SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १७७ (१) भावचारित्रिणः । (२) रोमाञ्चस्फुरत्सन्नाहाः, बहुलैः किरणैः प्रतापैश्च युक्त[ नां ] वलयानां सैन्यानां च समूहा येषाम् । (३) शिवनगरं ग्रहीतुमिच्छन्मनस्काः उत्सुकताकलिताः ॥१४७॥ ( १ ) महीतलक्रीडत् रेवतस्य प्रकृष्टानेककायाः । (२) उत्सवावलोकिनः । ( ३ ) विजितकन्दर्पाः ॥ १४१ ॥ हील० तत्र० भुवि० । परेऽपि भावचारित्रिणः कुमारा अश्वमारुह्यं समागताः । पुलक एवोद्युत्सन्नाहो येषां तादृशाः । पुनः प्रचुरकान्तियुक्ता वलयौघा येषां ते । कर्मधारय । एवं विधां मुक्तिनगरीं ग्रहीतुमिच्छु मनो येषां तादृशाः सन्तः उत्सुका राजकुमाराः । इवोप्रेक्ष्यते । भूविहारिण्यः एवं तस्य शस्याः श्लाघ्या मूर्त्तयः शरीराणि ॥१४१-१४२ ॥ हीसुं० 'पद्मिनीप्रियतमो दिवासादौ पावकादिव सहस्त्रमयूखैः । 'पूरुषैर्नि 'खिलमण्डलमध्यात्तत्क्षणादुपगतैष्प ( : परिवव्रे ॥१४२॥ (१) सूर्यः । (२) प्रभाते । (३) अग्नेः सकाशात् । " दिनान्ते निहितं तेजः सवित्रेव हुताशन" इति रघुवंशे । ( ४ ) नरैः । "पुरुषः पूरुषो नर" इति हैम्याम् । ( ५ ) समस्तदेशमध्यात् । (६) आयातैः ॥ १४२ ॥ हील० पद्मि० । यथा सूर्य : प्रभाते वनैः समागतैः किरणैः परिव्रियते । सूर्यो हि सायं स्वकिरणान् वह्नौ निक्षिपति, प्रातर्गृह्णाति इति कविसमयः । तद्वत्सकलदेशजनैः स परिवृतः ॥१४३॥ हीसुं० तत्र 'तद्व्रतमहो पनतानां 'मेलकः स्फुरति पञ्चजनानाम् । कौतुकेन "निजशक्तिदिदृक्षोर्नाकिनष्कि( : कि )मिह "कायनिकायः ॥१४३॥ (१) कुमारदीक्षामहोत्सवे आगतानाम् । (२) जनसङ्गमः । ( ३ ) मनुष्यानाम् ( णाम्) । ( ४ ) स्वसामर्थ्यं द्रष्टुमिच्छो: । ( ५ ) देहनिवहः ॥ १४३॥ हील ० तत्रागतजनौघः स्फुरति । उत्प्रेक्ष्यते । वैक्रियलब्धि द्रष्टुमिच्छोः सुरस्य देहव्रज इव ॥ १४४॥ हीसुं० 'निष्पतन्मदविलोलकपोलास्तत्पुरः समचरन्द्विरदेन्द्राः । विन्ध्यभू इव निर्झरशाली जङ्गमष्क ( : क ) रणबंहिममाली || १४४ ॥ ( १ ) नि:सरद्दानवारिचञ्च[ ल ] गण्डस्थलाः । (२) विन्ध्याद्रिः । ( ३ ) निर्झरणयुतः । ( ४ ) शरीरबाहुल्यधारी ॥ १४४ ॥ हील० निष्प० । तस्य पुरः समदा गजाः सञ्चरन्ति स्म । उत्प्रेक्ष्यते । कायानां बंहिमा - बाहुल्यं मलतेधारयति तादृशो विन्ध्याचलः ॥ १४५ ॥ हीसुं० 'स्यन्दनैः स्य' दविगानितवातैस्तत्पुरोऽङ्कविलसज्जनजातैः । पुस्फुरे सुरसमूहसनाथैः क्ष्मागतैरिव मरुद्रथसार्थैः ॥१४५॥ 1. ०पगतानां हिमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy