________________
सटीकजंबूद्वीपसङ्ग्रहणी
५९
चतुस्त्रिं शत्सु वैताढयेषु प्रत्येकं नव नव कूटा नि । तथाहि-तत्रत्य भरतवैताढयकूटनवकं स्वरूपमादौ प्रकटीक्रियते । तथाहि सिद्धायतनकूटं १ दक्षिणार्धभरतकूटं २ खण्डप्रपातगुहाकूटं ३ माणिभद्रकूटं ४ वैताढयकूटं ५ पूरणभद्रकूटं ६ तमिस्रा गुहाकूटं ७ उत्तरार्धभरतकूटं ८ वैश्रमणकूटं ९ चेति । उक्तं च"सिद्धायननं कूटं दक्षिणभरतार्धनामधेयं च ।
खण्डप्रपात कूटं तुर्य तन्म णिभद्राख्यम् ।। वैता ढ्याख्यं पश्चममथ षष्ठं पूर्णभद्रसंज्ञं च ।
भवति तमिस्रागुहं चोत्तः भरतार्धं च वैश्रमणम् ॥" तत्र सिद्धायतनकटमध्ये शाश्वतार्हदायतनं तत्र ऋषभचन्द्राननवारिषेणवर्धमानाख्यतीर्थकृदष्टोत्तरैकशतसङ्ख्याः प्रतिमाः । स्वरूपं चानन्तरं विस्तरतो व्याख्यास्यते । दक्षिणार्धभरतमाणिभद्रवैताढयपूरण भद्रोत्तरार्धभातवैश्रमणाख्येषु षट्सु कटेषु स्वस्वनामाङ्कितदेवावासाः । खण्डप्रपात गुहाख्य कूटे नृत्यमालदेवावास । तमिस्रागुहाख्य कटे च कृतमालदेवावास इति । तत्र माणिभद्रवैताढयपूर्णभद्राख्यानि त्रीणि स्वर्णमयानि शेषाणि षट् च रत्नमयानि । एतानि नवापि कटानि प्राच्या आरभ्य ज्ञेयानि । प्राचीनोदधिसन्निधौ सिद्धायतनमित्यादि सक्रोशषड्योजनानि उच्चानि तावत्येव यो ननानि मूले विष्कम्भायामतः, मध्ये देशोनानि पञ्चयोजनानि, शिरसि च साधिकानि त्रीणि योजनानि । सर्वाण्यप्येतान्यूद्धर्वीकृतगोलालस्थितानि । सिद्धायतनाख्यादिमकूटस्योपरि प्रवरनरपतिमौलिकिरीटमिव रम्य ससिद्धायतनं सदनकनकमणिमय एकक्रोशायतं सहस्रधनुर्विशालं चत्वारिंशदुत्तरचतुर्दशशतानि चापानामुत्तङ्ग प्राच्युदीच्यवाचीस्थद्वारत्रयोपशोभितं विराजते । एकैकं तद्वारं धनुपञ्चशतोत्तुङ्ग तदर्ध च विस्तृतम् । तत्र सिद्धायतने पञ्चधनुःशतविष्कम्भायामा तदर्धवाहल्या मणिपीठिका वर्तते तदुपरि च पञ्चचापशतविष्कम्भायामः सातिरेकाणि धनुषां पञ्चशतानि उत्तुङ्गो देवच्छन्दकः । तत्र चौत्सेधधनुःपञ्चशतोच्छ्रित्ताः एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिरित्येवं चतुर्दिग्व्यवस्थितत्वेनाष्टोत्तरशतसङ्ख्याप्रमिता ऋषभादिप्रागुक्ताभिधानार्हतां नित्यप्रतिमाः प्रकाशन्ते तासां च स्वरूपमिदम् । अन्तलोहिताक्षरत्नप्रतिसे कमनोहराः अङ्करत्नमया नस्वाः, तपनीयमयानि पाणिपादतलानि, जिह्वाश्रीवत्सचूचुकं तालूनि च । श्मश्ररोमराजयश्च रिष्टरत्नदिनिर्मिताः । ओष्ठा विद्रुमविहिताः । नासा अन्तर्लोहिताक्षप्रतिसेका तपनीयजन्या, लोहिताक्षनिषेकाण्यङ्कमयान्यक्षोणि, तारका अक्षिपक्ष्माणि भ्रवश्च रिष्टरत्ननिर्मिताः, ललाटपट्टश्रवण कपोलं कनकमयं, केशभूमिस्तपनीयमयी, केशाश्च रिष्टरत्नजन्मानः, शीर्षघटिका वज्रजा, ग्रीवाबाहुक्रमजङ्घाङ्गुल्योरुतनुयष्टयः कनकनिर्मिता । नन्वेतानि भावजिनप्रतिरूपाणि तेषु चोचितं श्मश्रुक दि श्रामण्यानुचितं कथं ? तदुक्तं तपागच्छनायकदेवेन्द्रसूरिशिष्यश्रीधर्मधोषसूरिभिर्भाध्यवृत्तौ भगवतोsपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्थासु ज्ञानैवेति ! अत्रोच्यते भावार्हतामपि श्मश्रुकुर्चादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org