SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २२ 'श्री हीरसुन्दर' महाकाव्यम् हील० आमुष्मि० । यत्रोपवने द्रुमा वृक्षास्त एव शरीरं येषां ते । कल्पवृक्षाः समेताः । इवोत्प्रेक्ष्यते । विज्ञप्तिकां कर्तुमिच्छवः । इति किम् ? हे पार्श्वनाथप्रभो ! त्वं नोऽस्मान् । ऐहिकवत् इहलोक सम्बन्धिनीमिव । आमुष्मिकां परलोकसम्बन्धिनी वाञ्छां पूरयितुं समर्थानिर्माहि ॥८४|| हीसुं० १श्री'नन्दनं 'हीरकुमाररूपं यस्यां भविष्यन्त मवेत्य मन्ये । "साहायकायास्य समं "समेत्य सर्वर्त्तवस्तद्विपिनं भजन्ते ॥८३।। (१) कामदेवम् । (२) हीरकुमार एव रूपं यस्य । (३) ज्ञात्वा । (४) साहाय्याय । (५) आगत्य ॥८३॥ हील० श्रीनं० । मदनसदृशं हीरकुमारं यस्यां नगर्यां भाविनं ज्ञात्वाहमेवं मन्येऽस्य मदनस्य साहाय्याय समं समकालं आगत्य षड्ऋतवस्तद्वनं श्रयन्ते ॥८५।। हीसुं० 'यत्रभ्रमद्भङ्गरसालमाला विलोक्य 'कूजत्कलकण्ठबालाः । भरतीशवीरस्तृणवत्रिलोकीम जीगणन्निस्तुलशस्त्रलाभात् ॥८४॥ (१) मकरन्दपानाम( ) ) पर्यटन्तो मधुकरा यत्र तादृशीर्माकन्दमण्डली: । (२) पञ्चमरागं कुर्वन्त्यः पिकाङ्गना यासु । (३) स्मरसुभटः । (४) गणयति स्म । (५) असाधारणा युधलब्धः ॥८४॥ हील० यत्र० । भ्रमन्तो भृङ्गा यस्यां सा चाम्रश्रेणी । विलोक्य । मदनशूरः जगत्त्रयीं तृणमात्रां गणयति स्म । कस्मादमूल्यशस्त्रप्राप्तेः ॥८६॥ हीसुं० चूतप्ररोहायुधकिंशुकार्द्धचन्द्राशुगानां दलवम्मितानाम् । यद्भूरुहां स्वर्दुजयोद्यतानामदुन्दुभीयन्त पिका: क्वणन्तः ५॥८५ (१) माकन्दाङ्करा एव शस्त्राणि तथा किंशुककुसुमान्येवार्द्धचन्द्रनामानो बाणा येषाम् । (२) पत्रैः कृत्वा सन्नाहयुक्तानां कटकैः साकं वा कवचकलितानाम् । (३) कल्पवृक्षाणां विजयार्थं प्रगल्भमानानाम् । (४) दुन्दुभय इवाचरन्ति स्म । (५) पञ्चमस्वरमालपन्तः ॥८५॥ हील. चूत० । सुद्धमाणां जयने प्रगल्भमानानाम् । यस्य वनस्य भूरुहां तरूणाम् । क्वणन्तः कूजन्तः । कोकिलाः । अदुन्दुभीयन्त दुन्दुभय इवाचरन्ति स्म । किंभूताः ?। चूतानामङ्कुरा एवायुधानि येषां ते। तथा पलाशकुसुमान्येवार्द्धचन्द्राकारा बाणा येषां तेषाम् । पुनर्दलैः पत्रैः सन्नाहितानां, कवचयुक्तानाम् ॥८७॥ हीसुं० बभे 'नभस्याम्बुधरायमाणतमालधारागृहधोरणीभिः ।। 'तपत॒ताम्यत्तनुकुञ्जलक्ष्म्याः सुसीमतायै किमनुष्ठिताभिः ॥८६॥ (१) भाद्रपदमेघायमानतमाला एव धारागृहाणि येषु केनापि शिल्पेन स्तोकाः स्तोका 1. अथ ऋतवः हील०। 2 इति वसन्तः हील:०। 3 इति ग्रीष्मः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy