SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५० 'श्री हीरसुन्दर' महाकाव्यम् (८) सदा । (९) भुक्त्वा ॥१८॥ हील. निर्गतायुर्बला जीवा नरकनिगोदादिषु दुःखमनुभूय म्रियन्ते ॥१८॥ हीसुं० धर्ममा र्हतमतो 'जनिमन्तो यानपात्रमिव सङ्ग्रहयध्वम् । 'तस्थुषीं भिवपयोनिधिपारे मुक्तिनामनगरी च "जिहीध्वम् ॥१९॥ (१) जिनप्रणीतम् । (२) जन्तवः । (३) वाहनमिव । (४) सङ्ग्रहं कुरुध्वम् । (५) स्थिताम् । (६) भवसमुद्रस्य परस्मिन् पारे । (७) गच्छत ॥१९॥ हील० धर्म० । अत आर्हतं धर्मं यूयं सङ्ग्रहयध्वम् । यदि संसारपारस्थितां शिवपुरी जिहीध्वं यूयं गच्छत ॥१९॥ हीसुं० द्वे 'महोदयपुरस्य पदव्यौ प्रध्वरा च विषमा च जिनोक्ते । आदिमा ननु महाव्रतनामा पश्चिमा 'पुनरणुव्रतरूपा ॥२०॥ (१) उभे । (२) मुक्तिनगरस्य । (३) माग्ौ । (४) साधुमार्गः । (५) श्रावकमार्गश्च ॥२०॥ हील० द्वेम० । भो भव्याः ! द्वौ मौक्षमार्गों वर्तते । आद्या पञ्चमहाव्रतलक्षणान्या द्वादशव्रतरूपा ॥२०॥ हीसुं० तूर्णमस्ति यदि तत्र यियासा प्रध्वरे पथि ततः 'प्रयतध्वम् । सौगतोदितपदार्थ इवास्ते यद्भवः स्फुरदशाश्वतभावः ॥२१॥ (१) शीघ्रम् । (२) मुक्तिपुरे । (३) गन्तुमिच्छा । (४) साधुमार्गे । (५) उद्यमं कुरुत । (६) बौद्धमतकथितपदार्थे सर्वं क्षणिकमित्यादिके । (७) प्रकटीभवनश्वरत्वं यत्र ॥२१॥ हील. तूर्ण० । भो भव्या ! स्तत्र मोक्षपुरे यदि यातुमिच्छा सतूरमास्ते तर्हि साधुमार्गरूपे मार्गे प्रयत्न कुरुध्वम् । बौद्धकथितवस्तुव्रजे सर्वं क्षणिकमित्यादि वाक्यात् यावत्पदार्थसार्थे अनित्यतास्ति तद्वद्भवः -संसारः स्फुरन्नशास्व(श्व)तः भावः स्वरूपं यस्य तादृशः समस्ति ॥२१॥ हीसुं० 'सान्ध्यराग इव जीवितमास्ते यौवनं च सरितामिव वेगः । यत्क्षणेव कमला 'क्षणिकेयं तत्त्व रव मनिशं जिनधर्मे ॥२२॥ (१) सन्ध्यासम्बन्धी राग इव । (२) विद्युदिव (३) लक्ष्मीः । (४) क्षणस्थायिनी । (५) शीघ्रीभवत । (६) नित्यम् ॥२२॥ हील० यद्यस्मात्सन्ध्याराग इव जीवितव्यं आस्ते, यौवनं नदीपूरमिव त्वरितं प्रयाति, लक्ष्मीरपि विद्युदिवास्थिरास्ति, तत्तस्माद्भो भव्याः ! जिनधर्मे त्वरां कुरुध्वम् ।।२२॥ हीसुं० १भारतीमिति निशम्य "शमीन्दोः 'कल्पिताप्लव इवामृत:( त )कुण्डे । उल्लसत्पुलकपल्लविताङ्ग श्चेतसीति 'वि-ममर्श कुमार: ॥२३॥ 1. इति गुरु देशना हील। 2. विततर्क हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy