________________
श्री हीरसुन्दर' महाकाव्यम् अर्वमत्येति दीक्षां स श्रीहीरविजयान्तिके । 'सत्याकृतिमिवाऽऽदत्त सङ्गमे सुगतिश्रियः ॥१३२॥ युग्मम् ॥
(१) मूर्ख इव । (२) निर्गत्य । (३) पातालावटात् । (४) कथम् ।(५) अन्यगच्छीयान् । (६) गच्छे । (७) आकारणं कुर्वतः । (८) तस्मिन्नवसरे ॥१३१॥
(१) अवगणय्य । विमुच्य । (२) सत्यङ्कारम् । 'संचकार' इति प्रसिद्धः । (३) स्वर्गापवर्गलक्ष्म्याः । (४) सङ्गमकरणे ॥१३२॥ युग्मम् ।
वैधे० । मूर्खवदेकस्मात्कूपानिर्गत्याऽन्यस्मिन्कूपे कथं झम्पामि इति परमतवेषधरान् सूरिपदप्रदानादिपूर्वकमाकारणकारिण उपेक्ष्य स मेघजीमुनि_रविजयसूरीन्द्रपार्वे दीक्षां जग्राह । उत्प्रेक्ष्यते-स्वर्गापवर्गादीनां सत्यङ्कारमिव-संचकार इव ॥१३३-१३४||
उद्योतं शासने तेने विजयं 'दुर्दशां च यत् । इतीवाऽस्य व्यधात्सूरिरुद्योतविजयाभिधाम् ॥१३३॥
(१) वैशद्यम् । (२) जिनशासने (३) कुपाक्षिकाणाम् । (४) इति हेतोः । (५) मेघजीऋषेः ॥१३३॥
शासनस्योद्य(द्यो)तकारित्वात्कुमतविजयकृत्त्वात् उद्योतविजय नाम कृतम् ॥१३५।। पादपीठलुठन्मूर्धा बद्धाञ्जलिरसौ विभुम् । 'श्रीनाभ इव 'नाभेयं स्वम्भुवमबीभजत् ॥१३४॥
(१) पदासनमिलन्मौलिः । (२) रचितकरसम्पुटो ललाटे । (३) ऋषभदेवगणधरः । (४) वृषभस्वामिनम् । (५) जिनम् ॥१३४॥
असौ- उद्योतविजयमुनिस्तं भजति स्म । यथा श्रीनाभनामा गणधरः श्रीऋषभनाथं भजति स्म ॥१३६॥
'पारीन्द्र इव सूरीन्द्रः प्रणिहत्य संमोद्विपम् । नृणां विश्राणयद्वोधिं मुंक्तापङ्किमिवाऽर्थिनाम् ॥१३५॥
(१) सिंहः । (२) अज्ञानकर( रि )णम् । (३) दत्ते स्म । (४) सम्यक्त्वम् । तत्त्वज्ञानम् । (५) मौक्तिकमालाम् । (६) याचकानाम् ॥१३५॥ ।
श्रीसूरिणामज्ञानहस्तिनं हत्वा बोधिं ददाति स्म । यथा सिंहस्तम इव श्यामं गजं व्यापाद्य याचकानां मौक्तिकानि प्रयच्छति ॥१३७।।
'मह्यां विहरति स्वैरं श्रीमत्सूरिपुरन्दरे ।
'दानवर्षितया भव्यव्रजेनाऽनेकपायितम् ॥१३६॥ 1. युगलम् हील० । 2. इति मेघजीऋषेर्दीक्षामहः । हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org