________________
२८२
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'मरुन्मृगाक्षीवदनाब्जदन्तैस्तारेशतारैर्विजितैर्विभूत्या ।
४आलोच्यते "तद्विजिगीषयेव सम्भूय तीरेऽम्बरनिर्झरिण्याः ॥१०३॥ (१) देव्याः वदनेन दन्तैश्च । (२) चन्द्रतारकैः । (३) श्रिया । (४) आलोचः क्रियते । (५) वैरिणो विजेतुमिच्छया । (६) एकत्र भूत्वा । (७) तटे । (८) आकाशगङ्गायाः
॥१०३॥ हील० श्रीशासनसुरीदन्तैजितैश्चन्द्रतारैः स्वर्गङ्गातीरे सम्भूयैकत्र मिलित्वा तेषां दन्तानां पराबुभूषया आलोच्यते
मन्त्र्यते । विचार इव विधीयते ॥१०७॥ हीसुं० १अजय्यवीर्यं मुखपद्ममस्या: श्रिया जयन्तं "स्व मवेत्य राज्ञा ।
"सन्धि 'विधातुं प्रहिता: 1१°प्रधान-द्विजाः समं ११तेन १२किमुल्लसन्ति ॥ १०४ ॥ (१) जेतुमशक्यः पराक्रमो यस्य । (२) देव्या वदनकमलम् । (३) लक्ष्म्या । (४) चन्द्रात्मानम्। (५) ज्ञात्वा । (६) चन्द्रेण । (७) परस्परप्रीतिम् (८) कर्तुम् । (९) प्रेषिताः। (१०) प्रकृष्टा मन्त्रिणश्च द्विजा दन्ता ब्राह्मणाश्च । (११) वदनकमलेन सार्द्धम् ।
(१२) किमुत्प्रेक्षायाम् । (१३) भान्ति ॥१०४॥ हील० अज० । द्विजा दन्ताः शोभन्ते । उत्प्रेक्ष्यते । चन्द्रेण मुखपद्येन सह प्रीतिं कर्तुं प्रधानद्विजाः प्रेषिताः
॥*१०८॥ हीसुं० 'पाण्डुः क्षयी रेशून्यनभश्चरिष्णु निरङ्गाहोषितोवि( ऽपि) बिभ्यत् ।
"दोषाकरः पश्याममुखो श्वराकोऽस्माकं पुरस्ताज्ज डकस्त्वमेकः ॥१०५॥ रुप्यद्युतोऽक्षीणसुखा 'मुखस्था 'जिताहिता: "स्फीतगुणा 'विशुद्धाः। "नै केऽभिरुपाः किमितीन्दु मुद्यधुता त्रिदश्याः प्रहसन्ति दन्ताः ॥१०६।।युग्मम्॥ (१) रोगः श्वेतश्च । (२) राजयक्ष्मा क्षीणता च । तद्युतः । (३) निर्मानुषे गगने सञ्चरणशीलः। (४) शिरोऽवशेषादपि वैरिणो राहोर्भयं प्राप्नुवत् । (५) रात्रिरपगुणश्च खनिः । (६) लक्ष्मयुतः कृष्णमुखश्च । (७) रङ्कः । (८) जडस्वरूपो मूर्खश्च ॥१०५॥ (१) रजतवद्दीप्यमानकान्तयः । (२) सर्वाङ्गीणसुखभाजः । (३) सर्वेषामग्रेस्थायुका वक्त्रवासिनश्च । (४) जितवैरिणः । (५) ख्यातगुणाः । (६) नि:कलङ्काः । (७) बहवः । (८) लक्षणयुक्तरूपाः । “अभिर्वीप्सा-लक्षणयो" रित्यनेकार्थः । पण्डिताश्च । (९)
प्रकटीभवत्कान्त्या। (१०) देव्याः ॥१०६॥ हील० दन्ताश्चन्द्रं हसन्ति । यतस्त्वं न भाति इति नभस्तद्वासी, अपगुणानामाकरो निशाकरो वा । पुन:कलङ्की ।
वयं तु मुखे सर्वेषामप्यग्रे वक्त्रे च तिष्ठन्ति, तादृशाः । पुनर्जितशत्रवः । द्वात्रिंशत्प्रमाणत्वेनानेके ।
पुनरभिरूपाः पण्डिताः । अतो हे जड ! त्वं क: ? ॥१०९-११०॥ 1. प्रधानाः द्विजा० हीमु० 1 2. हंसधुतो० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org