SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङ्ग्रहणी चउतीसवियड्रेस विज्जुप्पहनिसढनीलवंतेसु । तह मालवंत सुरगिरि नव नव कूडाई पत्तेयं ॥१४॥ हिमसिहरीसु इक्कारस इय इगसटिगिरीसु कूडाणं । एगत्त सव्वधणं सय चउरो सत्तसट्टी य ॥१५॥ सोलसवक्खारेमुनि षोडश-वक्षस्कारेषु, चउचउकूडति चत्वारि चत्वारि कूटानि च, हुतित्ति भवन्ति, पत्तेयंति प्रत्येकं, सोमणसगंधमायणत्ति सौमनसगन्धमादनयोः, सत्तत्ति सप्त सप्त रूप्पिमहाहिमवेत्ति रूप्यमहाहिमवतोः, अट्ठति अष्टावष्टौ चेति, चउतीसवियड्ढेमुत्ति चतुस्लिंशद्वैताढयेषु, विज्जुपहनिसढनीलवंतेसुत्ति विद्युत्प्रभनिषधनीलवत्सु, तहत्ति तथा, मालवंतसुरगिरित्ति माल्यवत्सुरगिर्योः, नव नवति नव नव, कूडाइंति कूटानि, पत्तेयंति प्रत्येकं, हिमसिहरीसुत्ति पदैकदेशे पद समुदायोपचाराद्धिमवच्छिखरिणोः, इक्कारसत्ति एकादश एकादश, इयत्ति इति, इगसटिगिरीमुत्ति एकषष्टिगिरीषु, कूडाणंति कूटानां शिखराणां एगत्तेत्ति एकत्वे समुदिते सयधगंति सर्वधनं सर्वसङख्या सयचउरोत्ति शतानि चत्वारि सत्तसट्ठीयत्ति सप्तषष्टिश्च इति पदसंघटना ॥ अयं भावः पूर्वोक्तकोनसप्ततिद्विशतगिरिषु अष्टोत्तरद्विशतगिरयो निष्कूटा एकषष्टिगिरयश्च सकूटास्तत्र तेषु प्रत्येकं यावन्ति कूटानि तदर्शयति । तत्र षोडशसु विजयान्तरितेषु प्रत्येकं चत्वारि कूटानि तद्यथा-एकं तावत् सिद्धायतना ख्यं १ द्वितीयं यत्र कूटं विवक्षितं तन्नामाख्यं ३ तृतीय पृष्ठवर्तिविजयाख्यं ३ । चतुर्थमग्रिमविजयाख्यं ४ । तथाहि कच्छसुकच्छविजयान्तरितचित्रक्टाभिधवक्षस्कारे १- सिद्धायतनकटं, २- चित्रकूटं, ३- कच्छ कूटं, ४-सुकच्छकूटं च वर्म (ब्रह्म)कूटाख्यं-वक्षस्कारे १-सिद्धायतनकूट, २-वर्मकूट, ३-महाकच्छकूटं, ४-कच्छावतीकूटं । नलिनोकटे-सिद्धायतननलिनीकूटावर्तमङ्गलाव ख्यानि चत्वारि । एकशैलकूटे सिद्धायतनैकशैलकूटपुष्कलावर्तपुष्कलावत्याख्यानि चत्वारि कूटानि । त्रिकूटे सिद्धायतनत्रिकूटवससुवत्साख्यानि चत्वारि क्टानि । वैश्रमणकूटे सिद्धायतनवैश्रमणकूटमहावत्सवत्सावत्याख्यानि चत्वारि शिखराणि । अञ्जने सिद्धायतनाअनरम्यरम्यकाख्यानि चत्वारि शिखराणि । मातञ्जने सिद्धायतनमात अनरमणीमङ्गलावत्याख्यानि चत्वारि कूटानि । अङ्कावतिवक्षस्कारे सिद्धायतनाङ्कावतिपद्मसुपद्माख्यानि चत्वारि शिवराणि । पद्मावतिवक्षस्कारे सिद्धायतनपद्मापातिमहापद्मपद्मावल्याख्यानि चत्वारि कूटानि । आशीविषे सिद्धायतनाशीविषशङ्खनलिनाख्यानि चत्वारि शिखराणि । सुखावहे सिद्धायतनसुखावहकुमुदनलिनावत्याख्यानि चत्वारि कटानि । चन्द्र सिद्धायतनचन्द्रपद्मसुपद्मानि चत्वारि शिखराणि । सूरे सिद्धायतनसूरमहावप्रपद्मावत्याख्यानि चत्वारि कटानि । नागे सिद्धायतननागवल्गुसुवलवाख्यानि चत्वारि शिखराणि । देवे सिद्धायतनदेवगन्धिलगन्धिलावत्याख्यानि चत्वारि कूटानि । एवं सर्वाण्यपि संमील्य चतुःषष्टिकूटानि । तेषु सिद्ध यतनकूटेषु सिद्धायतनानि, शेषेसु स्वस्वनामाङ्कितदेवावासावतंसकाः । इति वक्षस्कारकूटस्वरूपम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy