SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ तं गुणैरप्रतीकाशं त्वद्गुणश्रीः श्रयिष्यति । वल्ली . विवर्धमानेव स्मयमानमहीरुहम् ॥१५॥ ( १ ) असाधारणम् । (२) श्रीमद्रच्छलक्ष्मीः । (३) वृद्धि प्राप्नुवन्ती । ( ४ ) विकचवृक्षम् श्री' हीरसुन्दर' महाकाव्यम् गुणैर्निरुपमं तं गणश्रीं श्रयिष्यति । यथा लता वृक्षं श्रयति ॥१५॥ पट्टधुर्येऽङ्गजे राज्ञा युवराज इवर्जिते । त्वयाऽस्मिन्निर्मिते 'काऽपि भाविनी 'शासनोन्नतिः ॥ १६ ॥ (१) भारधुरीणे । (२) पुत्रे । ( ३ ) प्रबलबले । ( ४ ) जयविमलप्रज्ञांशे । (५) कृते । (६) शासनप्रभावना । (७) काऽप्यद्भुतवैभवा । जगदाश्चर्यकारिणी ॥ १६ ॥ पट्ट० । यथा राज्ञा स्वपुत्रे पट्टे स्थापिते शोभा स्यात्तथा त्वयाऽस्मिन्स्वपट्टे स्थापितेऽपूर्वा शोभा भाविनी ||१६|| विक्रमार्क इव श्रीमत्सिद्धसेनदिवाकरात् । 'त्वत्तस्तदनु 'कोऽप्युवब्रध्नो 'बोधिमवाप्स्यति ॥१७॥ (१) विक्रमादित्यः । ( २ ) श्रीमत्सकाशात् । ( ३ ) तस्य पट्टस्थापनानन्तरम् । ( ४ ) कश्चित् । (५) राज ( जा ) । (६) प्रतिबोधम् । (७) लप्स्यते ॥ १७ ॥ तस्मिन्पट्टे स्थापिते सति त्वत्तः कोऽपि प (पा) तिसाहिबधिबीजं प्राप्स्यति ||१७|| 'समाकर्ण्य सुरीवर्ण्यमानं तं पिप्रिये प्रभुः । रथाङ्गवन्निशावेदिगदिताभ्युदयं रविम् ॥१८॥ (१) श्रुत्वा । (२) प्रीतिं प्राप्नोति स्म । ( ३ ) सूरिः । (४) चक्रवाकः । (५) कुर्कुटकथितोद्गमम् ॥१८॥ 'इत्येतत तेनाऽन्तर्भाग्यसौभाग्यभूसा । 'प्रणुन्नयेव पुण्यैर्यं त्रिदश्याऽपि प्रशस्यते ॥१९॥ ( १ ) इति वक्ष्यमाणम् । ( २ ) विचारितम् । ) सूरिणा । ( ४ ) चित्ते । (५) भाग्यंपुण्यं, सौभाग्यं - सुभगता जनवल्लभत्वं लोके ख्यातिर्वा तयोरास्पदम् । (६) जयविमलः । (७) प्रेरितया । (८) यस्मात्कारणात् । (९ ) त्रिदश्या - देव्या ॥ १९ ॥ असौ भाग्यवान् यतः पुण्यप्रेरितया देव्याऽपि श्लाघ्यते ॥१९॥ मेरुरिव भात्येषा जिनपट्टपरम्परा । समुद्भवन्ति येनोऽस्यां सूरीन्द्राः स्वद्रुमा इव ॥२०॥ 1. देव्या पट्टधुरंधरकथनम् ||हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy