________________
पञ्चमः सर्गः ॥
१९३ यस्याः । (४) लक्षाशब्दः स्त्रीक्लीबः । तथा -"माने लक्ष''मिति लिङ्गानुशासने ॥२११॥ हील० नभो० । भ्रमरवेष्टिता पुनर्गगनाद्देवेन मुक्ता पुष्पवृष्टिस्तदुपरि पपात । उत्प्रेक्ष्यते । मुक्तिश्रियः
कटाक्षशतसहस्राणि ॥२१२।। हीसुं० महाव्रती 'कालमनोभवारिर्म होक्षलीलागतिगौ रकान्तिः ।
'शिवाश्रितः शंभुरिव क्रमेणेशानी दिशं पूर्व'मयं बभाज ॥२१२॥ (१) पञ्चमहाव्रतवान् । (२) काल: कलिस्तथा स्मरस्य शत्रुः । (३) वृषभगति, “मत्तोक्षगमन: पुमानि''ति काव्यकल्पलतायाम् । (४) स्वर्णरुचिः । गौर: पीतस्वे( श्वे )तयोः । (५) मङ्गलयुतः । (६) शंभुरपि "महाव्रती वह्निहिरण्यरेता" इति हैम्याम् । कालदैत्यस्यारिर्मृत्युञ्जयत्वात् स्मरारिः, वृषभवाहनः, श्वेतद्युतिः, पार्वत्याश्रितः, अर्द्धशंभुत्वात्, तद्वत् । ईशान्यां( नी) दिशं
प्राक् जगाम ॥२१२॥ हील. महा० । हीरहर्षमुनिः पूर्वमीशानी दिशं श्रितवान् । यथेश ईशानी दिशं गच्छति, तदधिपतित्वात् ।
किंभूतः स ईशश्च ? पञ्चमहाव्रतवान् । “महाव्रती वह्निहिरण्यरेताः" । कालदैत्यकामयोररिः ।
पुनर्वृषभेन(ण)वृषभवद्गमनं यस्य । शिवैर्मङ्गलैः शिवया वा युक्ताः ॥२१३|| हीसुं० 'कलभो 'यूथनाथेन ग्यद्वद्दम्यः ककुद्मता ।
हीरहर्षः समं सूरि-शक्रेण 'विजहार सः ॥२१३॥ (१) कलभस्त्रिंशदब्दकः करी । (२) यूथाधिपेन सार्द्धम् । (३) "दम्यो वत्सतर: समा"
विति हैम्याम् । पुष्टवत्सन्धिवर्षीयः । (४) धुरिणेनेव । (५) विहारं कृतवान् । २१३॥ हील० यथा बालगजः षष्टिवर्षीयगजेन विहरति । यथा वृषेन(ण) वत्सतरः तद्वद्हीरहर्षः सूरिणा विजहार
॥२१४॥ हीसुं० प्रीति जिनेषु वृजिनेषु न तस्य जज्ञे, योगं व्यगाहत मनो न कदापि भोगम ।
अङ्गीचकार विरतिं न रति कदाचि-नव्योऽप्यनव्य इव सोऽजनि साधुधुर्यः ॥२१४॥ (१) तीर्थकरेषु । (२) न पापेषु (३) प्रणिधानम् । (४) सुखादिकं सांसारिकम् । (५) सर्वसावधविरमणम् । (६) चित्तासक्ति मैथुनादि वा । "वृद्धास्विव गतप्रायासु वर्षासु
रतिमकुर्वाण" इति चम्पूसूत्रे । तट्टिपनके रति चित्तासक्तिमिति ॥२१४॥ हील० तस्य प्रेम जिनेषु जातं न पापेषु । शेषं सुगमम् ॥२१५।। हीसुं० सूरीन्द्रोः सन्निधौ श्रीमान्कु मारश्रमणोऽनिशम् ।
सन्तानस्य नवोन्निदत्पारिजात इवाबभौ ॥२१५॥
(१) हीरहर्षसाधुः । (२) कल्पद्रुः । “कल्पद्रुमाणामिव पारिजात" इति रघुवंशवचना1. मसौ हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org