________________
२५६
'श्री हीरसुन्दर' महाकाव्यम् वल्ली मौक्तिकहारवन्म रकतश्रेणीशशाङ्काश्मव - 'लक्ष्मी काञ्चिदमी० दधुः ११सितरुचौ चन्द्रातपं १२चिन्वति ॥१०॥ (१) पद्मबन्धुः सूर्यस्तस्य पुत्री यमुना । (२) ऐरावणः । (३) नीलकमलम् । (४) श्वेतकमलवत् । (५) हंस इव । (६) काकः । (७) नीलरत्नमाला । (८) चन्द्रकान्त इव । (९) शोभाम् । (१०) पूर्वोक्ता गङ्गाप्रभृतयष्प( : प )दार्थाः । (११) चन्द्रे । (१२)
विस्तारयति सति ॥१०॥ हील० गङ्गाव०। चन्द्रिकायां सत्याममी पदार्थाः पूर्णां शोभां दधुः । यतो यमी गङ्गा जाता ऐरावणवत्
दुग्धवत् नीलोत्पलम् । शेषं सुबोधम् ॥९०॥ हीसुं० 'स्मेरत्कैरवशङ्कया 'कुवलयान्युत्तंसयत्यङ्गना
भृङ्गान्मालिकबालिका: "सुमधिया गृह्णन्ति केलीवने । "मुक्ताभ्रान्तिभृतः किरातवनिताश्चिन्वन्ति गुञ्जाव्रजां - "श्चञ्चच्चन्द्रमसो भ्रमं वितनुते नो कस्य चन्द्रातपः ॥९॥ (१) विहसत् । “स्मेरदम्भोरुहारामपवमानमिवानिल'' इति पाण्डवचरित्रे स्मेरदिति विकासनार्थे दृश्यते । (२) नीलकमलानि । (३) अवतंसानि कुर्वन्ति । अवतंसकरणं शिरसि श्रवसि च शास्त्रे दृश्यते । " आपीडशेखरोत्तंसावतंसाः शिरसः स्त्रजि" इति हैम्याम् । तथा - "विदर्भसुभ्रूश्रवणावतंसिके''ति नैषधे । (४) पुष्पभ्रान्त्या । (५) मौक्तिकभ्रमधारिण्यः । (६)
भिल्लाङ्गनाः । (७) दीप्यमानचन्द्रस्य । (८) करोति ॥९१॥ हील० चन्द्रचन्द्रिका कस्य भ्रमं नो कुरुते ?। श्वेतकजधिया नीलोत्पलानि अवतंसयन्ति । सुमधिया
पुष्पबुद्ध्या ॥९१॥ हीसुं० ज्ञायन्ते 'वसुधासुधाकरगृहा गर्जारवैः 'कुम्भिनां
दुग्धाब्धिः प्रतिनादमेदुरमिलत्कल्लोलकोलाहलैः । ५शैला: कन्दरमन्दिराङ्कविलुठत्कण्ठीरवक्ष्वेडितै -
र्जाते श्वेतकरोदये। “सुरसरिड्डिण्डीरपिण्डोपमे ॥१२॥ (१) वसुधा पृथ्वी तस्याः सुधाकराश्चन्द्रा नृपा इत्यर्थं तेषां सौधाः । "इदं तमुर्वीतलशीतलद्युति" मिति नैषधे । (२) हस्तिनाम् । (३) क्षीरसमुद्रः । (४) प्रतिशब्देन पुष्टास्तथा सन्निहितीभवन्तः तरङ्गध्वनयस्तैः । (५) पर्वताः । (६) गुहा गृहास्तेषामुत्सङ्गे विलुठतां पार्श्वे
परिवर्त्तनां कुर्वतां सिंहानां नादैः । (७) चन्द्रोदये । (८) गङ्गाफेनपटलधवलैः ॥१२॥ हील० ज्ञाय० । गगनगङ्गाफेनसदृशे चन्द्रोदये जाते सति राजगृहा हस्तिगर्जितैयिन्ते, क्षीरार्णवाः कल्लोलशब्दै
1. ०दयेऽम्बरसरि० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org