________________
परिशिष्ट-१ “अशेषदेशेषु विशेषितश्री-र्यो मञ्जिमानं वहते स्म देशः । ज्योतिः समुद्यत्परिवेषरेखं मुक्ताकलापेष्विव मध्यरत्नम् ॥२०॥ यत्राभितश्चन्दनपत्रभङ्गि-समुल्सद्गन्धफलीविलासि । शैलद्वयं शेखरचुम्बिजम्बु-क्षितिस्तनद्वन्द्वमिव व्यराजन् ॥२१॥ "यत्रोन्मदिष्णुद्विपदानवारि-सिक्तद्रुमः सानुमदन्ववायः । इयत्तया मातुमिवान्तरिक्ष-मुत्तुङ्गशृङ्गैरवगाहते स्म ॥२२॥ २°क्षताहितोवीधरवाहिनीका: कासालिवालव्यजनोपवीज्याः । माकन्ददम्भादिह सानुमन्तो भूभृत्स्मयाच्छत्रमिवावहन्ते ॥२३॥ २"विद्युन्मणीमण्डलमण्डिताङ्का कादम्बिनीकैतवतः स्वमौलौ । पटीव भिन्ना जनिका विनीला यत्रादिलक्ष्म्या कलयाम्बभूवे ॥२४॥ निरावलम्बाम्बरवीङ्खयासौ श्रान्तः स्थितोऽम्भोद इवादिशृङ्गम् । मरन्दलुभ्यन्मधुपौघघोषा न मेरवो मेचकयाम्बभूवुः ॥२५॥ यत्रोन्नमद्वारिदवर्मिताड़ाः शिखाकरोपात्ततडित्कृपाणाः । स्वशात्रवं गोत्रभिदं निहन्तुं मन्ये व्यवस्यन्ति धराधरेन्द्राः ॥२६॥ २३ श्रान्तातिवाहाद्विगतावलम्बे-ऽम्बरेम्बरद्वीपवती चिरेण । भूमीमिवाभ्येति झरज्झराम्भो-दम्भान्नभस्तो नगवर्त्मनेह ॥२७॥ मन्दारकुन्दागुरुगन्धसार-राजीविराजगिरिराजलक्ष्मीः । यस्मिन्निभेनेव झरज्झराणां मुक्ताकलापं कलयाञ्चकार ॥२८॥ यस्मिन्समाक्रम्य समद्रकाञ्ची-चक्रं झरन्निर्झरवारिधाराम । कुन्देन्दुकादम्बकदम्बकान्तां भूमीभृतः कीर्तिमिवोद्वहन्ति ॥२९॥ प्रचण्डचण्डद्युतिदीप्तिताम्य-त्तनूभिरुर्वीधरधोरणीभिः । यस्मिन्झरनिर्झरवारिधारो-पधेरिव स्वं स्नपयाम्बभूवे ॥३०॥ स्फुरद्विभूतिर्द्विजराज'राजद्-दुग्र्गाङ्क-सुस्वाम्युदयत्प्रमोदः । अहीनभूषो वृषभप्रचारो हिरण्यरेता इव दिद्युते यः ॥३१॥ स्वकन्दरद्वारिविहारिहारि-मृगेन्दमन्द्रध्वनितेन शैलाः । इतीव गर्वात्ककुदं गिरीणां हुङ्काररावं प्रणयन्ति यत्र ॥३२॥ न्यक्षक्षमाभूद्विजयोद्यतस्य सवाहिनीकस्य महीधरस्य । कुत्रापि झात्कारिझरप्रवाहै-र्भाङ्कारिभेरी निनदैरिवासे ॥३३॥ क्वचिद्बभे बन्धुरभिल्लपल्ली किरातधात्रीशकृशोदरीभिः । कौतुहलाद्भूतलमागताभिः खेलायितुं कुण्डलिनीभिरूहे ॥३४॥
1. ०शाली इति टि० । 2. ०तः केलिचलत्कुमारः [?] इति टि० । 3. यो बभासे इति टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org