उपैति । उक्तं च ।
द्विजिह्वम् उद्वेगकरं । क्रूरम अत्यन्तनिष्ठुरम् ।
खलस्याहेश च वदनम् । अपकाराय केवलम् ॥३९७॥ तन् ममाप्य अनेन तव चरितेन भयम् उत्पन्नम्। कस्मात् ।
मा गाः खलेषु विश्वासं । ममते पूर्वसंस्तुताः।
चिरकालोपचीणों ऽपि । दशत्य एव भुजंगमः ॥३९८॥ अपि च। चन्दनाद अपि संभूतो। दहत्य एव हुताशनः ।
विशिष्टकुलजातो ऽपि । यः खलः खल एव सः ॥३९॥ अथवा स्वभाव एष खलानाम् । उक्तं च ।
परदोषकथाविचक्षणः
स्वगुणख्यापननित्यतत्परः । स्वयम् एव हि दैवदण्डितः
पिशुनो विश्वविनाशपण्डितः ॥ ४०० ॥ नूनं तस्यास्यपुटे । जिह्वा वज्रोपमा मनुष्यस्य । यस्य परदोषकथने । सद्यो न विशीर्यते शतधा ॥४०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org