SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः २९ शिखरस्थसिंहैः कृत्वा शत्रुभिरनाकलनीयस्य । गजयानस्य हि सिंहाश्रितमार्गे दुष्करम् । कृशानौ तु सर्वदाप्यशक्यम् ॥११८-११९।। हीसुं० चन्द्रोदये 'चन्दिरकान्तगर्भसन्दर्भशृङ्गस्रवदम्बुपूरैः । शिर:स्फुरत्सिद्धधुनी ३धरेन्द्रो यत्रानुचक्रे कलधौतसौधैः ॥१११।। (१) चन्द्रकान्तमणीनामन्तराले रचना येषां तथाविधानि शिखराणि तेभ्यो गलज्जलस्रवैः। चन्दिर इति शेषनाममालायां चन्द्राभिधानं माकन्दवत्प्रसिद्धम् । (२) मूर्द्धनि वहन्ती गङ्गा यस्य । (३) तादृक्षहिमाद्रिः । (४) रजतगृहैः ॥१११।। हील० चन्द्रो० । यत्र पुरे चन्द्रोदये जाते रूप्यमन्दिरैः, शिरसि स्फुरन्ती गङ्गा यस्य तादृशो हिमाचलः सदृशीकृतः । किंभूतैः कलधौतसौधैः ?। चन्द्रकान्तानां गर्भे मध्ये सन्दर्भो रचना येषाम् । तादृशेभ्यः शृङ्गेभ्यो निस्सरन्तः स्रवन्तोऽम्बुपूराः पयःप्रवाहा येषु तैः । चन्दिर इति चन्द्रः शेषनाममालायाम् ॥११०॥ हीसुं० 'वातातिवेल्लद्ध्वजयल्लवाग्रकरण रावेण च किङ्कणीनां । या वैभवस्पर्द्धितया मघोनः 'पुरीं स्मयादा ह्वयतीव योद्धम् ॥११२॥ (१) पवनेनाधिकं कम्पमानकेतुवसनप्रान्तपाणिना । (२) अमरावतीम् । (३) गर्वात् । (४) आकारयति ॥११२॥ हील० वाता० । या पुरी इन्द्रपुरीं । स्मयादहङ्काराद्यो सङ्ग्रामं कर्तुं आकारयतीव । केन ? । वायुनातिशयेन वेल्लन्तश्चञ्चलीभवन्तो ये ध्वजपल्लवाः पताकावस्त्राणि तेषामग्रं स एव करो हस्तस्तेन । पुनः क्षुद्रघण्टिकानां शब्देन ॥१११॥ हीसुं० श्रीवत्सरामाङ्गजकम्बुतार्थ्यचक्राङ्कितैरिकतैनिकेतैः । जज्ञे "मुकुन्दैरिव यत्र चित्रमेतत्परं 'धेनुकमद्विषद्भिः ॥११३॥ (१) लक्ष्मी-तर्णक-वनिता-पुत्र-शङ्खा-ऽश्वसमूहकलितैः, हृदयलक्षण-बलभद्र-कन्दर्पपाञ्चजन्यशङ्ख - गरुड - सुदर्शनचक्रयुतैः । (२) मरकतरत्नसम्बन्धिभिः (३) गृहैः । 'शङ्के स्वसंकेतनिकेतमाप्ताः' इति नैषधे । (४) कृष्णैः । (५) दैत्यं धेनुसमूहं च ॥११३॥ हील० श्रीव० । मरकतरत्नघटितगृहै: कृष्णैरिव जातम् । बहुवासुदेवापेक्षया बहुत्वम् । किंभूतैः गृहै: कृष्णैश्च ?। श्रीलक्ष्मीर्वत्सास्तर्णकाः श्रीवत्सो हृदयचिह्नम् । रामाः स्त्रियः, अङ्गजा नन्दना रामाङ्गजः कामः । कम्बवः शङ्खाः पाञ्चजन्यश्च । ताा अश्वा गरुडश्च । तेषां चक्राणि समूहाः, चक्र सुदर्शनम् । तैः सहितैः । परमिदमाश्चर्यम् । यद्धेनूनां समूहं गोकुलं पालयद्भिः । स तु धेनुकासुरद्विट् ॥११२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy