________________
२६६
श्री हीरसुन्दर' महाकाव्यम् 'विमुच्य मृडमंद्रिजापरिभवेन सापत्न्यतः,
किमम्बरतरङ्गिणी 'विदधतीं 'विरक्तेस्तपः ॥५२॥ 'मलीमसजनाप्लवैर्निजमपावनीभावुकं,
पवित्रय( यि )तुमीयुषी किमथवाऽत्र शत्रुञ्जये । "मुरारिमथनोदितस्वतनुजादिविश्लेषजा
सुखाँदुत सुधाम्बुधिः किमु तनोति तीर्थे 'तपः ॥५३॥ युग्मम् ॥ (१) प्रसरत्किरणैस्तरङ्गयुक्तां जाताम् । (२) स्फटिकरत्ननिर्मितसोपानमालाम् । (३) सूरिः । (४) पश्यति स्म । (५) प्राकारस्य प्रतोल्या मध्ये ।(६) सन्त्यज्य । (७) ईश्वरम् । (८) पार्वतीपराभवतः । (९) सपत्नीत्वात् । (१०) स्वर्गगङ्गाम् । (११) कुर्वाणाम् । (१२) वैराग्यात् ॥५२॥
(१) अन्त्यजादिमलिनजनस्नाननिर्माणैः । (२) आत्मानम् । (३) अपवित्रीभवनशीलम् । (४) पवित्रं कर्तुम् ।(५) आगता ।(६)अथवेत्यर्थान्तरम् ।(७) कृष्णेन यन्मथनं तस्मात्प्रकटीभूतो यः पुत्रचन्द्रादिवियोगस्तज्जातं यदसुखं-दुःखं ततः।(८) अथवा । (९) क्षीरसमुद्रः ।(१०) तीर्थेशत्रुञ्जये । (११) तपः कुरुते । अयमप्यपरोऽर्थः ॥५३॥ सं हीरविजयप्रभुंर्वरणगोपुरं प्राविशत्,
प्रवेशनमिवर्षभध्वजजिनावनीवज्रिणः । सुराम्बुधिवधूप्लवेऽम्बुजपरागपिङ्गीभव
त्सितच्छद इव व्यभासत ततोऽस्य सोपानके ॥५४॥ (१) विख्यातो हीरविजयसूरिः । (२) मध्यप्राकारप्रतोल्याम् । (३) प्रविशति स्म । (४) सिंहद्वारमिव । (५) ऋषभजिनराजस्य । (६) गङ्गाप्रवाहे । (७) स्वभावेन कमलानि पीतान्येव वर्ण्यन्ते । वर्णभेदात्तु वर्णानामुच्चारपूर्वम् । यथा- रक्तपद्मानि कोकनदानि श्वेतानि कुमुदानीत्यादि । ततः कमलपौष्पपिङ्गीभूतराजहंस इव सूरिः । (८) शुशुभे । (९) प्राकारस्य । (१०) सोपानकेषु ॥५४॥ 'चतुष्कमधिरोहणान्वयविहारयोरन्तरा,
व्यलोकत 'समाजवत्सुकृतभूमिभर्तुः प्रभुः । पुर्नर्मणिहिरण्मयं जिननिकेतनं तत्पुरः,
___ "सुधाशवसुधाधरोल्लसितचूलिकाचैत्यवत् ॥५५॥ (१) चतुष्कमङ्गलभूमिम् । (२) सोपानात्सोपानमारुह्येत्यर्थः । अत्र क्यप्लोपे पञ्चमी वाच्या । (३) प्राकारप्रासादयोर्मध्यसभेव । (४) पुण्यराजस्य । (५) रत्नस्वर्णनिर्मितम् । (६) ऋषभदेवमूलप्रासादम् । (७) सुधाशा देवास्तेषां वसुधाधरो-गिरिर्मेरुस्तस्योल्लसितायां रम्यायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org