________________
सटीकजंबूद्वीपसङ्ग्रहणी
NI
क
निषिध
MOHINI
या
नीलवंत
सौता वा सीतोदा। महानदी
पर्वतः
ला
वक्षस्कार गिरेः पूर्वपार्श्वदर्शनं
चित्राङ्क : १६ मालवन्निषधयोर्गन्धमादनसोमनसगजदन्तगिर्योः सप्त सप्त प्रत्येकं कूटानि । तथाहि गन्धमादने मेरान्ति के सिद्धायतनाख्यं कूटं १ ततोऽनुक्रमं नीलवत्सन्मुखानि षट्कटानि-तद्यथा गन्धमादनकूटं १ गन्धिलाबत कूटं २ उत्तरकुरुकूटं ३ स्फटिककूटं ४ लोहिताक्षकूटं ५ आनन्द कूटं ६ च । तत्र सिद्धायतनकूटे सिद्धदेवालयः, स्फाटिकलोहिताक्षकूटयो गङ्कगभोगवत्योर्दिक्कुमारिकयो रावासो शेषेषु चतुर्पु कूटेषु स्वस्वनामाङ्कितदेवावासाः । एतानि च पञ्चशत योजनोच्चानि । इति गन्धमादनकूटसप्तकस्वरूपम् । सोमनसे मेरोरन्तिके सिद्धायतनकूटं १ ततोऽनुक्रमं निषधसन्मुखानिषट्कूटा नि-तद्यथा सोमनसकू. १ मङ्गलावतीकूटं २ देवकुरुकूटं ३ विमल टं ४ काञ्चनकूटं ५ वशिष्टकूटं ६ चेति । एतानि पञ्चशतयोजनविशालोच्चानि । तेषु सिद्धायतनकूटे सिद्धप्रासादः, विमल काञ्चनकूटयोः सुवत्सावत्समित्रयोः काष्ठाकुमार्योरावासौ । शेषं पूर्ववत् स्वस्वनामादेवावासत्वम् । इति सोमनसकूटस्वरूपम् ॥ रूप्योऽष्टौ कूटानि-तथाहि-सिद्धायतनकूटं १ रुक्मिकूटं २ रम्यककूटं नरकान्ताकूटं ४ बुद्धिदेवीकूटं ५ रूप्यकूलाकूटं ६ हैरण्यवतकूटं ७ मणिकाञ्चन् कूटं चेति । एतानि प्रत्येकं पञ्चशतयोजनोच्चानि । तत्र सिद्धायतने सिद्ध चैत्यं, रुक्मिरम्यग्धैरण्यवन्मणिकाञ्चनकूटेषु स्वस्वनामाङ्कितदेवावासाः । नरकान्ताबुद्धिदेवीरूप्यकूला कूटेषु स्वस्वाभिधाङ्कितदेव्यावासाः । इति रुक्मिकूटाष्टकविवरणम् ॥ महाहिमवत्यष्टौ कूटानि-तथाहि-सिद्धायतनमहाहिमवद्धिमवद्रोहिताही हरिकान्ताहरिवर्षवैडूर्याख्यानि । तत्र सिद्धायतने सिद्धालयः । महाहिमवद्धिमवद्धरिवर्षवैडूर्येषु स्वाभिधानदेवावासाः । रोहिताहीदेवीहरिकान्तासु स्वस्वनामाङ्कितदेव्यावासाश्चति । एतेषां प्रासादराजधान्यादिवक्ष्यमाणकूटवत् । इति महाहिमवत्कूटाष्टकस्वरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org