SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२४ श्री हीरसुन्दर' महाकाव्यम् 'दिव्यविमानविलोकन-वार्ता पुर्नरेत्य 'सत्यवाग्विप्रः । न्यगदनगरजनानां, स्वप्नविदां स्वप्नमिव पुरतः ॥१८५॥ (१) देवतासम्बन्धिविमानदर्शनस्य वृत्तान्तम् । (२) समागत्य । (३) सूनृतभाषी । (४) ब्राह्मणः । (५) समस्तमनुष्याना( णा )मग्रे । (६) कथयति स्म । (७) स्वप्नज्ञानां पुरो यथा स्वप्नं निवेद्यते ॥१८५॥ तस्यामेव 'त्रियामायां, स 'माकन्दो वसन्तवत् । पूर्व मञ्जरितोऽनल्पैः, फलैः सम्पूरितस्ततः ॥१८६॥ (१) सूरिनिर्वाणसम्बन्धिन्यामेव । (२) रात्रौ । (३) संस्कारस्थानस्थसहकारतरुः । (४) पूर्वं मञ्जरीयुतोऽभूत् । (५) पश्चात् । (६) फलपटलैः । (७) पूर्णीभूतः ॥१८६॥ 'चित्रीयमाणैश्चित्तान्त-र्यात्रायामिव यात्रिकैः । समाजग्मे समं तत्र, नागरैर्नागरीसखैः ॥१८७॥ (१) आश्चर्यं प्राप्नुवद्भिः । (२) मनोमध्ये । (३) यात्राकारकैः । (४) समागतम् । (५) एककालम् । (६) सूरिशरीरसंस्कारस्थानसहकारे । (७) नागरलौकैः । (८) स्त्रीसहितैः ॥१८७॥ शेषा इव त्रिभुवनाधिपतेः प्रमोदा-ल्लोकाः सहैव. जगृहुः सहकारिकास्ताः । प्रस्थापयन्पुनरंकब्बरपातिसाहे-रद्वैतविस्मयकरीसैंपदा इवैताः ॥१८८॥ (१) शीर्षाः । 'सेस' इति प्रसिद्धाः । (२) परमेश्वरस्य । (३) हर्षात् । (४) समकालं समेत्य । (५) गृह्णन्ति स्म । (६) करीरिकाः 'कइरी' इति नाम्ना प्रसिद्धाः । (७) प्रेषयामासुः । (८) पातिसाहेः । (९) असाधारणाश्चर्यकारिकाः । (१०) प्राभृतानि । (११) सहकारिकाः ॥१८८॥ 'लाडकीति प्रिया यस्य, 'मूर्ती श्रीरिव वेश्मनि । स्वर्गवी किमसौ स्वर्गा-झूमण्डलमुंपागता ॥१८९॥ स द्वीपबन्दिर श्रेष्ठी, मेघनामा परीक्षकः । "आर्षभिर्वृषभस्येव, सूरेः स्तूपमकारयत् ॥१९०॥ युग्मम् ॥ (१) लाडकीनाम्ना । (२) पत्नी । (३) शरीरवती । (४) गेहे । (५) कामधेनुः । (६) स्वर्लोकात् । (७) भूमौ । (८) समेता ॥१८९॥ (१) द्वीपनगरस्य श्रेष्ठी । (२) मेघ इति नाम यस्य । (३) पारिखः । (४) भरतः । (५) ऋषभदेवस्य । 'भ्रातृशतप्रतिमामात्मप्रतिमां च स्तूपशतं च मा कश्चिदाक्रमणं करिष्यतीति तत्रैकं भगवतः स्तूपं शेषाणि एकोनशतभ्रातृणाम्', इति हारिभद्रयां मलयगिर्यां चावश्यकवृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy