SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः २३ जलकणवृष्टयो जायन्ते तानि तमालधारागृहाणि तेषां श्रेणीभिः । (२) ग्रीष्मेण ग्लानिं प्राप्नुवद्वनश्रियाः । (३) शीतलताकृते । (४) कृताभिः ॥८६॥ हील० बभे० । भाद्रपदस्याम्बुधरो मेघस्तद्वदाचरन्तीभिस्तापिच्छतरूणां धाराभिर्यत्रविशेषकृतजलधाराभिरु पलक्षितानां गृहानां(णां) धोरणीभिः रेजे । उत्प्रेक्ष्यते । तपर्तुना ताम्यन्ती ग्लानि गच्छन्ती तनुः शरीरं यस्यास्तादृश्या वनश्रियाः शीतलताकृते । कृताभिराज्जनैस्तया वा ॥८८॥ हीसुं० १श्रीहीरवीक्षोत्सुकिता इवान्तर्नेत्राणि विस्मेरमणीचकानि । धाराकदम्बा दधतेऽत्र सत्रा सान्दापनिद्रत्कुटजावनीजैः ॥८७॥ (१) श्री हीरकुमारं द्रष्टमुत्कंठिताः । (२) ये जलधरधारासारमधिगम्य प्रफुल्लन्ति ते धाराकदम्बाः। (३) सार्धम् । (४) स्निग्धविनिद्रवगिरिमल्लिकातरुभिः “कुडउ" इति प्रसिद्धाः ॥८७।। हील० श्रीहीर० । स्निग्धा विकसन्तो ये कुटजा गिरिमल्लिका एवावनीजास्तैः सत्रा सह धाराभिराहताः कदम्बाः विकचानि मणीचकानि कुसुमानि धारयन्ति । उत्प्रेक्ष्यते । अन्तश्चित्ते श्रीहीरकुमारस्य दर्शने उत्कण्ठिताः सन्तो नेत्राणीव दधते ॥८९॥ हीसुं० 'सप्तच्छदान्स्पद्धितदानगन्धानरोलम्बस्रोलाकुलितान्विलोक्य । "विरोधिकुम्भिभ्रममा दधाना धावन्ति मुग्धा इह सिन्धुरेन्द्राः ॥४८॥ (१) सप्तपर्णान् द्रुमविशेषान् । (२) स्पर्धायुक्तः कृतः गजगण्डस्थलगलन्मदजलपरिमलो यैः । (३) भृङ्गध्वनिभिर्व्याकुलीकृतान् । ( ४ ) प्रतिगजबुद्धिम् । (५) धारयन्तः कुर्वन्तो वा। 'भूयो बभौ दर्पणमादधाना' तद्वृत्तौ बिभ्राणेति कुमारसंभवसप्तमसर्गषड्विशतितमवृत्ते(त्तौ) ॥८८॥ हील० सप्त० । स्पर्द्धाविषयीकृतो मदगन्धो यैस्तादृशान् । 'पुनः भ्रमरगुञ्जितैः सशब्दान् । तादृशान्सप्त पर्णवृक्षान्दृष्ट्वा वैरिकरिभ्रान्ति कुर्वाणा मदोद्धततया मूर्खाः सन्तो यन्निकुञ्जे हस्तिनो धावन्त्यभिमुखं गच्छन्ति ।। ९०॥ हीसुं० शाखाविशेषोन्मिषितप्रसूनान् शार्दूलबालानि[व] लोद्रसालान् । दृष्ट्वा हृदुत्पिञ्जलितैनिकुञ्जे ललङ्घिरे 'तत्ककुभः कुरङ्गैः ।।८९।। (१) शिखाग्रेषु स्मितकुसुमानि । (२) व्याघ्रडिम्भान् । (३) हृदये भृशमाकुलितैः । (४) उल्लविताः । (५) वनदिक्प्रदेशाः । (६) भयात्पलायितैः ॥८९॥ हील. शाखा० । तेषां लोद्रद्रुमाणां दिशो मृगैरुल्लङ्किताः । पलायितैरित्यर्थः । किंभूतैः कुरङ्गैः ?। शाखाग्रेषु विकसितानि पुष्पानि(णि) येषां तादृशान्लोद्रवृक्षान् सिंहशावकान् इव दृष्ट्वा हृदि आकुलितैः ॥११॥ हीसुं० 'पङ्क्तिप्ररुद्वैः प्रचलत्पतङ्गपोतैः प्रियङ्गप्रकरैर्बभेऽस्मिन् । वनश्रियाः प्रावरणैरिवान्त विच्छित्तिमद्भिस्तुहिनद्विषद्भिः ॥९०॥ 1. इति वर्षा हिल० 2. ०बरावकुलि० हीमु० । 3. इति शरत् हील० । 4. इति हेमन्तः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy