SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० 'श्री हीरसुन्दर' महाकाव्यम् (१) अङ्गीकृत एक एव बन्धनग्रन्थिर्येन । (२) वरुणेन । (३) स्वस्याङ्कश्चिद्रं मकरो यादोऽपरनामा तस्य स्वामित्वेन । “यादः पतिपाशिमेघनादा' इति हेमचन्द्रवचनात् । (४) स्पर्धी-स्वस्य तस्य च मकरप्रभुत्वे तुल्ये स्पर्धाम् । (५) कर्णौ । (६) दधारः । हील० देव्याः श्रोत्रे भातः । उत्प्रेक्ष्यते । मकरपतित्वेन कृत्वा वरुणेन सह स्पर्द्धया सङ्कल्पयोनिः पाशद्वयं दधार ॥१४२।। 'स्वपृष्ठलग्नागतकेशकायस्वर्भाणुमा लोक्य ३जिनाधिदेव्याः । त्रायस्व नौ 'वक्तुमितीन्दुभानू "श्रुत्योर्वि लग्नाविव कुण्डलाङ्गौ ॥ १३९॥ (१) आत्मनोः सूर्याचन्द्रमसयोः पश्चाद्विलग्न एवागतो यः केशपाश शरीरः स्वर्भाणुः राहुस्तम् । (२) दष्ट्वा । (३) त्रैलोक्यनाथस्याधिष्ठात्री देवी तस्याः (४) अचिन्त्यसामर्थ्यात् हे देवि ! त्वं नौ-आवयोः प्रबलशत्रोः सकाशात् रक्ष-जीवितदानं देहीति । (५) कथयितुम् । (६) चन्द्रसूर्यो । (७) कर्णयोः (८) अन्यावपि वक्तुमिच्छू श्रवणयोर्विल ]गतः ॥१३९॥ हील. शासनाधिष्ठात्र्याः केशरूपं बाहुं दृष्ट्वा नौ आवयोस्त्रायस्वेति वक्तुं चन्द्रभानू कुण्डलरूपेण शरणं श्रितौ ॥१४४॥ हीसुं० श्रिया भ्यभूवन्त मया समग्रा निवद्वयद्वीपमहीमहेलाः । इतीव वक्तुं जगतः स्म धत्ते सुरी स्त्र(श्र)वःसङ्गिनवाङ्कयुग्मम् ॥१४०॥ (१) लक्ष्म्या । (२) पराभूताः । (३) अष्टादशद्वीपानां महीसमुत्पन्नवनिताः । "नवद्वयद्वीपपृथग्जयश्रिया'"मिति नैषधे । (४) श्रवणयुगलसङ्गतनवाङ्कद्वन्द्वम् । “कर्णान्तरुत्कीर्ण गभीरलेखः किं तस्य सङ्ख्यैव नवा नवाङ्क" इति नैषधे ॥१४०॥ हील० मयाष्टादशद्वीपाङ्गनाः अभिभूताः । इति वक्तुं या देवी श्रोत्रयोर्नवसङ्ख्याकद्वयं धत्ते ॥१४३।। हीसुं० नीलोत्पले कर्णयुगे चकासांबभूवतुः 'स्त्रैणमणेः सुराणाम् । 'युयुत्सुनी तन्नव(य)नोत्पलाभ्यामिव प्रतिस्पर्धितया भ्युपेते ॥१४१॥ (१) सुराणां स्त्रीणां समूहे रत्नभूतायाः। (२) योद्भुमिच्छनी । (३) देवीविलोचनकमलाभ्याम् । (४) मिथः स्पर्धनशीलतया । (५) आगते ॥१४१॥ हील० कर्णयुगस्थे नीलोत्पले भातः स्म । उत्प्रेक्ष्यते । तन्नेत्रे एवोत्पले ताभ्यां सह योद्धकामे इवागते ॥१४५॥ हीसुं० १अभ्यस्यतास्या: स्र(श्र)वसी मनोभूधनुर्धरेणेव धृते ३शरव्ये । न चेद्भवेतां कथमन्तरालेऽ'नयो विनीले कमले कलम्बौ ॥१४२।। (१) अभ्यासं कुर्वतः । (२) देवीश्रवणौ । (३) वेध्ये । (४) मध्ये । (५) शरव्ययोः । (६) बाणौ । (७) नीलोत्पलौ( ले)। "कर्णयोः कुण्डले नीलोत्पले च" । नैषधे दमयन्ती शृङ्गाराधिकारे दृश्यते ततोऽत्रापि ॥१४२॥ 1.हीलप्रतौ हीमु० यथासंख्यमेतयोः१३९-१४०तमश्लोकयोरेषोऽनुक्रमः १४४-१४३, १४३-१४२। 2. इतिकर्णान्तर्गतनवा: हील० । 3. इति कुण्डले हील० । 4. इति कर्णयोरुत्पले हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy