SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१७ चतुर्दशः सर्गः (१) लक्ष्मीभाग्गुर्जरमण्डलाधिपवीरधवलभूपः । (२) आत्मना । (३) श्रीकरणनामानं पदवीमधिकारविशेष मन्त्रिमुख्यत्वम् । (४) तथा श्रीहीरविजयसूरीन्द्रः । (५) महामहे । (६) तस्मिन्प्रतिष्ठा समये । (७) उपाध्यायपदलक्ष्मीम् । (८) प्रापयति स्म । (९) शान्तिचन्द्रपण्डितम् ॥२४४॥ दुर्जनमल्लो दुर्जन-मल्ल इव गुणैर्महीपतेर्मान्यः । समहं प्रत्यष्ठापय-दर्हत्प्रतिमां मुनीन्द्रेण ॥२४५॥ (१) दुर्जनानां निर्जयकारकत्वात् मल्ल इव प्रतिपक्षः । (२) मणिपरीक्षकादिगुणैः । (३) साहेान्यः । (४) सोत्सवम् । (५) प्रतिष्ठां कारयति स्म ॥२४५॥ समहं मथुरापुर्यां, यात्रां पार्श्वसुपार्श्वयोः । प्रभुः परीतः पौरौघै-चोरणर्षिरिवाऽकरोत् ॥२४६॥ (१) मथुरानगर्याम् । (२) सूरिः । (३) नागरलोकैः । (४) अनुगतः । (५) यथा चारणमुनिः ॥२४६॥ 'जम्बूप्रभवमुख्यानां, मुनीनामिह स प्रभुः । ससप्तविंशतिं पञ्च-शतीं स्तूपान्प्रणेमिवान् ॥२४७॥ (१) जम्बूस्वामि-प्रभवस्वामिप्रमुखाणाम् । (२) सप्तविंशत्यधिकपञ्चशतसाधूनाम् ॥२४७॥ गोपालशैलेऽथ सुपर्वसद्मा-वष्टम्भनस्तम्भ इवोऽभ्युपेत्य । 'समं जनौधैर्जिनसार्वभौम', ककुद्मकेतुं नतवायतीन्द्रः ॥२४८॥ (१) ग्वालेरनामदुर्गे(र्गे)। (२) स्वर्गस्याऽवष्टम्भनकृतेऽधःस्तम्भे । (३) सङ्घलोकैः । (४) सार्द्धम् । (५) समागत्य । (६) ऋषभजिनचक्रिणम् ॥२४८॥ द्वापञ्चाशद्गजमित-वृषभप्रतिमां स सिद्धशैल इव । प्रभुरंपरा अपि तस्मिन्, मूर्ती नीरनंसीत्सः ॥२४९॥ (१) द्विपञ्चाशद्गजप्रमाणां ऋषभप्रतिमाम् । (२) शत्रुञ्जय इव । (३) अन्याश्च चत्वारिंशद्गजादिप्रमाणाः । (४) भगवत्प्रतिमाः । (५) नमति स्म ॥२४९॥ यात्रां कृत्वाऽत्र सुत्रासा(मा), यथा नन्दीश्वरे 'दिवम् । प्रभुर्विभूषयामास, पुनरप्याँगरापुरम् ॥२५०॥ (१) गोपालगिरौ यात्रां विधाय । (२) शक्रः । (३) अष्टमद्वीपे । (४) स्वर्गम् । (५) सूरिः । (६) अलञ्चकार । (७) उग्रसेननगरम् ॥२५०॥ 1. प्रतिमा मुनी० हीमु० । 2. व्रती० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy